जना ऊचुः-
एकादशी व्रतमिदं विधिना केन सत्पते ! । अस्माभिरिह कर्तव्यं वक्तुमर्हसि तद्धि नः ।। १
श्रीनारायणमुनिरुवाच-
एकादशीव्रतविधिं स्मृतिवाक्यैः सनिर्णयम् । मदाश्रितेभ्यो वक्ष्यामि स्न्ग्धिेभ्यो वोऽहमादरात् ।। २
उदयात्प्राक् चतस्रस्तु घटिका अरुणोदयः । पलमात्रमपि त्याज्यं दशम्यास्तत्र सर्वथा ।। ३
शुद्धा विद्धा द्वयी नन्दा त्रेधा न्यूनसमाधिकैः । षट्रप्रकाराः पुनस्त्रेधा द्वादश्यूनसमाधिकैः ।। ४
एवमष्टादशविधा प्रोक्ता पूर्वैर्महर्षिभिः । विद्धायास्तत्र हेयत्वाच्छुद्धायां किञ्चिदुच्यते ।। ५
आदित्योदयवेलायाः प्रांमुहूर्तद्वयान्विता । एकादशी तु सम्पूर्णा शुद्धा च परिकीर्तिता ।। ६
एकादशी द्वादशी वाऽधिका चेत्त्यज्यतां दिनम् । पूर्वं ग्राह्यं तूत्तरं स्यादिति वैष्णवनिर्णयः ।। ७
एकादशी यदा लुप्ता परतो द्वादशी भवेत् । उपोष्या द्वादशी तत्र यदीच्छेत्परमां गतिम् ।। ८
दशमीमिश्रिता पूर्वा द्वादशी यदि लुप्यते । उपोष्या द्वादशी तत्र त्रयोदश्यां तु पारणम् ।। ९
सम्पूर्णैकादशीं त्याज्या परतो द्वादशी यदि । उपोष्या द्वादशी तत्र द्वादश्यामेव पारणम् ।। १०
नवमी पलमेकं स्याद्दशमी परतो यदि । उपोष्या द्वादशी शुद्धा त्रयोदश्यां तु पारणम् ।। ११
अविद्धैकादशी स्याच्च द्वादशी वृद्धिगामिनी । यदा तदोपवासस्तु शक्तैः कार्यो दिनद्वये ।। १२
द्वादश्यामेव चाशक्तैर्विष्णुभक्तैरुपोषणम् । कर्तव्यं सोत्सवं भक्त्या द्वादश्यामेव पारणम् ।। १३
एकादशीमुपोष्याथ द्वादशीं समुपोषयेत् । न तत्र विधिलोपः स्याद्देवो यदुभयोर्हरिः ।। १४
दशमी पञ्चपञ्चाशद्धटिका यावदेव हि । तावन्न दशमीवेधः प्रोक्तः प्रोक्तस्तदुर्ध्वतः ।। १५
एवमेव हि गोस्वामिविठ्ठलेशमतं ततः । मदीयैरपि युष्माभिस्तदेव ग्राह्यमादरात् ।। १६
बहुवाक्यविरोधेऽथ सन्देहे च तिथेर्विदाम् । उपोष्या द्वादशी शुद्धा त्रयोदश्यां तु पारणम् ।। १७
एकादशी प्रमादेन विस्मृता स्याद्यदा तदा । परेऽह्नि द्वादशीमेव समुपोष्य व्रतं चरेत् ।। १८
एकादशेन्द्रियाणां यत्तत्तद्विषयलक्षणम् । हित्वाऽहारं वासुदेवसम्मुखत्वमखण्डितम् ।। १९
एकादशीव्रतस्यैतन्मुख्यं भवति लक्षणम् । उपवासो निराहार एष एव मतो बुधैः ।। २०
उपावृत्तस्य पापेभ्यो यस्तु वासो गुणैः सह ।उपवासः स विज्ञोयः सर्वभोगविवर्जितः ।। २१
तज्जप्यजपनं ध्यानं तत्कथाश्रवणादयः । उपवासकृतामेते गुणाः प्रोक्ता मनीषिभिः ।। २२
क्षमा सत्यं दया शौचं दानमिन्द्रियनिग्रहः । देवपूजाग्निहवनं सन्तोषः स्तेयवर्जनम् ।। २३
एकादशं ब्रह्मचर्यमहिंसा रसवर्जनम् । सर्वव्रतेषु सामान्या धर्मा एते त्रयोदश ।। २४
स्मृतिश्चालोकनं गन्धः स्वादनं चापि कीर्तनम् । अन्नस्य सर्वथा वर्ज्यमुपवासं प्रकुर्वता ।। २५
पतितान्नास्तिकान्हिंस्रानन्त्यजान्वेदनिन्दकान् ।नाभिभाषेत नेक्षेत न स्पृशेच्च व्रती नरः ।। २६
अनातुरोऽसकृन्नैव पिबेत्तोयं व्रती क्वचित् । इन्द्रियक्षोभजननं भक्षयेन्न च किञ्चन ।। २७
गात्राभ्यङ्गं शिरोभ्यङ्गं ताम्बूलं चानुलेपनम् । व्रतस्थो वर्जयेदेव खट्वायां शयनं तथा ।। २८
स्त्रीणां सम्प्रोक्षणात्स्पर्शात्ताभिः सङ्कथनादपि । विपद्यते ब्रह्मचर्यं स्वदारेषु तु सङ्गमात् ।। २९
प्राप्त आवश्यके कार्ये भाषणे तु परस्त्रिया । स्पर्शे वापदि संवृत्ते न दोषो गृहिणां स्मृतः ।। ३०
असकृज्जलपानाच्च सकृत्ताम्बूलचर्वणात् । उपवासः प्रणश्येद्वै दिवास्वापाच्च मैथुनात् ।। ३१
अश्रुप्रपातो रोषश्च कलहस्य कृतिस्तथा । पुरुषं च स्त्रियं सद्यो व्रताद्भ्रंशयति ध्रुवम् ।। ३२
दानं व्रतं च नियमा ज्ञानं ध्यानं हुतं जपः । यत्नेनापि कृतं सर्वं क्रोधितस्य वृथा भवेत् ।। ३३
मिथ्यावादे दिवास्वापे बहुशोऽम्बुनिषेवणे । अष्टाक्षरं व्रती जप्त्वा शुद्धयेदष्टोत्तरं शतम् ।। ३४
स्तेननास्तिकहिंस्रादिभाषणादौ व्रती पुमान् । अष्टाक्षरं जपेत्स्नत्वा शतत्रयमुदङ्मुखः ।। ३५
ताम्बूलमद्यमांसादिभक्षणे मैथुने तथा । ग्राम्यवार्ताप्रकथने गालिदाने च ताडने ।। ३६
तमालभक्षे मदकृद्बक्षे च द्युतदेवने । अज्ञानादपि सञ्जाते व्रतलोपो भवेद्ध्रुवम् ।। ३७
विभर्तृकायाः स्पर्शस्तु भवेत्पुंसो धिया यदा । तस्याः पुंसोऽथ च स्पर्शो व्रतलोपस्तदोभयोः ।। ३८
बुद्धिपूर्वं वीर्यपातः पुंसः स्वप्नेऽपि चेद्बवेत् । तदापि व्रतलोपः स्यात्तत्पुमान् बिभियात्स्त्रियाः ।। ३९
अष्टावेवाव्रतघ्नानि जलं मूलं फलं पयः । हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधम् ।। ४०
सर्वभूतभयेनाथ व्याधिनाऽज्ञानतोऽपि वा । व्रतभङ्गो यदि भवेत्तर्हि दोषो न विद्यते ।। ४१
पूर्वं व्रतं गृहीत्वा यो नाचरेत्काममोहितः । जीवन्भवति चण्डालो मृतः श्वा च स जायते ।। ४२
क्रोधात्प्रमादाल्लोभाद्वा व्रतभङ्गो भवेद्यदि । दिनत्रयं न भुञ्जीत मुण्डनं शिरसोऽथवा ।। ४३
जाताशौचे मृताशौचे व्रतप्रारम्भतः पुरा । प्राप्ते नित्यं व्रतं कुर्याद्दानार्चादिविवर्जितम् ।। ४४
उपावसंश्च नियमान् पालयन्सूतकी स्वयम् । व्रताङ्गदेवपूजादि कारयेद्ब्राह्मणेन वै ।। ४५
प्रारब्धेऽथ व्रते प्राप्ते सूतके तु व्रती स्वयम् । स्नत्वा व्रताङ्गदेवस्य भक्तया कुर्वीत पूजनम् ।। ४६
नारी रजोदर्शने तु कृत्वा स्वयमुपोषणम् । देवार्चनादि चान्येन कारयेत्प्रयता व्रते ।। ४७
व्रतोपवासदिवसे श्राद्धप्राप्तौ तु पूरुषः । पित्र्यमन्नमुपाघ्राय कुर्वीत व्रतमादरात् ।। ४८
वैष्णवैस्तु विशेषेण श्राद्धमेकादशीभवम् । द्वादश्यामेव कर्तव्यं पितरो वैष्णवा यतः ।। ४९
गर्भिणी रोगिणी च स्त्री सूतिका चापदं गता । अन्येनैव व्रतं स्वीयं कारयेन्न तु हापयेत् ।। ५०
भार्या पत्युर्व्रतं कुर्याद्बार्यायाश्च पतिर्व्रतम् । तदभावे परस्ताभ्यां व्रते प्रतिनिधिर्मतः ।। ५१
पुत्रं शिष्यं विनीतं वा भगिनीं भ्रातरं च वा । एषामभावे विप्रं वा व्रते स्वस्य नियोजयेत् ।। ५२
पितृमातृपतिभ्रातृगुर्वर्थे च विशेषतः । यः कुर्यादुपवासं स पुण्यं शतगुणं व्रजेत् ।। ५३
उपवासासमर्थो वा विप्रमेकं सुभोजयेत् । तावद्धनं च वा दद्याद्बुक्तस्य द्विगुणं पुमान् ।। ५४
सहस्रसंमितां देवीं जपेद्वा प्राणसंयमान् । कुर्याद्द्वादशसङ्खयाकान् यथाशक्तयातुरो नरः ।। ५५
शारीरान्नियमांस्त्वत्र कर्ता कारयिता तथा । पालयेत्सकलान्भक्तया श्रम एवान्यथा भवेत् ।। ५६
कांस्यं माषान्मसूरांश्च चणकान्कोरदूषकान् । शाकं मधु परान्नं च पुनर्भोजनमैथुने ।। ५७
द्यूतमत्यम्बुपानं च मृषावादं तथा कलिम् । गन्धताम्बूलपुष्पादि दशम्यां वैष्णवस्त्यजेत् ।। ५८
अत्याहारमसत्सङ्गमनृतं च दिवास्वपिम् । त्यजेत्स्वपेन्निशि भुवि शब्दादिविषयोज्झितः ।। ५९
दिवा दशम्यां लघुभुक् स्नत्वाभ्यर्च्य हरिं निशि । उदंमुखो व्रतस्यास्य गृीयान्नियमं नरः ।। ६०
एकादश्यां तु वा प्रातर्दन्तधावनपूर्वकम् । स्नत्वोपवासनियमं गृीयात्सन्निधौ हरेः ।। ६१
एकादश्यां निराहारः स्थित्वाहमपरेऽहनि । भोक्ष्यामि पुण्डरीकाक्ष ! शरणं मे भवाच्युत ! ।। ६२
रजन्या अन्तिमे यामे समुत्थाय हरिं हृदि ।ध्यात्वा प्रणम्य भक्तांश्च कुर्याच्छौचविधिं पुमान् ।। ६३
न दन्तधावनं कार्यं काष्ठेनैकादशीदिने । अपां द्वादश गण्डूषैः पर्णाद्यैः शोधयेन्मुखम् ।। ६४
स्नत्वा स्वं नैत्यकं कर्म विधाय स समाहितः । शक्तया सम्भृतसम्भारः कुर्यात्कृष्णमहार्चनम् ।। ६५
व्रतकर्ता पुमानर्चेदेकादश्यधिपैः सह । सशक्तिभिश्च श्रीकृष्णं रुक्मिणीकान्तमादरात् ।। ६६
एकादशीस्वामिनाम्ना कृष्णं वैकं समर्चयेत् । तच्छक्तिनाम्ना लक्ष्मीं च भक्तयाऽशक्तस्तु पुरुषः ।। ६७
मार्गशीर्षे शुक्लपक्षे मोक्षदैकादशी मता । पूजनीयश्च मालत्या केशवोऽत्र श्रिया सह ।। ६८
अर्घ्ये फलं तु नारिङ्गं नैवेघे मोदकास्तथा । सप्त धान्यानि देयानि मुख्यान्यत्रोदितानि वै ।। ६९
मार्गशीर्षे कृष्णपक्षे सफलैकादशी मता । सङ्कर्षणोऽत्र सम्पूज्यः सुनन्दासहितः प्रभुः ।। ७०
पूजायां मुनिपुष्पाणि नैवेघे गुडका मताः । अत्रार्घ्ये चामृतफलं स्वर्णदानं च कथ्यते ।। ७१
पोषे शुक्ला तु सानन्दा कथितैकादशी तिथिः । नारायणोऽत्र सम्पूज्यः पद्मया सह भक्तितः ।। ७२
कुम्भान्युक्तानि पुष्पेषु चूर्णं नैवेद्यमत्र च । अर्घ्ये च दाडिमफलं देयं च घृतपात्रकम् ।। ७३
एकादशी पौषकृष्णा तिलदाख्या च कीर्तिता । तस्यां श्रीप्रियया साकं वासुदेवोऽर्च्य उच्यते ।। ७४
कह्लाराण्यत्र पुष्पाणि नैवेद्ये घृतपूरकाः । ज्ञोया द्राक्षाफलं चार्घ्ये वस्त्रदानमिहोत्तमम् ।। ७५
माघे शुक्ला जयानाम्नी कथितैकादशी तथा । नित्यया सह सम्पूज्यो माधवस्तत्र हीश्वरः ।। ७६
पुष्पेषु बकुलान्यर्घ्ये बीजपूरं निवेदने । मण्डकाश्चात्र दाने च तिलद्रोणः प्रकीर्तितः ।। ७७
एकादशी माघकृष्णे विजयाख्याथ कथ्यते । प्रद्युम्नो व्रतिभिस्तत्र पूजनीयो धिया सह ।। ७८
पूजायां तुलसी मुख्या तत्र जम्बीरमर्हणे । सोहालिकाश्च नैवेद्ये दाने तूपानहौ मते ।। ७९
एकादशी फाल्गुने च शुक्ला धात्रीति कीर्त्यते । गोविन्दं पूजयेत्तत्र चन्द्रवत्या सह व्रती ।। ८०
मन्दाराण्यत्र पुष्पेषु कंसारश्च निवेदने । तिलपात्रं तथा दाने ज्ञोयमक्षोडमर्हणे ।। ८१
एकादशी फाल्गुने च कृष्णोक्ता पापमोचनी । अनिरुद्धः पूजनीयः सुशीलासहितस्त्विह ।। ८२
कुन्दपुष्पाणि पूजायां सेवाश्चोक्ता निवेदने । कर्कन्धूफलमर्घ्येऽत्र दाने च तिलगौर्मता ।। ८३
एकादशी चैत्रशुक्ले विमलाख्या प्रकीर्तिता । कामदाख्या च सैवोक्ता सर्ववाञ्छितदायिनी ।। ८४
रमया सहितः शक्या तत्र विष्णुस्तु पूज्यते । उपचारैः षोडशभिर्यथावित्तं यथाविधि ।। ८५
अर्घ्ये फलं चिर्भटाख्यमाम्रपुष्पं च पूजने । नैवेद्ये सक्तवश्चात्र दाने पक्वान्नमीरितम् ।। ८६
एकादशी कृष्णपक्षे चैत्रे प्रोक्ता वरुथिनी । नन्दया सहितः शक्तया तत्रार्च्यः पुरुषोत्तमः ।। ८७
अर्घ्ये जातीफलं प्रोक्तं नैवेद्ये वटकास्तथा । चम्पकानि च पुष्पेषु तत्र दाने च भूर्मता ।। ८८
एकादशी मोहिनी च वैशाखस्य सितोदिता । माधव्या सह सम्पूज्यस्तस्यां तु मधुसूदनः ।। ८९
पुष्पेषु मल्लिकात्रोक्ता नैवेद्ये पायसं तथा । अर्घ्ये फलं च पनसं शय्या दानं च कीर्त्यते ।। ९०
एकादशी त्वपराख्या वैशाखस्यासिता मता । केतकैः पूजनीयोऽत्र सह त्रय्या ह्यधोक्षजः ।। ९१
अर्घ्ये बहुफलं प्रोक्तं दुग्धौदननिवेदनम् । सवत्सायाश्च गोर्दानं ब्राह्मणायोदितं त्विह ।। ९२
एकादशी निर्जलाख्या ज्येष्ठशुक्ले प्रकीर्तिता । पद्माक्ष्या सह सम्पूज्यस्त्रिविक्रम इह प्रभुः ।। ९३
पुष्पेषु यूथिका मुख्या अर्घ्येऽत्राम्रफलं मतम् । नैवेद्ये दधिभक्तं च दाने छत्रं प्रकीर्त्यते ।। ९४
एकादशी ज्येष्ठकृष्णा योगिनीसंज्ञिाका मता । क्षेमङ्कर्या सहात्रार्च्यो नृसिंहाह्वय ईश्वरः ।। ९५
भृङ्गराजोऽत्र पुष्पेषु ज्ञोयोऽर्घ्ये जाम्बवं फलम् । नैवेद्ये पिण्डकाः प्रोक्ता दानं च जलगोर्मतम् ।। ९६
आषाढे शुक्लपक्षेऽथ शयन्येकादशी मता । वामनः कमलायुक्तः पूजनीयोऽत्र भक्तितः ।। ९७
अपामार्गोऽत्र पुष्पेषु नैवेद्ये पूरिकास्तथा । नालिकेरीफलं त्वर्घ्ये दानं च स्वर्णगोर्मतम् ।। ९८
आषाढकृष्णपक्षे च कामिकैकादशी मता । अच्युतो विजयायुक्तः सम्पूज्यस्तत्र भक्तितः ।। ९९
पुष्पेषु पारिजातानि बिल्वमर्घ्ये फलं मतम् । शतच्छिद्रं च नैवेद्ये दानं स्त्रीपुंसवस्त्रयोः ।। १००
एकादशी पुत्रदाख्या श्रावणस्य सिता मता । श्रीधरः पूजनीयोऽत्र कान्तिमत्या सहैव च ।। १०१
शतपत्राणि पुष्पेषु नैवेद्येऽपूपकास्त्विह । प्रोक्ताः सीताफलं चार्घ्ये पादुकादानमुत्तमम् ।। १०२
अजाख्या श्रावणे मासिकृष्णैकादश्युदीरिता । सुन्दर्या च सहेवार्च्यस्तस्यां देवो जनार्दनः ।। १०३
पुष्पेषु पाटला मुख्या अर्घ्ये पूगीफलं मतम् । दाने च महिषी प्रोक्ता नैवेद्ये गुडमोदकाः ।। १०४
एकादशी भाद्रपदे शुक्ला पद्माभिधा मता । हृषीकेशोऽत्र सम्पूज्यो ह्यपराजितया सह ।। १०५
काशपुष्पाणि पूजायां तिलपिष्टं निवेदने । कूष्माण्डमर्घ्ये विज्ञोयं दाने ब्रह्मपुरी मता ।। १०६
एकादशी भाद्रपदे कृष्णा च कथितेन्दिरा । उपेन्द्रः सुभगायुक्तः पूज्यो दूर्वाभिरत्र तु ।। १०७
अर्घ्ये शिवाफलं प्रोक्तं कर्णवेष्टं निवेदने । कन्यादानं तथात्रोक्तं व्रतसाङ्गफलाप्तये ।। १०८
एकादश्याश्विने मासि शुक्ला पाशाङ्कुशाभिधा । पद्मनाभः पद्मवत्या सह पूज्योऽत्र भक्तितः ।। १०९
शमीपत्राणि पूजायामर्घ्ये कामफलं मतम् । शालिपिष्टं च नैवेद्ये दाने प्रोक्तास्तु मोदकाः ।। ११०
आश्विने कृष्णपक्षे तु रमाख्यैकादशी मता । हिरण्यया सहाभ्यर्च्यो हरिस्तस्यामधीश्वरः ।। १११
पुष्पेषु मुचुकुन्दानि तत्रार्घ्ये कदलं मतम् ।नैवेद्येऽपि च तत्साज्यं दानं घृतघटस्य च ।। ११२
कार्तिके शुक्लेपक्षे तु बोधन्येकादशी मता । राधया सह सम्पूज्यस्तत्र दामोदरः प्रभुः ।। ११३
पद्मपुष्पाणि पूजायां मुख्यान्यत्र निवेदने । मुद्गचूर्णं पद्मफलमर्घ्ये देयस्तु मञ्चकः ।। ११४
कार्तिके कृष्णपक्षे स्यादेकादश्यभयाभिधा । कृष्णः सुलक्षणोपेतः पूजनीयोऽत्र च प्रभुः ।। ११५
तिलपुष्पाणि पूजायां नैवेद्ये च गुडौदनः । ग्राह्यं सदाफलं चार्घ्ये तत्र देयो वृषो मतः ।। ११६
एकादश्यधिके मासि कमलाख्या च तत्पतिः । पुरुषोत्तम इत्युक्तो विधिस्तन्मासिकोऽपरः ।। ११७
इत्येकादशिकाधीशा मया प्रोक्ता सशक्तिकाः । तत्तत्पूजाविशेषश्च पूजकेप्सितपूरकः ।। ११८
अलाभे तूक्तवस्तूनां सर्वास्वेकादशीष्वपि । कार्या पूजा यथाशक्ति यथालब्धोपचारकैः ।। ११९
फले पूगीफलं देयं पुष्पे च तुलसीदलम् । नैवेद्ये शर्कराखण्डो दाने चान्नं स्वशक्तितः ।। १२०
आनूकूल्ये सति पुमाननुकल्पं न कर्हिचित् । गृीयाद्वित्तलोभेन प्रमादाद्वाप्यनादरात् ।। १२१
प्रतिमां कारितां शक्त्या श्रीकृष्णस्य सहश्रियः । हैम्यादिं पूजयेद्बक्तया सर्वतोभद्रमण्डले ।। १२२
चतर्विंशतिसङ्खयाकैः पूर्वोक्तैः केशवादिभिः । नन्दादिभिः पार्षदैश्च तमर्चेत्स सहश्रियम् ।। १२३
अशक्तस्त्वेकमभ्यर्चेत्तण्डुलाष्टदलाम्बुजे । श्रीकृष्णं सश्रियं भक्तया यथालब्धोपचारकैः ।। १२४
एकादश्यधिपो यः स्यात्तन्नाम्ना कृष्णमर्चयेत् । तस्य शक्तिर्भवेद्या च तन्नाम्ना रुक्मिणीं तथा ।। १२५
एकादश्यधिपाः सर्वे कृष्णस्यैकस्य पूजया । पूजिताः स्युः शक्तयश्च तेषां लक्ष्म्यास्तु पूजया ।। १२६
स्थापयित्वाऽव्रणं कुम्भं रत्नगर्भं सकाञ्चनम् । वस्त्रेण वेष्टिते तस्मिन् स्थापयेत्पात्रमुत्तमम् ।। १२७
कमलं द्वादशदलं कृत्वा तत्र सुशोभनम् । तत्रार्चेत्सश्रियं कृष्णं स्थापयित्वा यथाविधि ।। १२८
उपचारैः षोडशभिर्महापूजां समाचरेत् । लघुपूजामशक्तस्तु भक्तया कुर्वीत पूरुषः ।। १२९
सहैव वैदिकैर्मन्त्रैर्द्विजः पूजनमाचरेत् ।देशकालादि सङ्कीर्त्य मन्त्रानेतांश्च कीर्तयन् ।। १३०
तेजोमण्डलमध्यस्थं कोटिकन्दर्पसुन्दरम् । नवीननीरदश्यामं पीताम्बरधरं प्रभुम् ।। १३१
दक्षेण पाणिना चक्रं शङ्खं वामेन बिभ्रतम् । रमया सेवितं वामे दिव्यपङ्कजहस्तया ।। १३२
अनेकदिव्यालङ्कारं वनमालाविभूषितम् । उपास्यमानं प्रयतैः पार्षदैर्गरुडादिभिः ।। १३३
स्तूयमानं मुनिगणैर्देवगन्धर्वकिन्नरैः । कृष्णमेवंविधं ध्वात्वा ततः पूजनमाचरेत् ।। १३४
आवाहनीयं देवेशं भक्तानामभयप्रदम् । सुस्न्ग्धिं वरदं शान्तं मनसावाहयाम्यहम् ।। १३५
सुवर्णमणिभिर्दिव्यैः खचिते देवनिर्मिते । दिव्यसिंहासने स्न्ग्धिे निषीद त्वं सुराधिप ! ।। १३६
गङ्गोदकं सुरश्रेष्ठ ! सुवर्णकलशे स्थितम् । गन्धपुष्पाक्षतैर्युक्तं गृहाण रमया सह ।। १३७
गन्धपुष्पादिसंयुक्तं स्वर्णपात्रे स्थितं जलम् । अर्घ्यं गृहाण भो देव! भक्तानामभयप्रद ! ।। १३८
देवदेव ! नमस्तुभ्यं पुराण ! पुरूषोत्तम ! । मया दत्तमिदं तोयं गृीष्वाचमनीयकम् ।। १३९
पयो दधि घृतं चैव मधु शर्करया युतम् । पञ्चामृतेन स्न्पनं प्रीत्यर्थं प्रतिगृह्यताम् ।। १४०
कामधेनुसमुद्बूतं सर्वेषां जीवनं परम् । पावनं यज्ञाहेतुस्ते पयः स्ननार्थमर्पये ।। १४१
पयसस्तु समुद्बूतं यदम्लद्रव्ययोगतः । दध्यानीतं मया देव ! स्ननार्थं प्रतिगृह्यताम् ।। १४२
नवनीतसमुत्पन्नं सर्वसन्तोषकारकम् । यज्ञाङ्गं देवताहारं घृतं स्ननार्थमर्पये ।। १४३
वृक्षसारसमुद्बूतं सर्वतेजोविवर्धनम् । सर्वपुष्टिकरं देव ! मधु स्ननार्थमर्पये ।। १४४
इक्षुसारसमुद्बूतां शर्करां सुमनोहराम् । मलापहारिणीं स्नतुं गृहाण त्वं मयार्पिताम् ।। १४५
नदीनां चैव सरसां मयानीतं जलं शुभम् । गृहाण स्ननमन्त्रेण प्रभो ! स्ननीयमर्पितम् ।। १४६
वस्त्रयुग्मं गृहाणत्वं पट्टसूत्रेण निर्मितम् । सूक्ष्मं कार्पासतनन्तूनां सुवर्णेन विराजितम् ।। १४७
नारायण ! नमस्तेऽस्तु पाहि मां भवसागरात् । ब्रह्मसूत्रं सोत्तरीयं गृहाण पुरुषोत्तम ! ।। १४८
केयूरमुकुटैश्चैव नूपुरैरङ्गुलीयकैः । पूजितोऽसि प्रयत्नेन रत्नैराभरणैर्विभो ! ।। १४९
चन्दनं मलयोद्बूतं कस्तूर्यगुरुसंयुतम् । कर्पूरेण च संमिश्रं स्वीकुरुष्वानुलेपनम् ।। १५०
शतपत्रैः कर्णिकारैश्चम्पकैर्मल्लिकादिभिः । पुष्पैर्नानाविधैश्चैव पूजयामि सुरेश्वर ! ।। १५१
दशाङ्गसंज्ञिातं धूपं सुगन्धं च मनोहरम् । गृहाण देवदेवेश! मया भक्तया समर्पितम् ।। १५२
आरात्रिकां सुरश्रेष्ठ ! वर्त्या गोघृतसिक्तया । संयुक्तां तेजसा कृष्ण ! गृहाण सुरपूजित ! ।। १५३
अन्नं च पायसं भक्ष्यं सितालेह्यसमन्वितम् । दधिक्षीरघृतैर्युक्तं गृहाण सुरवल्लभ ! ।। १५४
नागवल्लीदलैर्युक्तं पूगीफलसमन्वितम् । कर्पूरखदिरोपेतं ताम्बूलं प्रतिगृह्यताम् ।। १५५
बीजपूराम्रपनसखर्जूरीकदलीफलम् । नालिकेरफलं दिव्यं गृहाण भगवन्निदम् ।। १५६
न्यूनातिरिक्तपूजायाः सम्पूर्णफलहेतवे दक्षिणां काञ्चनीं देव !
स्थापयामि तवाग्रतः ।। १५७
नीराजनं गृहाणेश! पञ्चवर्तिसमन्वितम् ।
तेजोराशे! मया दत्तं लोकानन्दकर! प्रभो! ।। १५८
जय देव ! जय देव ! जय मङ्गलदाता २ लक्ष्मीवर ! राधावर ! २ शरणागतपाता ।
ध्रुवपदम्-
हर्तुं भारमवन्या जातो भुवि विष्णु २ र्दितिजानीकमनेकं २ जघनिथ सहजिष्णुः ।
भीष्मकतनयावरणे विधिसुरपतिमुख्यै २ रभिषिक्तोऽधिपतिस्त्वं २ नरपतिगणमुख्यैः जय देव० । १५९
पार्थप्रेमवशस्त्वं बहुधा पुरि तेषां २ न्यवसो ननु भवसि त्वं २ जीवनमपि तेषाम् ।
सौत्यं विदधद्विजयं प्रतिभटनृपसङ्घै २ र्दुर्जयमुज्झितशस्त्रोऽ २ प्यकरोः सुरसङ्घैः जय देव० । १६०
नूनं पाण्डवपत्न्या त्वयि कृतबहुदाने २ प्रेमा कार्मणविद्या २ निदधे त्विति जाने ।
निःस्पृहमुक्तपतिस्त्वं विवशो हि वनादिं २ ययिथ यया स्मृतमात्रो २ हित्वा कमलादिं जय देव० १६१
वात्स्यायनमुनिगीतं प्रथमं रसमखिलं २ गोपीषु च भामायां २ विदधिथ तं सफलम् ।
साकं देवकलत्रैर्निजललनासङ्घै २ केलिं चाम्बुधिवारिणि २ यदुसुरमुनिसङ्घै जय देव० ।। १६२
चञ्चद्रक्तकिरीटं नवजलदश्यामं २ मकराभश्रुतिभूषण २ मीषत्स्मितरामम्।
स्वर्णद्युति वसनं त्वां दधतं च नवीनं २ वन्दे हारिलकण्ठं २ दृशिमोदितदीनं जय देव० ।। १६३
अञ्जलिस्थानि पुष्पाणि चार्पयामि जगत्पते ! ।
गृहाण सुमुखो भूत्वा जगदानन्ददायक ! ।। १६४
नमस्ते देवदेवेश ! नमस्ते गरुडध्वज ! ।
नमोऽस्तु विष्णवे तुभ्यं व्रतस्य फलदायक ! ।। १६५
पद्भ्यां कराभ्यां जानुभ्यामुरसा शिरसा दृशा ।
वचसा मनसा चेति प्रणामोऽष्टाङ्ग ईरितः ।। १६६
बाहुभ्यां चैव जानुभ्यां शिरसा वचसा दृशा ।
पञ्चाङ्गोऽयं प्रणामः स्यात्पूजासु प्रवराविमौ ।। १६७
तत्राष्टाङ्गः प्रणामस्तु पुसांमेव हितो मतः ।
अन्य पुंसां तथा स्त्रीणां सर्वेषामपि सम्मतः ।। १६८
प्रणमेद्दक्षिणे भागे किञ्चद्दूरे तु दण्डवत् ।
कराभ्यां दक्षवामाभ्यां पादौ गृन् हरेः क्रमात् ।। १६९
गोविन्द ! माधव ! दयालय ! दीनबन्धो ! श्रीमन् ! मनोनयननन्दन दिव्यमूर्ते ! ।
दिव्येन्द्रनीलमणिकान्तिमनोहराङ्ग ! श्रीरुक्मिणीरमण ! मामव वासुदेव ! ।। १७०
कंसादिदुष्टदमन ! प्रणतैकबन्धो ! कामान्तकादिनुत ! शङ्खरथाङ्गपाणे ! ।
श्रीद्वारिकापुरपुरन्दर ! पूर्णकाम ! श्रीरुक्मिणीरमण ! मामव वासुदेव ! ।। १७१
आनन्दकन्द ! यदुनन्दन ! शारदीयपूर्णेन्दुबिम्बवदनाम्बुजमन्दहास ! ।
भूभारराजबलनाशन ! शेषबन्धो ! श्रीरुक्मिणीरमण ! मामव वासुदेव ! ।। १७२
भामानुरञ्जनसमाहृतपारिजात ! प्रद्युम्नतात ! पुरुहूतसभासदस्य ! ।
पट्टाङ्गनाद्विगुणिताष्टसहस्रकान्त ! श्रीरुक्मिणीरमण ! मामव वासुदेव ! ।। १७३
आत्मीयपाण्डवहिते रत ! जिष्णुसूत ! कृष्णामनोभिलषितप्रदकल्पवृक्ष ! ।
देवेन्द्रवन्घ ! गरुडध्वज ! शार्ङ्गपाणे ! श्रीरुक्मिणीरमण ! मामव वासुदेव ! ।। १७४
धर्माध्वसेतुरचनोद्यत ! नित्यदानैः सन्तर्पितद्विजवरौघ ! हरे ! मुरारे ! ।
श्रीनारदादिमुनिगीतपवित्रकीर्ते ! श्रीरुक्मिणीरमण ! मामव वासुदेव ! ।। १७५
कारुण्यसागर ! भवाम्बुधिपारदायिन् ! कल्याणकृत्पतितपावननामधेय ! ।
ब्रह्मण्यदेव ! नरदेवशिखामणे ! त्वं श्रीरुक्मिणीरमण ! मामव वासुदेव ! ।। १७६
संसारखिन्नशरणागतजीवरक्षानित्योघतोद्धवसमर्पितनैजबुद्धे ! ।
नानावतारपरिपालितसाधुलोक ! श्रीरुक्मिणीरमण ! मामव वासुदेव ! ।। १७७
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्यभावेन रक्ष रक्ष रमेश्वर ! ।। १७८
परमान्नमिदं दिव्यं कांस्यपात्रेण संयुतम् ।
वाणकं द्विजवर्याय सहिरण्यं ददाम्यहम् ।। १७९
इति सम्पूज्य सम्प्रार्थ्य दिवाशेषं नयेत्ततः ।
श्रीमन्नारायणकथाकीर्तनश्रवणादिभिः ।। १८०
न व्यावहारिकं कर्म कार्यमेकादशीदिने ।
औद्धवीयैर्नृभिः स्त्रीभिः किञ्चिदप्यापदं विना ।। १८१
कर्षुकैर्न कृषिः कार्या वणिग्भिः पणनं न च ।
न क्रयो विक्रयश्चापि कार्यः कस्यापि वस्तुनः ।। १८२
स्त्रीभिः शोको रोदनं न कार्यं सूत्रकर्तनम् ।
न वृथाभाषणं कार्यं नास्पृश्यस्पर्शनादि च ।। १८३
हर्यर्थमेव कर्तव्यमिदं त्वेकादशीदिनम् ।
मदाश्रितैः कृष्णभक्तैः पुम्भिः स्त्रीभिश्च सर्वथा ।। १८४
परतन्त्रो भवेद्यस्तु दरिद्रो दुर्बलोऽथवा ।
आवश्यकं स कुर्वीत व्यवहारं न चाधिकम् ।। १८५
दानं देयं यथाशक्ति द्विजाय प्रीतये प्रभोः ।
रात्रौ जागरणं कार्यं भगवत्कीर्तनादिभिः ।। १८६
विष्ण्वालयं जागरार्थं सन्मण्डलमथापि वा ।
गच्छतोऽस्त्यश्वमेधस्य फलं पुंसः पदे पदे ।। १८७
स्त्रीभिः स्त्रीष्वेव कर्तव्यः पुम्भिः पुंस्वेव जागरः ।
कथादिभिर्हरेरेव न तु द्यूतादिभिः क्वचित् ।। १८८
एकादशीदिने यस्तु भुञ्जीतान्नं कुसङ्गतः ।
चान्द्रायणेन शुद्धिः स्यात्तस्य पुंसो न चान्यथा ।। १८९
एकभक्तेन नक्तेन तथैवायाचितेन च । उपवासेन दानेन न निर्द्वादशिको भवेत् ।। १९०
नक्तं हविष्यान्नमनोदनं वा फलं तिलाः क्षीरमथाम्बु चाज्यम् ।
यत्पञ्चगव्यं यदि वापि वायुः प्रशस्तमत्रोत्तरमुत्तरं हि ।।१९१
प्रातः स्नत्वा पुनः पूजां नित्यनैमित्तिकार्चयोः ।
कुर्यात्तत्र यथाप्तेन सदन्नेन निवेदनम् ।। १९२
तन्त्रेण मूर्त्योरुभयोः समाप्य प्रातरर्चनम् । व्र
तं निवेदयेद्बक्तया हरये स्वकृतं व्रती ।। १९३
अज्ञानतिमिरान्धस्य व्रतेनानेन मे हरे ! ।
प्रसीद सुमुखो भुत्वा ज्ञानदृष्टिप्रदो भव ।। १९४
कृष्णमूर्तिं ततो दद्याद्ब्राह्मणाय सदक्षिणाम् ।
दानानि दद्याच्चान्यानि यथाशक्तयन्नमेव वा ।। १९५
भोजयित्वा ततो विप्रान् शक्तया साधूंश्च वैष्णवान् ।
हविष्णन्नेन कुर्वीत पारणां प्रयतो व्रती ।। १९६
दिवानिद्रां परान्नं च पुनर्भोजनमैथुने ।
द्वादश्यां वर्जयेत्तैलं कांस्यपात्रे च भोजनम् ।। १९७
पारणाहे तु लभ्येत स्वल्पापि द्वादशी यदि ।
तत्रैव पारणां कुर्यान्न तामुल्लङ्घयेद्व्रती ।। १९८
कलार्धां द्वादशीं दृा निशीथादूर्ध्वमेव हि ।
आमध्यात्क्रियाः सर्वाः कर्तव्याः शंभुशासनात् ।। १९९
यदा भवेदतीवाल्पा द्वादशी पारणादिने ।
उषःकाले द्वयं कार्यं प्रातर्मध्याह्नकर्म च ।। २००
सङ्कटे समनुप्राप्ते द्वादश्यां दैवयोगतः ।
अद्बिस्तु पारणां कुर्यात्पुनर्भुक्तं न दोषकृत् ।। २०१
द्वादश्याः प्रथमः पादो हरिवासरसंज्ञिातः ।
तमतिक्रम्य कुर्वीत पारणं विष्णुतत्परः ।। २०२
आभाकासितपक्षेषु मैत्रश्रवणरेवती ।
सङ्गमे नैव भोक्तव्यं द्वादश द्वादशीर्हरेत् ।। २०३
मैत्राद्यपादे स्वपितीह विष्णुः श्रुतेश्च मध्ये परिवर्तमेति ।
पौष्णान्त्यपादे प्रतिबोधमेति सुप्तिप्रबोधपरिवर्तनमेव वर्ज्यम् ।। २०४
एकादशीव्रतविधिस्तु मया यथावदुक्तो जनाः ! स्मृतिवचोन्वितवर्त्मनेत्थम् ।
सर्वैर्भवद्बिरयमादरतो विधेयोऽथोद्यापनं विधिवदस्य वदामि सम्यक् ।। २०५
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे प्रबोधन्युत्सवे एकादशीव्रतविधिनिरूपणनामा त्रयस्त्रिंशोऽध्यायः।।३३।।