अथ षट्त्रिंशोऽध्यायः

सुव्रत उवाच-


इति श्रीहरिणा गीतं माहात्म्यादि निशम्य ते ।
कादश्या जनाः सर्वे सन्तुष्टिं परमां ययुः ।। १

तमेव हृदि जानन्तः श्रीकृष्णं धर्मनन्दनम् ।
तदग्र एव नियमं जगृहुस्तद्व्रतस्य ते ।। २

स्वस्वस्थानं ततो गन्तुमाज्ञाप्य स्वाश्रितांश्च तान् ।
स्वावासमगमत्स्वामी वन्द्यमानो जनव्रजैः ।। ३

एकादशीव्रतविधिमाचरिष्यन् कृताप्लवः ।
कृष्णं सोऽभ्यर्च्य जग्राह तदग्रे नियमं नृप ! ।। ४

महानैवेद्यसामग्रीं कारयामास वाडवैः ।
रम्भास्तम्भादिभिः पूजामण्डपं चाप्यचीकरत् ।। ५

पूजोपहारान्सम्पाद्य किञ्चित्सुष्वाप भूतले ।
तृतीयः प्रहरस्तावद्रात्रेः प्रापत्समापनम् ।। ६

अलब्धनिद्र एवासावुत्तस्थौ सहसा ततः ।
स्वस्वरूपं हृदि ध्यात्वा साकं भक्तैर्नदीं ययौ ।। ७

आदौ शौचविधिं कृत्वा गण्डूषान् द्वादशैव च ।
तस्यामुन्मत्तगङ्गायां चकार विधिनाऽप्लवम् ।। ८

स्ननाङ्गं तर्पणं कृत्वा कलशेऽत्युज्ज्वले जलम् ।
भृत्वाऽर्चनार्थं श्रीविष्णोरार्द्रवासा गृहं ययौ ।। ९

ईश्वरोऽनेकशिष्योऽपि दर्शयन् हरिसेविनाम् ।
दासधर्मं स्वयं तोयमानिनाय निजाश्रमम् ।। १०

पुष्पाणि च गृह्योद्यानादानीय तुलसीं च सः ।
धौतांघ्रिपाणिः शुचिनी पर्यधात्सितवाससी ।। ११

उपविश्यासने कौशे गोपीचन्दनमृत्सया ।
कृत्वा पञ्चोर्ध्वपुण्ड्राणि सन्ध्यावन्दनमाचरत् ।। १२

नित्यहोमं ततः कृत्वा ब्राह्मणान्वेदवित्तमान् ।
पूजाविधिज्ञानाहूय प्रारेभे कृष्णपूजनम् ।। १३

तं पूजां कारयामासुर्ब्राह्मणास्ते यथाविधि ।
विदधुः सर्वतोभद्रमादौ ते मण्डलं शुभम् ।। १४

विचित्ररङ्गशोभाढये तस्मिन्कलशमुज्ज्वलम् ।
सौवर्णं स्थापयामासुर्ब्राह्मणा विधिकोविदाः ।। १५

पञ्चपल्लवसंयुक्ते सूक्ष्मवस्त्राभिवेष्टिते ।
तत्र स्थिते शुभे पात्रे रम्यास्तरणमण्डिते ।। १६

कमलं द्वादशदलं नानावर्णोपशोभितम् ।
अन्तर्द्वादशभिः पत्रैर्युक्तं चक्रुर्मनोहरम् ।। १७

तन्मध्ये प्रतिमां हैमीं लक्ष्मीयोगेश्वरस्य ते ।
प्राणप्रतिष्ठां कृत्वैव स्थापयामासुरादरात् ।। १८

तदङ्गदेवताश्चान्याः पार्षदांश्च यथादिशम् ।
स्थापयामासुरव्यग्रास्तन्त्रोक्तविधिना द्विजाः ।। १९

पूर्वाद्यनुक्रमेणैव केशवाद्याः सशक्तयः ।
बाह्याभ्यन्तरपत्रेषु स्थापिता ह्यङ्गदेवताः ।। २०

आद्ये दले केशवस्तु स्थापितस्तैः श्रिया सह ।
नारायणस्तदग्रे च पद्मया दक्षिणक्रमात् ।। २१

माधवो नित्यया साकं गोविन्दश्चन्द्रया सह ।
रमया सह विष्णुश्च माधव्या मधुसूदनः ।। २२

त्रिविक्रमश्च पद्माक्ष्या वामनः कमलायुतः ।
श्रीधरः कान्तिमत्याऽग्रे हृषीकेशापराजिते ।। २३

पद्मनाभः पद्मवत्या राधादामोदरौ ततः ।
स्थापिता द्वादशैवैता बहिःपत्रेषु देवताः ।। २४

मार्गशीर्षादिमासेषु द्वादशस्वप्यनुक्रमात् ।
एकादशीनां शुक्लानामेता एव हि देवताः ।। २५

तथाभ्यन्तरपत्रेषु द्वादशस्वपि देवताः ।
कृष्णैकादश्यधिष्ठात्र्यः स्थापिताश्च सशक्तयः ।। २६

सङ्कर्षणः पूर्वपत्रे स्थापितस्तु सुनन्दया ।
वासुदेवो हरिण्या च सहाग्रे ब्राह्मणैस्ततः ।। २७

प्रद्युम्नश्च धिया साकमनिरुद्धः सुशीलया ।
स्थापितोऽनुक्रमेणैव नन्दया पुरुषोत्तमः ।। २८

अधोक्षजस्त्रयीयुक्तः क्षेमङ्कर्या नृकेसरी ।
अच्युतो विजयायुक्तः सुन्दर्या च जनार्दनः ।। २९

उपेन्द्रः सुभगायुक्तो हरिः सह हिरण्यया ।
कृष्णः सुलक्षणायुक्तो द्वादश स्थापिता इति ।। ३०

स्थापयित्वाथ नन्दादीन् पार्षदानष्टदिक्षु ते ।
 पूजामकारयन्विप्रा मन्त्रैर्वैदिकतान्त्रिकैः ।। ३१

तत्रादौ हृदये दध्यौ स्वामी योगेश्वरं प्रभुम् ।
वामपार्श्वस्थया लक्ष्म्या सह पङ्कजहस्तया ।। ३२

पद्मासनसमासीनं किञ्चिन्मीलितलोचनम् ।
घ्राणाग्रदत्तदृष्टिं च श्वेतपद्मोपरि स्थितम् ।। ३३

मेघश्यामं चतुर्बाहुं कौस्तुभेन विराजितम् ।
नानाभरणशोभाढयं किरीटविलसन्मुखम् ।। ३४

अङ्के कृत्वा वामदक्षावुत्तानौ च भुजौ स्थितम् ।
तत्करद्वयपार्श्वस्थे दध्यौ पद्ममहागदे ।। ३५

ऊर्ध्वे करद्वये तस्य पाञ्चजन्यसुदर्शने ।
ध्यात्वा तस्मिन्वासुदेवे चकार स्वं मनः स्थिरम् ।। ३६

उपचारैः षोडशभिस्तत आवाहनादिभिः ।
नीलकण्ठोऽर्चयामास स्वप्रेष्ठं तमनन्यधीः ।। ३७

पञ्चामृतेन संस्नप्य लघुपूजां विधाय च ।
महाभिषेकविधिना स्नपयामास तं पुनः ।। ३८

सुगन्धिना कैसरेण चन्दनेन सिताक्षतैः ।
सुगन्धिभिर्बहुविधैः पुष्पैरानर्च तं ततः ।। ३९

धूपं दत्त्वा दशाङ्गं च तस्मै दीपान्निवेद्य च ।
अर्पयामास नैवेद्यं चतुरैः पाचकैः कृतम् ।। ४०

मोदकान् गुडकांश्चैव चूर्णानि घृतपूरकान् ।
सोहालिकाश्च कंसारं सक्तून्सेवाश्च मण्डकान् ।। ४१

वटकान् पायसं दुग्धकूरं दध्योदनं तथा ।
पिण्डकान् परिकाश्चैव शतच्छिद्रांश्च लड्डुकान् ।। ४२

तिलपिष्टं कर्णवेष्टं शालिपिष्टं सशर्करम् ।
रम्भाफलं च सघृतं मुद्गचूर्णं गुडौदनम् ।। ४३

भक्ष्यभोज्यानि चान्यानि समर्प्य च जलं शुचि ।
ददौ ताम्बूलपूगादि फलानि विविधानि च ।। ४४

चकार घनसारेण महानीराजनं ततः ।
गीतवाद्यनिनादोऽभूज्जयशब्दयुतस्तदा ।। ४५

तदा सुरगणाः सर्वे वादयन्तः स्वदुन्दुभीन् ।
ववृषुः पुष्पवर्षाणि जगुर्गन्धर्वकिन्नराः ।। ४६

नीराजनं विधायाथ ददौ पुष्पाञ्जलिं हरिः ।
नमस्कृत्य च सम्प्रार्थ्य विष्णुं पूजामपूरयत् ।। ४७

पूजयामास च ततो धर्मदेवं यथाविधि ।
युक्तं स्वपरिवारेण तण्डुलाष्टदलाम्बुजे ।। ४८

दश दानानि विप्रेभ्यो व्रताङ्गत्वाद्ददौ ततः ।
माध्याह्निकं विधायादाद्बक्तेभ्यो निजदर्शनम् ।। ४९

प्रवर्तयन् धर्मविधिं धरायां स्वयं यथाशास्त्रमिहाचरंस्तम्।
आनन्दयामास स धर्मसंस्थान् भक्तव्रजान् भूमिप! धर्मसंस्थः ।। ५०


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे प्रबोधन्युत्सवे नारायणमुनिकृतैकादशीव्रतविधिनिरूपणनामा षट्रत्रिंशोऽध्यायः।।३६।।