श्रीनारायणमुनिरुवाच-
भक्ताः ! शृणुत वक्ष्यामि रूपं ब्रह्मपुरस्य वः ।
एकान्तिकानां भक्तानां प्राप्यस्यातिसुखस्य च ।। १
एतद्रहस्यमस्तीति पुराणेषु महर्षिभिः ।
न सम्यग्विस्तरेणोक्तं प्रोक्तं नामान्तरेण च ।। २
छान्दोग्योपनिषद्येतन्मोक्षधर्मेषु भारते ।
स्कान्दादिषु पुराणेषु सङ्क्षेपेणोपवर्णितम् ।। ३
युष्माकं चाधिकारित्वान्मद्बक्तया शुद्धचेतसाम् ।
कथयामि कथामेतां जना ! ब्रह्मपुराश्रयाम् ।। ४
ब्रह्माण्डगोलके ह्यस्मिन्भुवनानि चतुर्दश ।
सप्तोर्ध्वं सप्त चाधस्ताद्वर्तन्ते संस्थितानि वै ।। ५
लोकांश्चतुर्दशैवैतान् पृथिव्यावरणं जनाः ! ।
कोटियोजनविस्तीर्णमभितो व्याप्य वर्तते ।। ६
उपर्युपरि तस्यापि जलं तेजो मरुन्नभः ।
अहङ्कारो महत्तत्त्वमिति चावरणानि षट् ।। ७
एकैकस्माद्दशदशगुणितं ह्युत्तरोत्तरम् ।
ज्ञोयं चावरणं पूर्वात्सौक्ष्म्येणाप्यधिकं परम् ।। ८
एतेषामपि सर्वेषां कारणं यत्तदष्टमम् ।
प्रकृत्याख्यं निगदितं महदावरणं जनाः ! ।। ९
ततःपरं चिदाकाशमस्ति तेजोमयं महत् ।
अनाद्यनन्तं तद्धाम परमव्योमसंज्ञिातम् ।। १०
कोटिचन्द्रार्कवह्नीनां मिलितं यन्महन्महः ।
तदेकदेशतेजोऽग्रे याति खद्योततां हि तत् ।। ११
अस्ति तत्रानन्दमयी सुधासिन्धुर्महानदी ।
नित्यानन्ता च गम्भीरा यामाहुर्विरजामपि ।। १२
सुधासिन्धोरस्ति मध्ये द्वीपः सत्तात्मको महान् ।
भूरितेजोमयो दिव्यः सुखरूपः सनातनः ।। १३
निवहैः कामधेनूनां वृषभैश्चारुविग्रहैः ।
जुष्टश्चाप्राकृतैरन्यैर्विविधैर्मृगपक्षिभिः ।। १४
पारिजातैः कल्पवृक्षैर्मन्दारादिभिरङ्घ्रिपैः ।
मल्लिकाजातिमुख्याभिर्वल्लीभिः परितो वृतः ।। १५
नानाविधैरुपवनैः फलपुष्पसमृद्धिभिः ।
नदीभिः सरसीभिश्च वापीभिर्मणिपर्वतैः ।। १६
एतैस्तेजोमयैः सर्वैः सुखरूपैरलौकिकैः ।
नित्यश्रीभिः परिवृतः सत्यद्वीपः स राजते ।। १७
अस्ति तस्मिन् बृहद्दुर्गं शतशृङ्गाचलाभिधम् ।
लोकालोकाचलनिभं पुण्डरीकाकृति ध्रुवम् ।। १८
महद्बिर्गोपुरै रम्यं चतुर्भिस्तच्चतुर्दिशम् ।
सुरक्षितं प्रतीहारैः सुबलप्रबलादिभिः ।। १९
सुदर्शनादिभिः शस्त्रैर्मूर्तिमद्बिरुपाश्रितम् ।
अणिमप्रमुखाभिस्तन्महतीभिश्च सिद्धिभिः ।। २०
तस्यान्तर्वर्तते दिव्या भूमिस्तेजोमयी शुभा ।
उपमानं क्वचित्तस्या ब्रह्माण्डे नात्र वर्तते ।। २१
अभूतोपमया तां च निर्दिशामि ततो जनाः ! ।
यद्येवं स्यात्क्वचित्तर्हि सोपमीयेत तेन वै ।। २२
स्वच्छकाचमयी भूमिरियं सर्वा सपर्वता ।
तादृश्यः स्युश्चाकृतयः सर्वाः स्थावरजङ्गमाः ।। २३
यावत्यश्चान्तरिक्षस्था ग्रहनक्षत्रतारकाः ।
तावन्त एव सूर्याः स्युः सर्वतः सुप्रकाशकाः ।। २४
तैः प्रकाशितया भूम्या काचमय्यातिरम्यया ।
आश्चर्यरूपया नूनं सा भूमिरुपमीयते ।। २५
तदेतत्परमं धाम श्रीकृष्णस्य सनातनम् ।
गोलोक इति यत्प्राहुर्गोपगोपीगणावृतम् ।। २६
दर्शनीयतमं तद्धि सर्वतोऽस्ति मनोहरम् ।
तत्र यद्यच्च रत्नादि ततस्सर्वमलौकिकम् ।। २७
मुक्तानां तत्र पुंसां च योषितामपि कोटिशः ।
दिव्यानि चातिभास्वन्ति मन्दिराणि भवन्ति वै ।। २८
तन्मध्ये ऽस्ति महत्तेजः कोटिकोटयर्कभासुरम् ।
मनोहरमतिश्वेतं घनं सच्चित्सुखात्मकम् ।। २९
यदाहुरक्षरं ब्रह्म सर्वाधारं तथामृतम् ।
अनाद्यनन्तं पूर्णं च स्वयंज्योतिः सनातनम् ।। ३०
योगसंसिद्धिमापन्नाः षट्चक्राणि निजान्तरे ।
व्यतीत्य मूर्ध्नि पश्यन्ति यच्च कृष्णप्रसादतः ।। ३१
तदेतदवगन्तव्यं धाम ब्रह्मपुरं हरेः ।
सर्वधामोत्तमं कालमायादिभयवर्जितम् ।। ३२
तत्राश्चर्यमयं दिव्यं मन्दिरं वर्तते प्रभोः ।
तत्सौन्दर्यं न शक्तोऽहं भक्ता ! वर्णयितुं किल ।। ३३
कोटिसूर्यप्रतीकाशरत्नस्तम्भातिभासुरम् ।
ऋद्धिभिः सकलाभिश्च जुष्टं तत्सर्वसिद्धिभिः ।। ३४
एकान्तिकानां मुक्तानां कोटिभिस्तत्परिश्रितम् ।
योषाभिः कृष्णभक्ताभिर्मुक्ताभिश्चापि कोटिशः ।। ३५
राधालक्ष्म्यादिभिस्तत्र सेव्यमानः स्वशक्तिभिः ।
रत्नसिंहासने रम्ये श्रीकृष्णो हि विराजते ।। ३६
न तादृशं हि भवनं क्वापि लोकेषु विद्यते ।
उपमीयेत तद्येन ततो निरुपमं स्मृतम् ।। ३७
अनेकशोऽपि मुक्तानां पुंसां स्त्रीणां च तत्र वै ।
भोगस्थानान्यनेकानि सन्ति दिव्यानि सुव्रताः ! ।। ३८
भोगा भोगोपकरणान्यपि दिव्यानि सर्वशः ।
वर्तन्ते सुखरूपाणि तानि नित्यानि तत्र च ।। ३९
यथेह भौदिका भोगाः पाञ्चभौतिकदेहिनाम् ।
सन्ति तेषां तथा तत्र चिद्रूपाणां हि चिन्मयाः ।। ४०
तेजोमयाः सर्व एते गुणातीतास्तथाक्षयाः ।
सत्यज्ञानानन्दरूपा दिव्या निरुपमाः स्मृताः ।। ४१
स्त्रियश्च पुरुषाश्चैते भवन्ति दिव्यमूर्तयः ।
अप्राकृतेद्रियप्राणा दिव्यालङ्कारवाससः ।। ४२
कृष्णादेव सुखेच्छास्ति तत्र तेषां न चान्यतः ।
सुखं समं हि सर्वेभ्यो ददाति स च सर्वदा ।। ४३
रूपं समृद्धिरैश्वर्यं स्थानं भोगाः सुखानि च ।
समान्येतानि सर्वेषां सच्चिदानन्दरूपिणाम् ।। ४४
न्यूनत्वे चाधिकत्वे वा भोगादेस्तत्र सर्वथा ।
इच्छैवैकास्ति भोक्तणां हेतुर्नान्यस्तु कर्हिचित् ।। ४५
यथा कश्चित्समृद्धोऽपि स्वेच्छयैव नराधिपः ।
भोगान्भुंक्ते न भुंक्ते वा तथा तेऽपि निजेच्छया ।। ४६
न कामवासना तेषां स्त्रीपुंसानां परस्परम् ।
अस्ति चैकैकरोम्णोऽपि तेषां तेजोऽर्ककोटिवत् ।। ४७
तादृक्सकलमुक्ताङ्गतेजसोऽप्यधिकं महः ।
तद्धाम्नो ह्येकदेशस्थं भवतीत्यवगम्यताम् ।। ४८
तादृशस्यापि तद्धाम्नः सकलं यन्महन्महः ।
तादृगेकतरस्यास्ति श्रीकृष्णांघ्रिनखस्य वै ।। ४९
स प्रभुर्द्विभुजस्तत्र राजते श्यामसुन्दरः ।
निजाङ्गातिमहःपुञ्जावृतत्वाच्छ्वेतदर्शनः ।। ५०
श्रीदामनन्दप्रमुखैः पार्षदैर्दिव्यविग्रहैः ।
सेव्यमानः सितच्छत्रचामरादिभिरादरात् ।। ५१
शिवब्रह्मादिभिर्नैकब्रह्माण्डाधीश्वरैर्नतैः ।
मुक्तैरन्यैश्चार्च्यमानो गन्धपुष्पांशुकादिभिः ।। ५२
धर्मेण सह भक्तया च भगैर्वेदैश्च संस्तुतः ।
आस्ते राजाधिराजश्रीर्भगवान् पुरुषोत्तमः ।। ५३
स च तेषु स्वभक्तेषु दिदृक्षा स्वस्य यादृशी ।
येषां स्यात्तादृशं तेभ्यो दर्शनं स्वं ददाति हि ।। ५४
केचिच्चतुर्भुजं केचित्पश्यन्त्यष्टभुजं तथा ।
केचित्सहस्रबाहुं तं तस्मिन् बृहति धामनि ।। ५५
यदेतत्परमं धाम श्रीकृष्णस्योदितं जनाः ! ।
अतर्क्यं तदगम्यं च सदानन्दरसात्मकम् ।। ५६
तदीया येऽवताराः स्युस्तेषामेव ह्युपासया ।
भक्तैः स्वधर्मनिरतैस्तत्प्रसादात्तदाप्यते ।। ५७
इत्येतत्परमं गुह्यं मया ब्रह्मपुरं जनाः ! ।
युष्मत्प्रीतिवशादद्य संक्षेपेणोपवर्णितम् ।। ५८
कृष्णाभक्ताय धूर्ताय नास्तिकाय कदाचन । र
हस्यमेतद्बो भक्ता ! वक्तव्यं नैव सर्वथा ।। ५९
सुव्रत उवाच-
इत्येतत्परमदयालुना प्रगीतं माहात्म्यं सदसि बृहत्पुरस्य तेन।
श्रत्वा ते सह मुनिभिर्जनाः प्रहर्षं सम्प्राप्य प्रभुमखिला ववन्दिरे तम् ।। ६०
श्रीकृष्णं ननु भगवन्तमेव ते तं जानन्तस्तदपि च धाम तस्य राजन् ! ।
निश्चित्याथ च वपुषोऽन्त आत्मलभ्यं तद्धयेवेत्यपि विविदुः प्रहृष्टचित्ताः ।। ६१
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे प्रबोधन्युत्सवे ब्रह्मपुरधामवर्णननामैकचत्वारिंशोऽध्यायः।।४१।।