अथ एकोनचत्वारिंशोऽध्यायः

सुव्रत उवाच-


प्रातःकृत्यं विधायाशु भगवान् द्वादशीदिने । न्यषीदत्पीठमारुह्य वेद्यां निम्बतरोरधः ।। १

देशान्तरीयाश्च जनाः कृत्वा नित्यविधिं द्रुतम् । मुनिभिः सह तत्रैत्य निषेदुश्च व्यवस्थया ।। २

योगेश्वरस्य कृत्वा च जयाऽप्युत्तरपूजनम् । चकार तन्मूर्तिदानं गोदानादि च सादरम् ।। ३

वर्णिराट्र तावदभ्येत्य दीर्घपाण्डुजटाधरः । पाकसिद्धिरभूत्स्वामिन्नित्युवाच महाप्रभुम् ।। ४

तदाज्ञाप्ता भगवता सर्वेऽपि मुनयो नृप ! । अतिहर्षान्वितास्तूर्णं भोक्तुमायंश्च यूथशः ।। ५

पञ्चार्द्राः साम्बुपात्राश्च तत्र पंक्तिषु सर्वशः । मर्यादया निषेदुस्ते हर्यास्यार्पितदृष्टयः ।। ६

कटिवस्त्राबद्धकच्छाश्चतुराः परिवेषकाः । भुक्तिपात्राणि चांबूनि ददुरादौ द्विजातयः ।। ७

ततो भक्ष्याणि भोज्यानि लेह्यान्यपि च कृत्नशः । यथोचितं यथाभोक्तृ पंक्तिशः पर्यवेषयन् ।। ८

सर्वं सर्वेषु पात्रेषु परिवेषितमित्यसौ । दृा तान् भगवान् भोक्तुमाजिज्ञापदुदात्तदोः ।। ९

तस्मिन् दिने तु स स्वामी मुक्तान्दमुखान् सतः । भोक्तुं समुपवेश्यैव चकार परिवेषणम् ।। १०

भुञ्जानांस्तान् मुनीन् राजन् ! द्विजैः साकं द्रुतक्रियैः । पर्यवेषयदीशोऽसौ सर्वपंक्तिचरो द्रुतम् ।। ११

पक्वान्नभृतपात्रेभ्यो विधृतेभ्यो द्विजैः प्रभुः । शष्कुलीग्रन्थिकादीनि स मुहुः पर्यवेषयत् ।। १२

भोज्यहस्तो ययौ पंक्तौ यस्यां यस्यां यदा यदा । भोजकान् याचतोऽपश्यत्तस्यां तस्यां तदा तदा ।। १३

पात्रपूरं ततस्तेभ्यो हसन् भोज्यानि सोऽर्पयन् । तर्पयामास सकलान् भुञ्जानांस्तान्मुनीन्नृप ! ।। १४

आश्चर्यं जनयन्नृणां दोर्भ्यां तद्याचितं ददत् । दिव्यदेहागतान्मुक्तानदृश्यानप्यभोजयत् ।। १५

तत्कृपाप्राप्तदिव्याक्षास्तदानीं कतिचिन्नराः । नार्यस्तान् ददृशुर्देवानपि तत्र समागतान् ।। १६

पक्वान्नानां च बहुशः पर्वतान्रुचिरांस्तथा । घृतकुल्याः पयःकुल्याः पायसादिनदीरपि ।। १७

तमेव भगवन्तं ते तेषां सम्परिवेषणम् । कुर्वन्तमैक्षन्त तदा चरन्तं सर्वपंक्तिषु ।। १८

तत्करार्पितपक्वान्नग्रहणे सादरांस्तु ते । देवादींस्तांस्तथैवैतान् मुनींश्च ददृशुः समान् ।। १९

तृप्तेषु तेषु पक्वान्नैः सफूत्कृतिमुखेषु च । द्विजानुवाच भगवान् भक्तमानीयतामिति ।। २०

लड्डकं वामहस्ते च दक्षे पायसभाजनम् । गृहीत्वा परिचक्राम स ततः सर्वपंक्तिषु ।। २१

ययाचे न यदा कोऽपि प्रत्यागच्छत्तदा स तु । प्रसाददौर्लभ्यवित्तं ब्रह्मानन्दो जुहाव ह ।। २२

एह्येहि भगवन्नत्र पात्रं नो विस्मृतोऽस्ययम् । नित्यानन्दो रिक्तपात्रो लज्जते याचितुं मुहुः ।। २३

तदा तत्रैत्य स हरिर्भाजने तस्य पायसम् । न्यषिञ्चत्स तदोवाच पश्यंस्तद्दोष्णि लड्डुकम् ।। २४

लिह्यां पायसमात्रं चेत्तन्नित्यानन्द एष माम् । पूषणं वक्ष्यति स्वामिंस्तग्दोलकमपि क्षिप ।। २५

ततो हसन्स भगवान्हासयंस्तांश्च भोजकान् । तत्पात्रे लड्डुकं क्षिप्त्वा सिंहनादमचीकरत् ।। २६

वर्णिराट् तावदागत्य लड्डुकामत्रकं करे । बिभ्रद्धरेः पुरस्तस्थौ द्वौ ततः सोऽग्रहीद्द्रुतम् ।। २७

हरिं विक्ष्यान्तिकप्राप्तं मुक्तानन्दोऽतितृप्तवान् । भुक्तशिष्टं स्वपात्रस्थं लड्डुकं तमदीदृशत् ।। २८

अपेक्षितोऽस्य त्वेतावानिति ज्ञात्वा च स प्रभुः । यावत् क्षिपति तं तावत्सोऽकरोत्सिंहगर्जनाम् ।। २९

चैतन्यानन्दमालोक्य पात्रे कृत्वा करं शिरः । धूनयन्तं स तत्पात्रे हरिर्लड्डुकमक्षिपत् ।। ३०

ऊर्ध्वं शिरो धूनयन्तं नित्यानन्दं हसन्मुखम् । तृप्तं ज्ञात्वा लड्डुकार्धं तत्पात्रेऽक्षिपदीश्वरः ।। ३१

कृतसिंहरवे तस्मिन्नानन्दानन्दमाययौ । ज्ञात्वा शिथिलदन्तं तं दापयामास पायसम् ।। ३२

गोपालानन्दमालोक्य मिताहारं हरिर्हसन् । अर्धार्धं लड्डुकस्यादात्कारयन्सिंहगर्जनाम् ।। ३३

सच्चिदानन्दमेत्यासौ वृथाऽदौ सिंहनादिनम् । दृा रिक्तं तु तत्पात्रं लड्डुकद्वयमक्षिपत् ।। ३४

कृपानन्दं स दृाऽथ प्रतीक्ष्य स्वमवस्थितम् । तत्समीपमुपेयाय गृहीत्वा लड्डुकं करे ।। ३५

तृप्तं ज्ञात्वा भक्तकामं लड्डुकं वीक्ष्य सोऽब्रवीत् । एतद्बङ्गेऽङ्गुलीनां ते श्रमः स्यादिति निःक्षिप ।। ३६

तं च क्षिप्त्वा स तत्पात्रे यावत्क्षिपति चापरम् । उच्चैर्ननाद स तदा शुकानन्दमगात्स च ।। ३७

पात्रावशिष्टपक्वान्नं चर्वन्तं शष्कुलीं शनैः । अर्धां दत्वा लज्जमानमात्मानन्दं व्यचष्ट सः ।। ३८

निष्कासितेतः सन्ताडय ब्रह्मानन्देन तु त्रपा । गृहाण भुङ्क्ष्व तत्स्वेष्टमित्युक्त्वादात्स लड्डुकौ ।। ३९

शष्कुलीभृतवक्त्रेण ब्रुवते चास्फुटं ददौ । महानुभावानन्दाय करस्थं सार्धलड्डुकम् ।। ४०

एवमन्यानपि हरिर्भोजकान्परिवेष्य सः । भक्तं च क्वथिकां सूपं दापयित्वाशुधत्करौ ।। ४१

भुक्त्वा करमुखं ते च विशोध्य स्वस्वकेतनम् । पुल्लतुन्दा ययुः सर्वे भोजका मुखफूत्कृताः ।। ४२

ततश्च पार्षदान्सर्वान् क्षत्रियादीन्स पूर्ववत् । भोजयामास भक्तान्स्वानन्यांश्चान्नार्थिनो जनान् ।। ४३

ततः स पारणां कर्तुं योषाश्चाज्ञाप्य सर्वशः । भोजनार्थं ततस्त्वायान्निजमन्दिरमीशिता ।। ४४

पाकं विधाय श्रीकृष्णनैवेद्या वैश्वदेविकम् । कृत्वैव विदधे स्वामी पारणां धर्मवत्सलः ।। ४५

अकुर्वन्स दिवानिद्रां पार्षदानां पुरो गुणान् ।जयाया वर्णयन्नेव तत्र याममुपाविशत् ।। ४६

एवमेव नृपते ! जगत्पतिः श्रीहरिर्भवति भक्तवत्सलः ।
दम्भहीननिजसेविमानवान्नाधिकं किमपि तस्य सर्वथा ।। ४७


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे प्रबोधन्युत्सवे भोजने हरिपरिवेषणलीलावर्णन-नामैकोनचत्वारिंशोऽध्यायः ।।३९।।