अथ चतुश्चत्वारिंशोऽध्यायः

जयादय ऊचुः-


नारायणमुने ! स्वामिन् ! भक्तवत्सल ! सत्पते ! । पृच्छामस्त्वां वयं किञ्चित्कृपया तच्छृणु प्रभो ।। १

त्वां प्रसादयितुं प्रोक्ताः शास्त्रेषु बहवो गुणाः । दानयज्ञातपोयोगजपच्छन्दोव्रतादयः ।। २

तेषु मुख्योऽस्ति कः स्वामिन् ! येन संसेवितेन वै । नितरां त्वं प्रसन्नः स्याः स्वभक्तेभ्यो वरप्रदः ।। ३

प्राप्तेन येन चैकेन प्राप्ताः स्युः सकला गुणाः । अप्राप्ते च गुणे यस्मिन् गतास्युरपरे गुणाः ।। ४

वयं वेदितुमिच्छामः सर्वास्तं त्वदुपासिकाः । वक्तुमर्हसि तस्मात्त्वं वासुदेव ! सुनिश्चितम् ।। ५


श्रीनारायणमुनिरुवाच-

भक्तयैवाहं प्रसन्नः स्यां यथा भक्तास्तथेतरैः । साधनैर्नैव तुष्यामि जानीतेति सुनिश्चितम् ।। ६

दानयज्ञातपोयोगजपच्छन्दोव्रतादिभिः । तुष्येय सत्कृतैः किन्तु यथा भक्तया न तैस्तथा ।। ७

न विप्रत्वं न देवत्वं नोत्कृष्टं जन्म चापरम् । मत्प्रीतिकारणं किन्तु भक्तिरेकास्ति सर्वथा ।। ८

स्नेहेन सेवनं यत्तु माहात्म्यज्ञानपूर्वकम् । तदेव लक्षणं ज्ञोयं भक्तेरिह महाव्रताः ! ।। ९

नराकृतिरपि कृष्णः सकलैश्वर्यसंयुतः ।दिव्यविग्रह एवेति माहात्म्यं ज्ञोयमस्य च ।। १०

तादृग्भक्तिगुणे प्राप्ते प्राप्ताः सर्वे गुणाः किल । भवन्ति तस्मिंश्चाप्राप्ते गता इव परे गुणाः ।। ११

क्रियमाणापि भक्तिस्तु माहात्म्यज्ञानमन्तरा । न वर्धते न च गुणास्तं भजन्ति शमादयः ।। १२

साप्यारम्भदशायां तु वर्धमानापि निर्बला । ध्रुवं नश्यति तारुण्यात्प्राक् स्त्रीव क्षयरोगिणी ।। १३

तस्यां च क्षीयमाणायां प्रागुपात्ताः परे गुणाः । रक्ष्यमाणा अपि बलाद्वियन्त्येव न संशयः ।। १४

माहात्म्यज्ञानपूर्वं सा क्रियमाणा त्वनुक्षणम् । विवर्धतेऽतिबलिनी दाववह्निशिखा यथा ।। १५

तपोमुख्याश्च नियमा ब्रह्मचर्यादयो यमाः । तथा शमदमाद्याश्च प्रोच्यन्ते विबुधैर्गुणाः ।। १६

माहत्म्यज्ञानहीनो हि तेषु चैकतमो गुणः । न तिष्ठेन्मनुजे तर्हि कुतः सर्वगुणा तु सा ।। १७

विज्ञातं येन माहात्म्यं यावत्तस्य तु तावती । श्रद्धा कृष्णे भवेत्स्याच्च भक्तिः श्रद्धानुरूपिणी ।। १८

विज्ञाय तस्य माहात्म्यं श्रद्धया या कृता दृढम् । भक्तिः सैकैव मेऽत्यन्तं प्रसन्नत्वस्य कारणम् ।। १९

भवतीनां तु सर्वासामस्ति माहात्म्यवेदनम् । किन्तु तद्दृढतासिध्घै श्रोतव्याः सत्कथाः सदा ।। २०

वेदेषु कृष्णमाहात्म्यं वर्णितं वर्तते भृशम् । दुर्ज्ञोयो हि तदर्थस्तु विद्वद्बिरपि सर्वथा ।। २१

तेनैवातस्तदर्थस्तु व्यासरूपेण सद्धियः! । पुराणेष्वितिहासे च सुज्ञोयोऽस्ति निरूपितः ।। २२

सारः सर्वपुराणादेः श्रीमद्बागवतं स्त्रियः ! । तस्यापि दशमस्कन्धः सार इत्यस्ति मे मतम् ।। २३

कृष्णाकारस्य तत्रास्ति स्थापनं भक्तिधर्मयोः । आश्रयस्येत्यसौ नूनं मया सर्वाधिको मतः ।। २४

तस्मादवश्यं श्रोतव्यः पठनीयश्च सोऽन्वहम् । माहात्म्यज्ञानदाढर्यं स्यात्ताभ्यां भक्तिश्च वर्धते ।। २५


सुव्रत उवाच-

इति श्रुत्वा भगवतो वाक्यं ता योषितोऽखिलाः । लब्ध्वैव परमानन्दं सादरं तं ववन्दिरे ।। २६ 

ततो भगवताऽज्ञाप्तास्ता ययुः स्वस्वमन्दिरम् । तद्गुणानेव गायन्त्यश्चक्रुः कर्म च नैत्यकम् ।। २७

नारायणश्च सकलान्भक्तानानन्दयन्निजान् । उवास मन्दिरे स्वीये श्रेयोमूर्तिः स सत्पतिः ।। २८

नृपतिरुत्तम आप्तमनोरथो भगवतः कृपया खलु तस्य सः ।
अचलभक्तिभरेण तमन्वहं परिचचार नरेश ! गतस्मयः ।। २९


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे प्रबोधन्युत्सवे भगवदतितोषकगुणनिरूपणनामा चतुश्चत्वारिंशोऽध्यायः ।।४४।।