सुव्रत उवाच-
अथ प्रदोषे भगवानुपायात् पुनर्बहिर्वेदिमुदारकीर्तिः ।
तावज्जनौघा मुनयश्च सर्वे योषाश्च तत्रैत्य मुदा निषेदुः ।। १
तत्रोपविश्य प्रभुरात्मपीठे पर्यैक्षत स्वान् विनयावनम्रान् ।
सुशिक्षितांस्तानपि साधुवर्त्म भूयो विविक्षुः स गिरं जगाद ।। २
श्रीनारायणमुनिरुवाच-
यूयं हि वर्णाश्रमिणस्त्यागिनो मुनयस्तथा !
सर्वे सम्मिलिताः स्थात्र कृष्णभक्ता यमान्विताः ।। ३
तेषां मघ्ये भवेद्यैषां प्रष्टव्यं किमपि प्रजाः ! ।
ते मां पुच्छन्तु निर्भीकाः कश्चिद्वो मास्तु संशयः ।। ४
सुव्रत उवाच-
एवमुक्ते भगवता राजानस्तत्र संस्थिताः ।
पुञ्जजिद्वास्तुसूराद्या भक्ताः प्रश्नमकुर्वत ।। ५
परस्परं ते सम्मन्त्र्य नमस्कृत्य प्रभुं नृप ! ।
बद्धाञ्जलिपुटाः प्रोचुर्वाचं लोकहितावहाम् ।। ६
राजान ऊचुः-
वयं सर्वे नृपाः स्वामिन् ! प्रजाश्चेमा निरन्तरम् ।
प्रवृत्तिधर्मस्थितयस्त्वां श्रिताः स्मो जगग्दुरो ! ।। ७
तेषां नो यद्बवेत्कार्यमकार्यं यच्च सर्वंथा ।
तत्पृथग्विशदीकृत्य त्वं बोधयितुमर्हसि ।। ८
सुव्रत उवाच-
इति तैरादरात्पृष्टः प्रसन्नः स मुनीश्वरः ।
स्मरन्स्वभक्तं विदुरं प्रोवाच वचनं नृपान् ।। ९
श्रीनारायणमुनिरुवाच-
ये पण्डिता इति प्रोक्ताः सच्छास्त्रेषु च साधवः ।
तेषां यद्वचनं तत्तु कार्यमेवेति निश्चितम् ।। १०
तत्रैवोक्ताश्च ये मूर्खा असन्तश्च कुबुद्धयः ।
तदुक्तं वचनं भक्ता ! अकार्यमिति मे मतम् ।। ११
पण्डितानां च मूर्खाणां लक्षणानि सविस्तरम् ।
कार्याकार्ये च विदुरो धृतराष्ट्रं पुराऽवदत् ।। १२
प्रोक्ता विदुरनीतिः सा गृहिणां त्यागिनां हिता ।
तामभ्यस्य ततो ज्ञोयः कार्याकार्यविनिर्णयः ।। १३
सर्वेषां नीतिशास्त्राणां सारो वैदुरिकोनयः ।
तेनैव वर्तमानानां युष्माकं सर्वतः सुखम् ।। १४
एतत्संशीलिनः क्वापि सन्तापैस्त्रिविधैरपि ।
पीडितुं नैव शक्यन्ते स्थिताव्यवहृतौ जनाः ।। १५
एतदुक्तप्रकारेण वर्तमानाः क्रियास्वपि ।
यूयं भजन्तः श्रीकृष्णं सुखिनोऽत्र भविष्यथ ।। १६
सुव्रत उवाच-
इत्युक्तास्ते नृपतयो राजन्भगवताऽखिलाः ।
जनाश्च मुनयो हृष्टास्तथेत्यूचुः प्रणम्य तम् ।। १७
स्वस्वस्थानं ततो गन्तुमाज्ञाप्ता हरिणा च ते ।
ययुस्ततो हरिरपि स्वीयं मन्दिरमाययौ ।। १८
त्रयोदशीतस्त्रिदिने रात्रौ हरिरकारयत् ।
सभायां पञ्चमस्कन्धकथां पौराणिकेन च ।। १९
नोल्लङ्घया स्वस्वमर्यादेत्यर्थं तस्या अबूबुधत् ।
सङ्गदोषं कर्मफलावश्यभोग्यत्वमप्यसौ ।। २०
अष्टादशदिनानीत्थं सर्वे ते भगवज्जनाः ।
लेभिरे परमानन्दं कारुण्येन जगत्पतेः ।। २१
पौर्णमास्यां च महता सम्भारेण स सत्पतिः ।
कारयामास जयया भक्तिजन्ममहोत्सवम् ।। २२
उत्सवान्ते निशि जनान्भक्तांस्तान्भगवांस्ततः ।
आजिज्ञापत्सभासंस्थो गन्तुं देशं निजं निजम् ।। २३
श्रीनारायणमुनिरुवाच-
यूयं सर्वे भक्तजना देशान्स्वान्स्वानहर्मुखे ।
योषितोऽध्वनि रक्षन्तः सावधाना व्रजन्त्वितः ।। २४
देहादन्यं ब्रह्मरूपं निश्चित्यात्मानमच्युतम् ।
भजन्तश्च स्वधर्मस्थास्तद्धाम प्राप्स्यथ ध्रुवम् ।। २५
प्राप्य ब्रह्मपुरं तच्च सर्वधामोत्तमोत्तमम् ।
भोगानलौकिकांस्तत्र तस्मात्प्राप्स्यथ वाञ्छितान् ।। २६
सुव्रत उवाच-
इति श्रुत्वा प्रभोर्वाक्यं मुनिभिः सह ते जनाः ।
नत्वा तं हृष्टमनसः पप्रच्छुरिदमादरात् ।। २७
जना ऊचुः-
एकान्तिकाः कृष्णभक्ता ज्ञानवैराग्यभक्तिभिः ।
सम्पन्ना भगवन् ! धर्मैर्लभन्ते धाम तस्य यत् ।। २८
यश्चोच्यते परं धाम त्वया ब्रह्मपुराभिधम् ।
तद्धि वेदितुमिच्छामो वयं सर्वे स्वरूपतः ।। २९
तस्मात्त्वं कृपयास्मभ्यं स्वरूपं तस्य तत्त्वतः ।
वक्तुमर्हसि भो स्वामिंस्त्वदन्यो नैव वेत्ति तत् ।। ३०
सुव्रत उवाच-
पृष्टः स इत्थं निजभक्तसङ्घैर्विवित्सुभिर्धाम परं मुरारेः ।
प्रहर्षयंस्तानवदद्दयालुर्नारायणो भक्तजनैकबन्धुः ।। ३१
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे प्रबोधन्युत्सवे विदुरनीत्युपदेशकथननामा चत्वारिंशोऽध्यायः।।४०।।