सुव्रत उवाच-
एकादश्यां दिने प्रातर्जया साऽथ यथाविधि ।
प्रातः स्ननादिकं कृत्वा चक्रे भगवदर्चनम् ।। १
सौवर्णं पूजयामास लक्ष्मीयोगेश्वरं तु सा ।
तथैव भक्तिधर्मं च सर्वतोभद्रमण्डले ।। २
पञ्चामृतैश्चन्दनेन पुष्पैः सुरभिभिस्तथा ।
धूपदीपोपहारैश्च फलैर्नानाविधैरपि ।। ३
पूजयित्वाऽकरोत्प्रेम्णा महानीराजनं ततः ।
मन्त्रपुष्पाञ्जलिं दत्वा प्रणनाम कृताञ्जलिः ।। ४
ततो भगवतः प्रीत्यै महादानानि साऽकरोत् ।
धेनूर्दशविधाः प्रादान्मेरुन्दशविधांस्तथा ।। ५
तत्र गोमयलिप्तायां दर्भानास्तीर्य सा भुवि ।
उदक्पादाः प्राङ्मुखीश्च कल्पयामास गा दश ।। ६
गुडधेनुं गुडैनैव चतुर्भारमितेन सा ।
कारयामास तद्वत्सं भारेणैकेन शोभनम् ।। ७
अनर्घ्यैर्वसनैः सूक्ष्मैर्वेष्टयित्वा च तावुभौ ।
शोभयामास विविधैः रत्नैश्च मणिभिश्च तौ ।। ८
शुक्तिकर्णाविक्षुपादौ शुचिमुक्ताफलेक्षणौ ।
ताम्रपृष्ठौ क्षौमपुच्छौ सितकम्बलकम्बलौ ।। ९
स्वर्णशृङ्गौ रूप्यखुरौ विद्रुमभ्रुकुटीयुतौ ।
नानाभरणशोभाढयौ कांस्यदोहनसंयुतौ ।। १०
एवं विधाय गौवत्सौ पूजयामास सादरम् ।
तथविधाश्चकारान्या घृतधेनुमुखाश्च गाः ।। ११
घृतधेनुं क्षीरधेनुं शर्कराधेनुमुत्तमाम् ।
तिलधेनुं मधुधेनुं रसधेनुं च साऽकरोत् ।। १२
दधिदेनुं चाम्बुधेनुं स्वर्णधेनुं तथान्तिमाम् ।
यथावत्कल्पयामास शास्त्रोक्तविधिना जया ।। १३
चतुर्भारमितेनैव घृतेन परिपूरितान् ।
कुम्भानस्थापयत्तत्र घृतधेनुविधौ तु सा ।। १४
भारेणैकेन वत्सं च विधिमन्यं तु पूर्ववत् ।
चकार सा बुद्धिमती दुष्करं भूमिपैरपि ।। १५
द्रवद्द्रव्यस्य कुम्भाश्च तिलादीनां तु राशयः ।
स्थापितास्तत्र सर्वत्र तुरीयांशेन वत्सकाः ।। १६
चतुःपलसुवर्णेन स्वर्णधेनुं चकार च ।
वस्त्रैर्विभूषणैस्ताश्च साऽलञ्चक्रेऽखिला अपि ।। १७
सम्पूज्य ताश्च विप्रेभ्यः पूजितेभ्यो दशापि गाः ।
तदा ददौ जया भक्तया भगवत्प्रीतये नृप ! ।। १८
मेरुसंज्ञान्पर्वतांश्च ततः साऽकल्पयद्दश ।
वृक्षैः सरोवरैर्युक्तान्नानावस्त्रैर्विराजितान् ।। १९
प्रथमो धान्यशैलश्च द्वितीयो लवणाचलः ।
गुडशैलस्तृतीयश्च चतुर्थो हेमपर्वतः ।। २०
पञ्चमस्तिलशैलश्च षष्ठः कार्पासपर्वतः ।
सप्तमो घृतशैलश्च रत्नशैलस्तथाष्टमः ।। २१
रूप्यशैलश्च नवमो दशमः शर्कराचलः ।
यथाविधि दशैवैते पर्वताः स्थापितास्तया ।। २२
मण्डपं कारयामास वासुदेवाङ्गणे शुभम् ।
तत्र गोमयलिप्तायां भुव्यास्तारीत्कुशानृजून् ।। २३
मध्ये व्रीहिमयस्तत्र सहस्रद्रोणसम्मितः ।
मेरुः कृतोऽथ तत्पूर्वे मुक्तावज्राण्यतिष्ठिपत् ।। २४
गोमेदपुष्परागांश्च दक्षिणेऽस्थापयन्मणीन् ।
तथा नीलान्मरकतान्पश्चिमे सा न्यधारयत् ।। २५
वैदूर्यलोहितमणीनुत्तरे मेरुतस्तथा ।
संस्थाप्य विद्रुमलता अभितस्तं बबन्ध ह ।। २६
इक्षुवंशैर्गुहाश्चक्रे शिलास्तस्य च शुक्तिभिः ।
सा चकार घृतेनैव बहुप्रस्रवणान्यपि ।। २७
पूर्वे शुक्लाम्बरचयैर्मेघपंक्तिं तथाकरोत् ।
दक्षिणे पीतवस्त्रैश्च कर्बुरैस्तस्य पश्चिमे ।। २८
उत्तरे रक्तवस्त्रैश्च मेघपंक्तिं विधाय सा ।
चक्रे शृङ्गाणि चत्वारि रौप्याणि कटकानि च ।। २९
मेरोर्मूर्घ्नि ब्रह्मविष्णुरुद्रर्कांश्च हिरण्मयान् ।
देवानन्यान्मुनींश्चापि हैमांश्चक्रे स्वशक्तितः ।। ३०
इन्द्रादीनष्टदिक्पालान् कृत्वा सा राजतान् शुभान् ।
फलैः पुष्पैश्चन्दनैश्च शोभयामास तं गिरिम् ।। ३१
तस्योपरि च सौवर्णान् वृक्षांस्त्रीनप्यतिष्ठिपत् ।
मन्दारं पारिजातं च तृतीयं कल्पपादपम् ।। ३२
लसन्मुक्तापुष्पहारं वितानं पञ्चवर्णकम् ।
अबन्धयत्तादृशाद्रेरुपरिक्षितिपात्मजा ।। ३३
मेरुमेवंविधं कृत्वा तत्तुरीयांशसम्मितान् ।
साऽवष्टम्भनगांश्चक्रे चतुरस्तच्चतुर्दिशम् ।। ३४
मन्दराद्रिं यवैः पूर्वे सा चकार फलादिभिः ।
नानावस्त्रैश्च पुष्पैस्तं शोभमानं च चन्दनैः ।। ३५
तस्योपरि द्रुमौ द्वौ च हैमौ भद्रकदम्बकौ ।
वनं रौप्यमयं चापि चक्रे चैत्ररथाभिधम् ।। ३६
तस्मिंश्च काञ्चनमयं काममस्थापयज्जया ।
क्षीरोदं चारुणोदाख्यं सरो रौप्यमयं तथा ।। ३७
चकार दक्षिणे मेरोस्ततः सागन्धमादनम् ।
गोधूमैः पर्वतं नानावस्त्रादिभिरलंकृतम् ।। ३८
हेमजम्बूं च तन्मूर्ध्नि तथा रूप्यमयं वनम् ।
गान्धर्वाख्यं तत्र चासौ रौप्यं यक्षपतिं न्यधात् ।। ३९
घृतोदं मानसाख्यं च सरो रूप्यमयं तथा ।
कृत्वा तमद्रिं विविधैर्वस्त्रैः पुष्पैरशोभयत् ।। ४०
सुमेरोः पश्चिमे साऽथ तिलैर्विपुलपर्वतम् ।
कृत्वा नानाविधैर्वस्त्रैः शोभयामास तं फलैः ।। ४१
तस्योपरि च सौवर्णं न्यधाद्धंसं च पिप्पलम् ।
रौप्यं बैभ्राजाख्यवनं दधिशुद्धोदकं सरः ।। ४२
मेरोः सौम्ये सुपार्श्वाद्रिं कृत्वा माषमयं ततः ।
तस्योपरि वटं हैमं हैमीं कामदुघां न्यधात् ।। ४३
सावित्राख्यं वनं रौप्यं मधुभद्रसरस्तथा ।
कृत्वा तमद्रिं वस्त्राद्यैर्विविधैः समशोभयत् ।। ४४
रचयित्वेदृशं मेरुं विधिज्ञौः सा ततो द्विजैः ।
वाचयित्वा स्वस्त्ययनं ग्रहशान्तिं विधाय च ।। ४५
आवाह्य पर्वतान् देवांस्तान्सम्पूज्य यथाविधि ।
पुपूज स्वगुरुं भक्तया चन्दनांशुकभूषणैः ।। ४६
मध्यमं पर्वतं तस्मै प्रददौ मेरुसंज्ञाकम् ।
तद्दानसाङ्गतासिद्धयै गाश्चतुर्विशतिं ददौ ।। ४७
अवष्टम्भगिरीनन्यांश्चतुरश्च ततः परम् ।
ऋत्विग्भ्योऽदाच्चतुर्भ्यः सा भगवत्प्रीतये तदा ।। ४८
एतेन विधिना दत्त्वा धान्यशैलं तु सा जया ।
लवणाद्रिमुखानन्यान् गिरीन्व्यरचयन्नव ।। ४९
लवणाद्रिं तत्र चक्रे द्रोणैः षोडशभिर्मितम् ।
विष्कम्भाद्रींश्च चतुरस्तच्चतुर्थांशसम्मितान् ।। ५०
द्रुमान्सरांसि देवांस्तु यथापूर्वं चकार सा ।
विविधैर्वसनैः पुष्पैः फलाद्यैस्तमशोभयत् ।। ५१
गुडाद्रिं दशभिर्भारैः सा चकार ततः शुभम् ।
सहस्रेण पलानां च विदधे हेमपर्वतम् ।। ५२
ततश्च सा जया चक्रे हरिप्रीत्यै महामनाः ।
तिलाद्रिं दशभिर्द्रोणैः पूर्ववच्च यथाविधि ।। ५३
कार्पासाद्रिं च विंशत्या भारैः परिमितं तथा ।
कुम्भैर्विंशतिसङ्खयाकैर्घृताद्रिं च चकार सा ।। ५४
मुक्ताफलसहस्रेण रत्नाचलमथाकरोत् ।
तत्पूर्वे मन्दराद्रिं तु गोमेदैर्हीरकैस्तथा ।। ५५
इन्द्रनीलैः पुष्परागैर्दक्षिणे गन्धमादनम् ।
वैदूर्यैर्विद्रुमैश्चक्रे पश्चिमे विपुलाचलम् ।। ५६
पद्मरागैः ससौवर्णैरुत्तरे च सुपार्श्वकम् ।
चकार शेषं तु विधिं सा पूर्ववदुदारधीः ।। ५७
अयुतेन पलैश्चक्रे ततो रूप्याचलं च सा ।
प्राग्यद्यद्राजतं प्रोक्तं हैमं तत्तदिहाकरोत् ।। ५८
ततो भारैः परिमितं साष्टभिः शर्कराचलम् ।
यथाविधि विधायैवं वस्त्राद्यैस्तमशोभयत् ।। ५९
मध्यमाद्रिचतुर्थांशसम्मितांश्चतुरो गिरीन् ।
सर्वत्रैवाकरोच्चान्यद्विधानं धान्यशैलवत् ।। ६०
वस्त्राद्यैः शोभितांस्तांश्च सर्वानपि च पर्वतान् ।
यथाविधि ब्राह्मणेभ्यो ददौ सा प्रीतये हरेः ।। ६१
एवं स उत्तमो राजा प्रीत्यै भगवतो हरेः ।
तदाज्ञायैव जयया महादानान्यदीदपत् ।। ६२
औदार्यमीदृशं तस्य विलोक्यैवाखिला नृपाः ।
देशान्तरीया लोकाश्च विस्मयं प्रतिपेदिरे ।। ६३
रात्रौ सा च यथाशास्त्रं राधादामोदरं जया ।
एकादश्यधिपं भक्तया पुपूज शुचिमानसा ।। ६४
वृद्धा युवानः शिशवः पुमांसस्तस्मिन् दिने तु प्रभुतोषणार्थम् ।
चक्रुर्निराहारव्रतं च योषा राजन् ! यथावन्निशि जागरं च ।। ६५
इति सत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे प्रबोधन्युत्सवे जयाकृतगुडधेन्वादिमहादानविधिनिरूपणनामा सप्तत्रिंशोऽध्यायः।।३७।।