अथ चतुस्त्रिंशोऽध्यायः

श्रीनारायणमुनिरुवाच-


उद्यापनं विना नैव व्रतं हि फलदं भवेत् । तस्मात्प्रयत्नतः कार्यमेकादश्या व्रतस्य तत् ।। १

अस्तगे च गुरौ शुक्रे बाले वृद्धे मलिम्लुचे । उद्यापनं न कर्तव्यं कार्यमन्यत्र शक्तितः ।। २

महापूजा प्रकर्तव्या विप्रसन्तर्पणं तथा । शक्तया स्वर्णं च गौर्देया सामान्योद्यापनं त्विति ।। ३

सकृदेव हविष्याशी दशम्यां प्रयतः पुमान् । ब्रह्मचर्यपरो रात्रौ स्वपेद्बूमौ हरिं स्मरन् ।। ४

रजन्या अन्तिमे यामे समुत्थाय यथाविधि । अदीर्घसूत्री कुर्वीत शौचस्ननादि नैत्यकम् ।। ५

पूजोपहारान्सम्भृत्य विधिज्ञां ब्राह्मणं ततः । आहूय स्वस्थचित्तोऽर्चेद्बक्तया श्रीपुरुषोत्तमम् ।। ६

स्वकीयगेहे सुस्वच्छे पुण्यक्षेत्रेऽथवा शुभे । विष्ण्वालये विशेषेण कुर्यात्पूजाविधिं व्रती ।। ७

मण्डपे निर्मिते रम्ये कदलीस्तम्भमण्डिते । विधाय सर्वतोभद्रं तन्मध्ये स्थापयेद्धटम् ।। ८

पञ्चपल्लवसंयुक्ते सूक्ष्मवस्त्राभिवेष्टिते तस्मिन् पात्रं निदध्याच्च रम्यास्तरणमण्डितम् ।। ९

कमलं द्वादशदलं नानावर्णोपशोभितम् अन्तर्द्वादशभिः पत्रैर्युक्तं कुर्यात्तदन्तरे ।। १०

तन्मध्ये वासुदेवस्य हैमीं लक्ष्मीयुतस्य च । यथाशास्त्रं कारयित्वा प्रतिमां स्थापयेन्नरः ।। ११

पूर्वाद्यनुक्रमेणैव केशवाद्याः सशक्तयः । तदङ्गदेवताः स्थाप्याः पद्मपत्रेषु सर्वतः ।। १२

आद्ये दले केशवस्तु स्थापनीयः श्रिया सह । नारायणस्तदग्रे च पद्मया दक्षिणक्रमात् ।। १३

माधवो नित्यया साकं गोविन्दश्चन्द्रया सह । रमया सह विष्णुश्च माधव्या मधुसूदनः ।। १४

त्रिविक्रमश्च पद्माक्ष्या वामनः कमलायुतः ।श्रीधरः कान्तिमत्या च हृषीकेशापराजिते ।। १५

पद्मनाभः पद्मवत्या राधादामोदरौ ततः । स्थापनीयाः क्रमेणैवमेता द्वादश देवताः ।। १६

तथाभ्यन्तरपत्रेषु स्थाप्या द्वादश देवताः । सङ्कर्षणः पूर्वपत्रे स्थाप्यः सह सुनन्दया ।। १७

वासुदेवो हरिण्याथ दक्षिणक्रमतस्ततः । प्रद्युम्नश्च धिया साकमनिरुद्धः सुशीलया ।। १८

स्थापनीयः क्रमेणैव नन्दया पुरुषोत्तमः । अधोक्षजस्त्रयीयुक्तः क्षेमङ्कर्या नृकेसरी ।। १९

अच्युतो विजयायुक्तः सुन्दर्या च जनार्दनः । उपेन्द्रः सुभगायुक्तो हरिः सह हिरण्यया ।। २०

कृष्णः सुलक्षणायुक्तः स्थापनीयोऽन्तिमे दले । ततः पूजां प्रकुर्वीत यथाशक्ति यथाविधि ।। २१

पञ्चामृतेन च स्ननं कार्यमभ्यङ्गपूर्वकम् । महाभिषेकः कर्तव्यः कृत्वादौ लघुपूजनम् ।। २२

नवीनवस्त्रभूषादि समर्प्य च चतुःसमम् । सर्वगन्धं च वा भक्तया सुमनोभिः प्रपूजयेत् ।। २३

सहस्रतुलसीपत्रैः पूजयित्वाऽमृताह्वयम् । धूपं समर्प्य दीपं च नैवेद्यं तु निवेदयेत् ।। २४

मोदकान् गुडकांश्चैव चूर्णानि घृतपूरकान् । सोहालिकाश्च कंसारं सक्तून्सेवाश्च मण्डकान् ।। २५

वटकान् पायसं दुग्धकूरं दघ्योदनं तथा । पिण्डकान् पूरिकाश्चैव शतच्छिद्रांश्च लड्डुकान् ।। २६

तिलपिष्टं कर्णवेष्टं शालिपिष्टं सशर्करम् । रम्भाफलं च सघृतं मुग्दचूर्णं गुडौदनम् ।। २७

समर्प्येत्यादि नैवेद्यं ताम्बूलं च फलं व्रती । महानीराजनं कृत्वां दद्यात्पुष्पाञ्जलिं ततः ।। २८

समाप्य पूजां दानानि दद्याच्छक्तयनुसारतः । गोभूतिलहिरण्याश्वगजादीनि दृढव्रतः ।। २९

ततो देवस्य पुरतो गोष्ठे वा होममाचरेत् ।मन्त्रेणेदं विष्णुरिति समिदाज्यतिलौदनैः ।। ३०

तैरेव च यजेत्पश्चान्नामभिः केशवादिभिः । गाश्चतुर्विशतिं दद्याद्दशैकां वाथ काञ्चनम् ।। ३१

देया गावः श्वेतवर्णाः कपिला वा यथाविधि । रात्रौ जागरणं कृत्वा प्रभाते चार्चयेद्धरिम् ।। ३२

सुवर्णनिर्मितां मूर्तिं दद्यात्स्वगुरवे हरेः । अलङ्कारांश्च वासांसि दत्त्वा विप्रांश्च भोजयेत् ।। ३३

चतुर्विंशतिसङ्खयाकान्सतिलान्नफलोदकान् । घटान्दत्त्वा द्विजेभ्यश्च प्रदद्याद्दक्षिणां नरः ।। ३४

गन्धपुष्पांशुकाद्यैश्च सम्पूज्या ब्रह्मचारिणः । साधवो भोजनीयाश्च सदन्नैर्विष्णुसेवकाः ।। ३५

ततश्च पारणां कुर्यात्स्वजनैः सह स व्रती । एवं कृते व्रतमिदं यथोक्तफलदं भवेत् ।। ३६

इत्येकादशिकाव्रतस्य महिमा सच्छास्त्रवृन्दं मया ।
निर्मथ्योद्धृत आदराद्व्रतविधिः साङ्गश्च संक्षेपतः।
प्रोक्तः श्रीरमणाश्रिताखिलजनप्रीत्यै तमेतं नरो यः ।
श्रोष्यत्यथवा पठिष्यति स तु प्राप्स्यत्यभीष्टं फलम् ।। 


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे प्रबोधन्युत्सवे एकादशीव्रतोद्यापनविधिनिरूपणनामा चतुस्त्रिंशोऽध्यायः ।।३४।।