सुव्रत उवाच-
तस्मिन्दिने सोऽपि निरन्नमेव व्रतं चकार प्रभुरप्युदारः ।
मानुष्यलीलां विदधच्च धर्मं पातुं नरेशात्र कृतावतारः ।। १
रात्रौ सभायां निजमुच्चपीठमध्यास्य नारायणनामघोषम् ।
कृत्वा च शुश्राव वसिष्ठगीतं माहात्म्यमेकादशिकातिथेः सः ।। २
कुर्वंस्ततो जागरणं मुनींस्तान् जनांश्च गातुं भगवद्गुणान् सः ।
आज्ञापयामास च गीयमानान् शुश्राव तान्भक्तमनोभिरामान् ।। ३
ततस्तृतीये प्रहरे निशाया गायत्सु भक्तेषु सतालिवाद्यम् ।
उत्तीर्य पीठाद्बगवाञ्जयाया द्रष्टुं समायात्स तु पाकशालाम् ।। ४
विधाप्य पक्वान्नचयान्निषण्णाः क्षणं रमाद्याः स्त्रिय आशु तत्र ।
समागतं प्रेष्ठमवेक्ष्य दूरादुत्थाय नत्वा ददुरासनं च ।। ५
तत्रोपविश्य प्रभुरैक्षताग्रे सच्छष्कुलीनां नगराजमेकम् ।
तत्पार्श्वयोः खाजकगण्डशैलान् स श्वेतवर्णांश्चतुराचितांच्च ।। ६
एतावता किं भवितात्र पूर्तिः पाकेन वान्यं विदधीमहीमम् ।
इत्थं तमूचे ललिता तदानीं कृत्यं तदीयं हृदि जानती वै ।। ७
तदा स तामाह नरेशकन्ये ! नाहं मुनींश्चेत्परिवेषयेय ।
प्राक्पंक्तिभाजां तु तदा कथञ्चित्पूर्येत पुण्येन तपिस्विनीनाम् ।। ८
मितस्मिता तं भगवन्तमूचे तदामला सापि वचोविदग्धा ।
जानासि किं द्वादशिकादिनीयमेतत्प्रभो ! पाञ्चदिनं हि विद्धि ।। ९
स्पर्शो न यावत्तु तपस्विनस्ते पक्वान्नराशेः किल तावदस्य ।
शङ्का भवत्येवमपूर्णताया जाने करस्पर्शफलं यतस्ते ।। १०
इत्थं तयोक्ते हरिमानतास्यं तं धूनयन्तं च शिरः सचिन्तम् ।
प्रदर्शयामास रमा द्वितीये गेहे पाकं किल जायमानम् ।। ११
स तत्र गत्वाथ ददर्श योषा गङ्गां च रामां यमुनां च रेवाम् ।
ततच्च ताभिः क्रियमाणमीशः कृतं च पर्यैक्षत पाकमेव ।। १२
तुङ्गे चये मौक्तिकलड्डुकानामुत्फुल्लगोलायितपूरिकाणाम् ।
चये च तत्साम्यद्दृशिं तदीयो वर्णस्तु पीतश्च सितो न्यषेधीत् ।। १३
गोलान् घनीभूतघृतेन शुभ्रान् स लड्डुकानैक्षत चूर्णपूर्वान् ।
दशप्रभेदान्स्थिरकाच्च तत्र द्विःपीतसत्फाणितशुभ्रवर्णान् ।। १४
महान्तिकायां पृथुलं कटाहं निधाय दोर्भ्यां धृतहस्तकाभ्याम् ।
संहेलयन्त्यौ सममालुलोके संयावमीशो यमुनां च रामाम् ।। १५
प्रफुल्लिताः फुल्लवटीश्च नाथी सम्भृत्य पात्रे पृथुलेऽथ पूपान् ।
कर्तुं प्रसक्ता ददृशे च तेन मौना च भज्यानि विधाय फेणीम् ।। १६
अन्यत्र चापश्यदसौ मुनीशोऽमरीं कृतानेकविचित्रशाकाम् ।
प्रकुर्वतीं सद्वटकान् गुलालां विधाय सन्मण्डकपुञ्जमाशु ।। १७
दौहित्रकग्रन्थिकघुर्घुराणां पुञ्जान्तिके तावदुपेत्य तूर्णम् ।
स्थितां हसन्तीममृतामवेक्ष्य तत्कर्म तस्या इति स व्यजानात् ।। १८
समानयन्त्यौ निजदासिकाभिः पुनः पुनर्दुग्धघटाननेकान् ।
विधापयन्त्यौ परमान्नमाशु क्षितीशपत्न्यौ स ददर्श तत्र ।। १९
ददर्श सत्कान्दविकोपक्लृप्तान्सत्पर्पिकाखण्डकपिण्डकांश्च ।
रमासमीपे समुपाहरन्तीं पाञ्चालिकां चापि स तत्कनिष्ठाम् ।। २०
एवं स्त्रियोऽन्या अपि पाककर्मसक्ता निजप्रीणनमात्रकामाः ।
ददर्श लाडुं यतिनीं च जीवामुमाकुमारीकुशलासुखाद्याः ।। २१
गेहान्तरे चाथ ददर्श दैविः क्षत्राङ्गनाः पाकरताः स्वतुष्टयै ।
क्षेमामलामर्यदितीश्च फुल्लां स रत्नमालारतिदेविकाद्याः ।। २२
स्वदृष्टविप्राकृतपाकतुल्यं पाकं कृतं च क्रियमाणमाभिः ।
स्वप्रीणनार्थं बहुयत्नतोऽसौ ददर्श साश्चर्यमुदारकृत्यः ।। २३
स पाकदक्षाभिरुदारधीभिस्तपस्विनीभिः क्रियमाणमित्थम् ।
पाकं विलोक्य प्रशशंस नारीः सर्वा जयाज्ञावशगा जयां च ।। २४
यावांस्तु पाको ललितागृहेऽभूत्ततोऽप्ययं द्वित्रगुणोऽस्ति नूनम् ।
पदार्थसङ्खया त्विह तावतीति ज्ञात्वा स्वचित्ते स जहर्ष भूमा ।। २५
ततः समाज्ञाप्य स पाचिकास्ताः सदोदनं च क्वथिकां च सूपम् ।
प्रातर्विधातुं निजवासमायात्तावच्चुकूजुः कृकवाकवोऽपि ।। २६
जागरं सह निजैर्हरिरित्थं भूपते ! स तु विधाय विभाते ।
निम्नगाप्लवविधिं च विधिज्ञाः कर्म नैत्यकमुपाचरदीशः ।। २७
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे प्रबोधन्युत्सवे भगवत्कृतपाकपाचिकादर्शननिरूपणनामाष्टत्रिंशोऽध्यायः ।।३८।।