जना ऊचुः-
केशवादीनि रूपाणि यान्येकादशिकातिथौ ।
पूज्यान्युक्तानि तेषां त्वं ब्रूहि लक्ष्माणि नः पृथक् ।। १
श्रीनारायणमुनिरुवाच-
मूर्तीनां केशवादीनां वासुदेवस्य वो जनाः! ।
कथयामि यथाशास्त्रं लक्षणानि पृथक् पृथक् ।। २
चतुर्विंशतिरूपिण्या एकादश्याः प्रियाय सः ।
चतुर्विंशतिमेकोऽपि विष्णुर्मूर्तीर्दधाति वै ।। ३
शङ्खचक्रगदाब्जानां स्थानभेदेन धारणात् ।
नामान्युक्तानि तासां वै चतुर्विंशतिरेव हि ।। ४
धारणं स्थानभेदेन शङ्खादीनां यथा तथा ।
वदामि तत्तु विज्ञोयं दक्षिणाधः करक्रमात् ।। ५
पद्मं शङ्खं तथा चक्तं गदां वहति केशवः ।
शङ्खं पद्मं गदां चक्रं धत्ते नारायणः सदा ।। ६
गदां चक्रं तथा शङ्खं पद्मं वहति माधवः ।
चक्रं गदां पद्मशङ्खौ गोविन्दो धरते भुजैः ।। ७
गदां पद्मं तथा शङ्खं चक्रं विष्णुर्बिभर्ति च ।
चक्रं शङ्खं तथा पद्मं गदां च मधुसूदनः ।। ८
पद्मं कौमोदकीं चक्रं शङ्खं धत्ते त्रिविक्रमः ।
शङ्खं चक्रं गदां पद्मं वामनो धरते सदा ।। ९
पद्मं चक्रं गदां शङ्खं श्रीधरो धरते भुजैः ।
हृषीकेशो गदां चक्रं पद्मं शङ्खं दधाति च ।। १०
पद्मनाभः करैर्धत्ते शङ्खं पद्ममरिं गदाम् ।
पद्मं शङ्खं गदां चक्रं धत्ते दामोदरः सदा ।। ११
सङ्कर्षणो गदाशङ्खपद्मचक्रधरः स्मृतः ।
वासुदेवो गदाशङ्खचक्रपद्मधरो मतः ।। १२
चक्रशङ्खगदापद्मधरः प्रद्युम्न उच्यते ।
अनिरुद्धश्चक्रगदाशङ्खपद्मधरः स्मृतः ।। १३
चक्रं पद्मं तथा शङ्खं गदां च पुरुषोत्तमः ।
पद्मं कौमोदकीं शङ्खं चक्रं धत्तेऽप्यधोक्षजः ।। १४
चक्रं पद्मं गदां शङ्खं नरसिंहो बिभर्ति च ।
गदां सरोजं चक्रं च शङ्खं धत्तेऽच्युतः सदा ।। १५
पद्मं सुदर्शनं शङ्खं गदां धत्ते जनार्दनः ।
शङ्खं कौमोदकीं चक्रमुपेन्द्रो धरतेऽम्बुजम् ।। १६
शङ्खं चक्रं सरोजं च गदां वहति वै हरिः ।
शङ्खं कौमोदकीं पद्मं चक्रं कृष्णो बिभर्ति च ।। १७
इत्येताः केशवाद्या वो मूर्तयो लक्षणैर्मया ।
निरुपिता भक्तजनाः ! पूज्या एकादशीषु ताः ।। १८
एकादशीनां शुक्लानामीश्वराः केशवादयः ।
द्वादशोक्ताश्च कृष्णानां ज्ञोयाः सङ्कर्षणादयः ।। १९
मार्गशीर्षे शुक्लपक्षे एकादश्यां तु केशवः ।
पूज्यस्तथा कृष्णपक्षे तत्र सङ्कर्षणोऽर्चकैः ।। २०
एवं पौषादिमासेषु पक्षयोः शुक्लकृष्णयोः ।
नारायणादयः पूज्या मले तु पुरुषोत्तमः ।। २१
अत्र सङ्कर्षणाद्या याश्चतस्रो मूर्तयो मया ।
प्रोक्तास्तास्तु पृथग्ज्ञोयाश्चतुर्व्यूहस्वरूपतः ।। २२
वित्तशाठयं न कर्तव्यमेकादश्युत्सवे जनाः ! ।
लक्ष्मीकान्तोऽत्र सर्वासां दाता तुष्यति सम्पदाम् ।। २३
यः प्रातरुत्थाय विकुण्ठभर्तुः कृष्णस्य रूपाण्यघनाशनानि ।
श्रीकेशवादीनि पुमानुत स्त्री स्मरेत्स वै मङ्गलमिष्टमेतु ।। २४
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे प्रबोधन्युत्सवे केशवादिमूर्तिलक्षणनिरूपणनामा पञ्चत्रिंशोऽध्यायः ।। ३५ ।।