अथ द्विचत्वारिंशोऽध्यायः

सुव्रत उवाच-


अथाज्ञाप्ता भगवता स्वस्ववासान् ययुर्नृप ! । सर्वे भक्ताः प्रभुं नत्वा स चापि निजमन्दिरम् ।। १

अनुत्साहा अपि निजान् देशान् गन्तुं जनाश्च ते । हरेराज्ञापरा रात्रौ पाथेयादीनि चक्रिरे ।। २

प्रभोः प्रासादिकं वस्तु भृत्वा पेशीषु युक्तितः । तन्मुखान्यप्यसीव्यंस्ते दूरदेशनयाय वै ।। ३

वस्त्रपात्राध्वभक्ष्यादि कोष्ठलेषु निभृत्य च । योजयित्वा वाहनानि सज्जा आसन्नहर्मुखे ।। ४

प्रातःकृत्यं विधायैव तुम्बिकाबद्धरज्जवः । सज्जा बभूवुर्मुनयः स्कन्धलम्बितपुस्तकाः ।। ५

नृपाङ्गणमुपेत्यैव भगवद्दर्शनोत्सुकाः । तस्थुः सर्वेऽपि विप्राद्याः स्वस्कन्धार्पितयष्टयः ।। ६

नारायणमुनिः सोऽपि तेभ्यो दर्शनदित्सया । भक्तप्रियोऽश्वमारुह्य निर्ययौ नगराद्बहिः ।। ७

जनसम्मर्दभीत्येव निर्गच्छन्तं पुराद्बहिः । तमन्वयुर्जनाः सर्वे मुनयः पार्षदास्तथा ।। ८

क्रोशार्धदूरां नृपतेर्दीर्घिकामेत्य च प्रभुः । भक्तानानन्दयंस्तस्थावश्वारुढः स वर्त्मनि ।। ९

मुनीनां तत्र यूथानि जनसङ्घाश्च भूरिशः । वृन्दानि योषितां चाशु तं समेत्य ववन्दिरे ।। १०

अस्माकं नगरे प्रेष्या मुनयो भगवंस्त्वया । पुनस्ते दर्शनं शीघ्रमस्त्विति प्रार्थयन् जनाः ।। ११

व्रजिष्यन्तोऽथ मुनयो नानादेशांस्तदाज्ञाया । बद्धाञ्जलिपुटाः प्रीत्या तं प्रणम्य च तुष्टुवुः ।। १२


मुनय ऊचुः-

स्वामिंस्त्वं परमेश्वरश्च परमं ब्रह्मासि वेदोदितं धृत्वादौ पुरुषाकृतिं विधिमरीच्यादिक्रमेणाखिलम् ।
विश्वं स्थावरजङ्गमात्मकमिदं शक्तया सृजस्यात्मनः पातुं तत्तिमिकूर्मशूकरमुखा धत्से स्वतन्त्रस्तनूः ।। १३

देवान्साधुजनांश्च धर्ममभितो रक्षंश्च धर्मद्रुहो दैत्यान्हंसि धृताकृतिः प्रतियुगं धर्मप्रियस्त्वं विभो ! ।
सर्वास्तास्तनवस्तवाखिलनिजैश्वर्येण युक्तास्तथा चक्राद्यायुधदर्शितातिमहसः सन्ति प्रतापश्रुताः ।। १४

मूर्तिस्ते भगवन्नियं त्विह नृणामज्ञानविच्छित्तये जाग्रत्स्वप्नसुषुप्तिभिः परिहृताऽवस्थाभिरब्जेक्षण ! ।
धर्मं पारमहंस्यमेव दधतीब्रह्मस्वरूपस्थिति- रुन्निद्रा भवपाशमोचनकरी वर्वर्ति सर्वोपरि ।। १५

श्रद्धा शान्तिरतिक्षमा निपुणता लज्जा तितिक्षा दया तुष्टिर्मैत्र्यभयं शमो दमतपो विद्या नयः सत्क्रिया ।
वैराग्योपरती विवेकविनयावष्टाङ्गयोगः स्मृति- रैश्वर्याणि महान्ति सन्ति भगवन्नेतानि मूर्ताविह ।। १६

निष्कामत्वमनन्यसाध्यमुरुधा निःस्वादनिर्लोभते निःस्नेहत्वममानिता विमदता ज्ञानं च विज्ञानयुक् ।
इत्याद्याः खलु शक्तयस्तु भगवन्मूर्त्याऽनयाऽविष्कृता- स्तन्वा नापरयाऽस्त्यतो मुनिवरब्रह्मादिसेव्या त्वियम् ।। १७

येऽत्रात्मीयकुकर्मतो भुवि नरा जाताश्च नीता वशं सर्गेणालमधर्मजेन भगवंस्तान्दुर्निवार्यात्ततः ।
को वा मोचयितुं क्षमस्त्वदपरो दैत्यांशपाषण्डिनां शास्त्रैः कल्पितयुक्तितर्कनिवहैर्बम्भ्रम्यमाणान्भुवि ।। १८

स्वीयान् पासि सदा ह्यधर्मजकुलात्वंदम्भमायाकलि- हिंसाक्रोधदुरुक्तिमृत्युनिकृतिव्यामोहमुख्याञ्जनान् ।
ताभिस्रादिमपञ्चकादपि च तानाविद्यकात्पालयन्नष्टं पारमहंस्यमात्ममहसा धर्मं मुदाऽपप्रथः ।। १९

ये केचिग्दुरवोऽत्र वैन्यमखरुट्रशक्रात्तहाताकृती- र्बिभ्राणा धनलोलुपा विनियमा जैह्वे च शैस्ने रताः ।
शास्त्रार्थांश्च कुतर्कयुक्तयभिहतान्स्वान्बोधयन्तो जनां- स्तेऽद्य त्वन्महसा तमांसि तरणेर्भासेव यान्ति क्षयम् ।। २०

लोकेऽस्मिन्हि नराः स्त्रियश्च कलिना कामेन चाप्यर्दिताः सर्वे वानरतुल्यतामुपगताः सन्ति प्रभो ! निस्त्रपाः ।
यक्षा अत्तुमिव द्रुता विधिमपि प्रायो नराः साम्प्रतं स्वैरिण्यादय एव सन्ति वनितास्त्रेधा बलास्योग्दताः ।। २१

तानेतान्कृपया त्वमेव सदय ! त्रातुं समर्थोऽसि वै प्रागुक्तान्स्वसमानशीलिन इमे यस्माद्बजन्ते गुरुन् ।
प्रायः शिष्यपरम्परां तु गुरवो धावन्त्यदेवा यथा ब्रह्माणं जघनोद्बवाः खलु गतिस्तेषां कथं स्याच्छुभा ।। २२

ईदृक्पातकदुर्विधान् हतधियस्तान् सम्पदाऽसुर्यया ऋद्धान्संसृतिकष्टस्त्वमवितुं स्वैश्वर्यमाविष्कुरु ।
दैवीं सम्पदमाश्रितांस्तु भगवंस्त्वद्बक्तिबोधोद्यताः सद्यः साधव एव धाम परमं ते प्रापयन्ति क्षितौ ।। २३

सच्छास्त्रीयपदैश्च युक्तिसहितैस्तान्सत्पथं बोधय- न्नन्तर्यामितया तदीयहृदयाभीष्टांश्च देवान्विदन् ।
तत्तन्मूर्तिधरो मनांसि सहसा स्वस्मिंस्त्वमाकर्षय- न्नैश्वर्येण निजेन तद्धृदयगो भूयाः समाधौ विभो ! ।। २४

ऐश्वर्यं महदेतदेव तव वै प्रोक्तं ह्यसाधारणं दुष्टानामपि यन्मनोनियमनं मूर्तौ तव स्याद्द्रुतम् ।
कामाहंकृतिकोपमत्सरमुखैर्दैत्यैर्हतैस्त्वद्यशःपुत्राणां हननाद्दितेरतितरां ख्यातं भविष्यत्यपि ।। २५

दैत्या ये बलिनो हिरण्यकशिपुप्राधानिकाश्चात्मनो रूपैर्दिक्पतिचन्द्रभास्करमुखैर्यज्ञोषु भागग्रहाः ।
स्वीयं तेऽपि मनो न यन्तुमशकन्कामक्रुधाद्यैर्भृशं क्लिष्टास्तद्बगवंस्त्वमान्तररिपून्निघ्नन्नसीशेश्वरः ।। २६

कर्तुं नैव पराभवं तव तु ते किञ्चित्कथञ्चित्क्वचि- त्कामाद्या बलिनोऽपि वैरिण इमे शक्ता भवन्ति प्रभो ! ।
यस्मात्त्वत्पदसेवका अपि च ये जेतुं समर्था न ता न्साक्षात्तर्हि परात्परे भगवति त्वय्येव के नाम ते ।। २७

ये दैत्यास्तु पुरा त्वया विनिहता रूपैनृसिंहादिभि- स्ते देवारितया प्रसिद्धिमगमन्वेदे च लोकेऽखिले ।
एते तु प्रथिता भवन्त्यगणितब्रह्माण्डकोटिभ्र- मज्जीवेशारय इत्यमून्हतवता सर्वोपरि स्थीयते ।। २८

ये त्वां संसृतिबन्धमुक्तय इह ध्यातुं यतन्ते जना- स्तेषां विघ्नकरा अपि ध्रुवमिमे सन्तीत्यतः पाहि तान् ।
दैत्यानां हननं पुरा यदकरोस्तस्मादपि ज्यायसी मेतां ते तु कृतिं विदन्ति भुवि ये ते सूक्ष्मदर्श्युत्तमाः ।। २९

देवा वा दनुजा नराश्च ऋषयस्तेषां च नार्योऽपि वा लब्ध्वा प्राक्पदवीमिहातिमहतीं ये ये च्युतास्तत्पदात् ।
ते कामेन च मत्सरणे च रुषा मानेन लोभेन वा तस्मात्त्वं भुवि तेभ्य एव जनतां पातुं सदैवार्हसि ।। ३०

धन्यः कोसलदेशजः सह निजैः श्रीदैवशर्मा द्विजो धन्या प्रेमवती च योषिदपि यन्नारायणोऽभूः स्वयम् ।
धन्यास्तिष्यभवा अपीह च वयं त्वत्पादपद्मेक्षण- स्तस्मै श्रीहरये नमो भगवते तुभ्यं महावर्णिने ।। ३१


सुव्रत उवाच-

इति विधाय हरेः स्तवनं च तं मुनिगणाः क्षितिपाल ! ववन्दिरे ।
सपदि तानभिनन्द्य धरातले विचरितुं नृहिताय स चादिशत् ।। ३२

यथावन्मानयित्वैव भक्तान् सर्वान्स ईश्वरः ।
आज्ञाप्य गच्छन्त्विति तान्साश्रुनेत्रान्न्यवर्तत ।। ३३

अध्येतुं किमु वेगसौष्ठवमसौ पांशुच्छलेनागतै-
श्चेतोभिः समुपास्यमानचरणं नणामणुत्वाङ्कितैः । 

अश्वं काञ्चनवर्णमात्मचरणस्पर्शेन सन्द्रावय-
न्सद्यः प्राप पुरं पुरातनमुनिः सङ्गीतकीर्तिर्निजैः ।। ३४

नैपुण्यं निजवाजिनः स भगवानास्कन्दिते धौरिते
पश्यन् रेचितवल्गितप्लुत इति ह्यानन्दयन्स्वाश्रितान् । 

सद्यः प्राप्य पुनर्मुनींश्च जनतामग्रेऽपि तेषां व्रजन्
हृष्टांस्तान्विदधत् पुनश्च नगरीं प्रायात्स्वचेतोहरः।।३५

ते तु भक्तजनाः सर्वे यथादृष्टं तमीश्वरम् ।
ध्यानेन पथि पश्यन्तः स्वस्वदेशान् ययुस्ततः ।। ३६

हरिश्च तत्र नगरे संप्राप्य नृपमन्दिरम् ।
स्ववेदिमभितश्चाश्वं काष्ठामक्रामयद्धसन् ।। ३७

आनन्दयन् जयामुख्या योषितोऽपि स ईश्वरः ।
अश्वेन कारयामास गतमर्धपुलायितम् ।। ३८

ततो वाहात्समुत्तीर्य नारायणमुनिर्नृप ! ।
निजमन्दिरमभ्येत्य निषसादासने सुखम् ।। ३९

स्वस्थचित्तस्ततः स्वामी प्रसन्नमुखपङ्कजः ।
स्तुवन् जयां च ललितां सोमादीन्प्राह पार्षदान् ।। ४०

आसीन्मद्धृदये यादृक्तादृगेवोत्सवो महान् ।
जातोऽयं तेन हृदि मे भृशं हर्षोऽद्य विद्यते ।। ४१

नैव किञ्चिदपि न्यूनमासीन्नूनमिहोत्सवे ।
न शक्यो हि नृपैः कर्तुमीदृशस्तु महोत्सवः ।। ४२

न सन्त्येतादृशा अत्र मनुष्यास्तु भुवस्तले ।
ललितेव जयैकास्ति जयेव ललिता ननु ।। ४३

उत्तमस्तूत्तमो नूनं पितुरप्यधिको गुणैः ।
राजाऽनुपम एवास्ति भक्त आत्मनिवेदनी ।। ४४


सुव्रत उवाच-

निजभक्तजनप्रशंसनं विदधत्येवमुदारकर्मणि ।
क्षितिपाल ! महामुनीश्वरे तमुपायन्नबलाः समर्चितुम् ।। ४५


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे प्रबोधन्युत्सवे देशान्तरागत-भक्तसङ्घप्रत्येषणे मुनिसङ्घकृतनारायणस्तुतिनिरूपणनामा द्विचत्वारिंशोऽध्यायः ।। ४२ ।।