अथ त्रिचत्वारिंशोऽध्यायः

सुव्रत उवाच-


ब्रह्मचर्यव्रतपरा जया च ललिता रमा ।
समीपमाययुस्तस्य गृहीतार्हणपाणयः ।। १

अमरीप्रमुखाश्चान्या योषितोऽप्यर्चनोत्सुकाः ।
नारायणस्य तास्तिस्त्रो मुख्या अन्वाययुस्तदा ।। २

साङ्गोपाङ्गोत्सवस्यैव समाप्त्या स्वस्थचेतसः । कृ
तनित्यविधानास्ताः शुचयस्तं ववन्दिरे ।। ३

तं स्मेरवदनाम्भोजं दृा स्वस्थं समास्थितम् । पू
जनावसराभिज्ञाः पूजयन्ति स्म भक्तितः ।। ४

सुगन्धिना चन्दनेन कृङ्कुमागुरुकेसरैः ।
कस्तूर्या चाक्षतैर्नानापुष्पहारैश्च शेखरैः ।। ५

वस्त्रैर्नानाविधैः सूक्ष्मैरनर्घ्यै रत्नभूषणैः ।
धूपदीपोपहारैश्च कर्पूरारार्त्रिकादिभिः ।। ६

सम्पूज्य विधिवद्बक्तया प्रभुं नत्वा निजं निजम् ।
भावं प्रकटयन्त्यस्तास्तुष्टुवुस्तं पृथक् पृथक् ।। ७


जयोवाच-

नमामि कृष्णाय हरेऽखिलात्मनां सदात्मने श्रीपुरुषोत्तमाय ते ।
अनन्तकोटयण्डभवादिहेतवे ह्यशेषकल्याणनिकेतमूर्तये ।। ८

अधोक्षजायाक्षरधामवासिने स्वभक्तहृद्वाञ्छितमूर्तिधारिणे ।
अनेकमायापुरुषेश्वराय ते नमो नियन्त्रेऽखिलदेहधारिणाम् ।। ९

अचिन्त्यमानन्दमयं च निर्गुणं वदन्ति वेदान्तविदोऽव्ययं च यत् ।
परं परंब्रह्म परात्मशब्दितं तदेव साक्षाद्बगवांस्त्वमेव हि ।। १०

सुखं प्रदातुं स भवानिहाद्य नो निजाश्रितेभ्यो नृतनुं हि शिश्रिये ।
इमां तपोधर्मविरक्तिवेदनैर्निषेवितां नित्यमनन्यसंश्रयैः ।। ११

निजेच्छया स्वीकृतयाऽनया विभो ! मनुष्यतन्वा सुरवृन्दवन्द्यया ।
त्वमाददानः कृपयास्मदर्चनं महोत्सवैर्नः सुखयस्यथेदृशैः ।। १२

सुखं तनोति श्रवणं च कीर्तनं स्मृतिर्नतिः पूजनमङ्घ्रिसेवनम् ।
प्रभो ! सखित्वं च तवात्र दासता वपुष्मतामात्मनिवेदनं तथा ।। १३

तवात्र मूर्तौ यदि भक्तिलक्षणं दृढं भवेदेकतमं नवस्वपि ।
जनस्य यस्यात्र स कार्यकारणात्मकं हि तीर्णः सहसा तमोम्बुधिम् ।। १४

कृतार्थ एवाजनि सोऽत्र भूतले ह्यभूदघौघोऽपि च तस्य भस्मसात् ।
बभूव मुक्तिः किल तस्य जीवतः प्रभो ! वयं विद्म इति स्वचेतसि ।। १५

स्वभक्तसंरक्षणतत्परस्य ते न जन्मनामन्त उतास्ति कर्मणाम् ।
अशेषदुःखप्रशमैकहेतवे नमोऽस्तु तस्मै परमेश्वराय ते ।। १६

स वै भवान्सह्ययमेव सम्पदामिह प्रकुर्वन्सुखदः सदैव नः ।
स्थितिः शरीरस्य तु यावदेव नः प्रभो ! निवस्तुं खलु तावदर्हसि ।। १७


सुव्रत उवाच-

इति स्तुत्वा हरिं भक्तया विरराम जया ततः ।
बद्धाञ्जलिपुटाऽस्तौषीत्तं प्रणम्य रमा नृप ! ।। १८


रमोवाच-

स्वामिंस्त्वच्चरणाम्बुजं भवदवक्लिष्टात्मनां सौख्यदं ।
देहान्तःकरणेन्द्रियासुभिरहं वन्दे नतं सज्जनैः ।।
भूयस्यामिह संसृतौ स्वविहितैः कर्माख्यपाशैर्दृढं ।
बद्धान्मोचयितुं ततः खलु जनान्मायाधिपस्त्वं प्रभुः ।। १९

मायायाः परतः परश्च भगवान्सर्वेश्वरः श्रीहरिः ।
स त्वं पुंप्रकृतीः प्रविश्य कुरुषेऽनेकाण्डसर्गादिकम् ।।
तत्रापीश ! न बध्यसे प्रकृतिभिर्नित्यं स्वतन्त्रः प्रभु- ।
र्निर्लेपः पवनो यथाऽखिलगतश्चेष्टाः प्रकुर्वन्नपि ।। २०

आत्मीयेन सुखेन नित्यसुखवानेकस्त्वमेवासि वै ।
देवादेवनराः परे तु सुखिनः स्त्रीवित्तधामादिभिः ।।
त्वद्बक्तास्तु सदा त्वयैव सुखिनो दुःखानि जानन्ति तान् ।
शब्दादीन्विषयांश्च येऽत्र रसिता यच्छान्ति वै संसृतिम् ।। २१

ब्रह्माद्या जगतीह ये तनुभृतस्ते कालशक्तयैव ते ।
वर्तन्ते हि नियन्त्रिता निजनिजामाजीविकां त्वत्कृताम् ।।
आश्रित्यैव विभो ! वृषा इव नसि प्रोताः कृषिं कुर्वतः ।
सर्वे ते तु वशे भवन्ति तव वै यावन्निजायुःक्षयः ।। २२

मर्यादां रचितां त्वयैव भगवन् ! कालोऽपि सम्पालयन् ।
नाविर्भावयति क्षितौ दिवि तथा नानाऋतूनां गुणान् ।।
वायुर्वाति दिवाकरो भ्रमति खे वर्षत्यमर्त्येश्वरो ।
मृत्युर्धावति सर्वतश्च सभयं नेशस्तदुल्लङ्घने ।। २३

योषाहेमविभूषणांशुकगृहग्रामादिषु श्रीहरे ! ।
त्वन्मायारचितेषु सङ्गमपि यन्नैव क्वचिल्लिप्यसे ।।
और्वोऽग्निर्जलधौ वसन्नपि पराभूतिं जलैर्नाप्नुवं ।
स्तान्यश्नन्नुत वर्धते खलु यथा त्वं तद्वदत्र प्रभो ! ।। २४

त्यक्ताः प्राकृतिका मया तु निखिला मुक्तैस्तथान्यैर्गुणा ।
ये तेभ्योऽपि वयं बिभीम उरुधा त्वत्प्रेमवृद्धीप्सवः ।।
तेषु त्वं तु वसन्नपीश्वरतया नो बध्यसे नाज्यसे ।
व्योमेव स्थिरजङ्गमस्थमघहृन्न स्पृश्यसे तग्दुणैः ।। २५

ईशत्वं तव चैतदेव नृतनोर्मायागुणानञ्जनं ।
जानन्त्यत्र महाजना हि सुधियो भक्तप्रिय ! श्रीहरे ! ।।
त्वय्येवास्तु मनो मदीयमनिशं त्वां प्रार्थयामीत्यहं ।
त्वन्मायागुणतः सदास्मदवनं कर्तुं त्वमेवार्हसि ।। २६


सुव्रत उवाच-

इति स्तुत्वा रमा भक्तया नारायणमुनिं नृप ! ।
तूष्णीमासाथ ललिता तं तुष्टाव कृताञ्जलिः ।। २७


ललितोवाच-

श्रीवासुदेव ! पुरुषोत्तम ! पादपद्मं भक्तया नमामि तव कायवचोमनोभिः ।
संसारवारिधिनिमज्जदनेकजीवप्रोत्तारणप्लवमहं श्रुतिवृन्दवन्द्यम् ।। २८

मायापरोऽपि जगदुद्बवपालनान्तलीलार्थमात्तविधिविष्णुशिवादिरूपः ।
अप्राकृतैर्गुणगणैरभिसेवितांघ्रिस्त्वं राजसे हि परमेऽक्षरधाम्नि भूमन् ! ।। २९

त्वं प्राकृताख्यतमसः पर एव तस्मिन् धाम्नयृद्धिभिश्च महतीभिरुपासितोऽसि ।
राधारमाप्रमुखशक्तिभिरानताभिर्भक्तयाऽनुवेलमभिसेवितपादपद्मः ।। ३०

मूर्तौ वृषात्त्वमभवः खलुमानवानां नारायणर्षिरभवाय पुरात्र खण्डे ।
प्रादुर्बभूविथ सुतोऽद्य तयोर्नृतन्वोः श्रीनीलकण्ठ इति कोसलदेश ईश ! ।। ३१

हीनो गुणैस्त्रिभिरधीश्वर ! मायिकैस्त्वं नृत्वेऽपि दिव्यतनुरित्यसि निर्गुणाख्यः ।
सम्पोषणं विदधदेव तयोः स्वपित्रोः कल्याणमत्र तनुषे श्रितदेहभाजाम् ।। ३२

वर्णाश्रमेषु सकलेष्वपि कालनष्टं धर्मं प्रवर्तयितुमीश ! सनातनं त्वाम् ।
जातं वदन्ति कतिचित्कतिचिच्च भूमन् ! पाषण्डिभिन्नमिह पारमहंस्यधर्मम् ।। ३३

केचिद्वदन्ति पृथुयज्ञामहेन्द्रहातपाषण्डलिङ्गगुरुभिः कृशतां हि नीतम् ।
सत्सम्प्रदायमनघोद्धवसम्प्रणीतं पुष्टं विधातुमिह जात इति प्रभो ! त्वाम् ।। ३४

पुष्टिं विधातुमिह धर्मयुजः स्वभक्तेर्धर्मारिगुर्वसुरसङ्घतनूकृतायाः ।
प्रादुष्कृतद्विजवराकृतिरित्यहं तु जाने भवन्तमखिलार्थदमाश्रितेभ्यः ।। ३५

शृण्वन्ति ये तव गुणानिह नाथ ! सद्भ्यो गायन्ति वा स्वहृदये श्रुतिगान् स्मरन्ति ।
तेषां च ये विदधतेऽप्यनुमोदनं वा ते यान्ति धाम तव संसृतिबन्धमुक्ताः ।। ३६

भक्तिं तवाथ तव वापि सतां प्रसङ्गं हित्वात्मबोधमुपलब्धुमिहाञ्जसा ये ।
क्लिश्यन्ति भूरिनियमैस्त इतो लभन्ते क्लेशं फलं ननु यथेह पुलाककण्डाः ।। ३७

मुख्या मया तु तव भक्तयधिकारिणो ये वैराग्यधर्मनिजबोधयुतास्त एव ।
सद्भ्यः श्रुता इति वपुर्वचनात्मभिस्ते सेवां करोमि निजशक्तयनुसारिणीं वै ।। ३८

स्याद्यत्र यत्र मम जन्म च तत्र तत्र ह्यत्राप्यमुत्र च निरन्तरमेकभक्तया ।
निष्काममेव तव सेवनमीश ! मे स्तादित्यर्थयाम्यहमतिप्रणयाद्बवन्तम् ।। ३९


सुव्रत उवाच-

ललिता ललितैः पद्यैरिति स्तुत्वा निजं प्रभुम् ।
तूष्णीमासीत्ततश्चान्याः स्त्रियो भक्तास्तमस्तुवन् ।। ४०


अमर्युवाच-

वन्देऽहं नमदमरीललाटभूषाहीरालिद्युतिविलसन्नखेन्दुकान्ति ।
पादाब्जं तव सुरसिद्धसङ्घसेव्यं सद्बक्तया निगमसरस्वतीप्रगीतम् ।। ४१

नित्यं ते चरणयुगे ममास्तु चित्तं संसारे स्वजनधनादिषु क्वचिन्मा ।
सङ्गस्ते चरणसरोजलग्नहृद्बिर्योषाभिर्भवतु भवे सदैव चास्मिन् ।। ४२


अमलोवाच-

भक्तानामभिलषितार्थदानदक्षं तं त्वाहं निजहृदये दधामि नित्यम् ।
भक्तिं मे ध्रुवमधिमान्य यस्त्वमल्पां कारुण्यादधिकमुपैषि हि प्रसादम् ।। ४३

चित्तं मे गुणमणिमण्डने हि तस्मिंस्त्वय्येव प्रकटदयागुणे च भूम्नि ।
संलग्नं भवतु विहाय दैहिकानां संसर्गं धरणिवदस्तु तत्स्थिरं च ।। ४४


मेनोवाच-

भक्तयाहं तव पदसारसं दयालो ! वन्दे तत्प्रणतजनार्तिनाशशीलम् ।
यत्स्पर्शादखिलमिदं पुनाति विश्वं रूपैः स्वैस्त्रिभिरमरेश्वरांश्च गङ्गा ।। ४५

तत्तेऽहं दृढतरभावतः पदाब्जं सेवे वै गृहधनतोऽपकृष्य चित्तम् ।
नेच्छामि ध्रुवममरादिभोगजातं त्वत्तोऽन्यत्तत इह मां सदा निधेहि ।। ४६ 

 
सर्वाः स्त्रिय उचुः - 

अतिमनोहरं सर्वसुन्दरं तिलकलक्षणं चञ्चलेक्षणम् ।
विबुधवन्दितं स्वामिनाथ ! ते वपुरिहास्तु नो नित्यदर्शने ।। ४७

मदनमोहनं प्रेमदोहनं नयनगोचरं भक्तसञ्चरम् । भुवि सुदुर्लभं स्वामि० ।। ४८

निजजनैः सदा वाञ्छितं हृदा परसुखावहं हृत्तमोपहम् । परममङ्गलं स्वामि० ।। ४९

हृदयरोचनं बद्धमोचनं विगतशोचनं दीर्घलोचनम् । मृदुसिताम्बरं स्वामि० ।। ५०

मधुरभाषणं पुष्पभूषणं विजितदूषणं शोकशोषणम् । प्रहसदाननं स्वामि० ।। ५१

कुसुमशेखरं कोमलान्तरं सदयदर्शनं दुःखकर्शनम् । विधिहरार्चितं स्वामि० ।। ५२

परमपावनं लोकभावनं कुटिलकुन्तलं पुष्पकुण्डलम् । भवभयापहं स्वामि० ।। ५३

सकलसिद्धिभिः सर्वऋद्धिभिः श्रितपदं सदा योगिभिर्मुदा । तदिदमेव हि स्वामि०।। ५४

तव निवासतो दुर्गपत्तनं जयति भूतले सर्वतोऽधिक्रम् । 
भवदुपाश्रया मुक्तिरत्र यद्वसति सर्वदाऽन्यत्र दुर्लभा ।। ५५

कुमतदुर्वनाद्धोरयौवनाद्रसनवृश्चिकाल्लोभलुब्धकात् ।
बहुतरापदो भूरिसम्पदो मुहुरिह त्वया रक्षिता वयम् ।। ५६

प्रबलसंशयाद्दुष्टसंश्रयान्मदबिलेशयात्कुत्सिताशयात् ।
स्मरसरीसृपान्मानकोणपान्मुनिपते ! वयं मोचितास्त्वया ।। ५७

अशुभभावतः क्रोधदावतो मृतिजनुर्भयात्पापदुर्नयात् ।
मधुमहाविषात्सर्वथामिषाद्यतिपते ! वयं रक्षितास्त्वया ।। ५८

विषयवारिधेस्तारिता यथा करुणया वयं भूरिशस्तथा ।
तव पदाम्बुजासक्तिविघ्नतः सततमेव नः पातुमर्हसि ।। ५९

क्वचन मानसं त्वत्पदाम्बुजाद्व्रजतु माऽन्यतो नाथ ! नः सदा ।
इति वयं मुहुः प्रार्थयामहे निजजनप्रियं त्वामधीश्वरम् ।। ६०


सुव्रत उवाच-

इति ताभिः स्वभक्ताभिर्योषाभिः संस्तुतो हरिः ।
प्रसन्नः सोऽभयं प्रादात्ताभ्यो भक्तपतिर्नृप ! ।। ६१


श्रीनारायणमुनिरुवाच-

भवतीनां हि सर्वासां यो यो हृदिमनोरथः ।
वर्तते स स संपूर्णो भविष्यति न संशयः ।। ६२

देहदैहिकसम्बन्धं दुस्त्यजं ह्यपि योगिभिः ।
मयि प्रेम्णा तृणमिव हित्वा मां भजथाबलाः ! ।। ६३


सुव्रत उवाच-

इत्यादिभिः सुमधुरैर्वचनैर्विचित्रै स्तं तोषयन्तमृषिनायकमात्मनस्ताः
नत्वा नरेश ! वनिताः सकलास्तदानीं पप्रच्छुरेतदनघाश्च तदेकचित्ताः ।। ६४


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे प्रबोधन्युत्सवे दुर्गपुर-स्थजयादियोषिन्मण्डलकृतभगवत्स्तुति-निरूपणनामा त्रिचत्वारिंशोऽध्यायः ।।४३।।