अथ द्वात्रिंशोऽध्यायः

सुव्रत उवाच-


एकादश्यास्तु माहात्म्यमित्थं भगवतोदितम् । श्रुत्वाहृषञ्जनाः सर्वै धर्मनिष्ठास्तु निर्भरम् ।। १

तेषु ये प्रश्ननिपुणा जनास्तेऽथ प्रणम्य तम् । पप्रच्छुः स्वामिनं भक्तया बद्धाञ्जलिपुटा नृप ! ।। २


जना ऊचुः-

तिथिरेकादशी स्वामिंस्त्वया सर्वव्रताधिका । प्रोक्ता महाफला चात्र हेतुं नो वक्तुमर्हसि ।। ३


सुव्रत उवाच-

इति पृष्टो निजैर्भक्तैर्भक्तवत्सल ईशिता । तन्माहात्म्याधिक्यहेतुं वक्तुं समुपचक्रमे ।। ४


श्रीनारायणमुनिरुवाच-

माहात्म्यस्याधिकत्वं तु विष्णोः सम्बन्धतो नृणाम् ।
सर्वेषां जायते नूनमिति जानीत सुव्रताः ! ।। ५

साक्षाच्छ्रीवासुदेवस्य देहजत्वात्तथा वरात् ।
माहात्म्यमीदृशं तस्या यथा जातं तथा ब्रुवे ।। ६

आसीत्पुरा कृतयुगे नाडीजङ्घाभिधोऽसुरः ।
तस्य पुत्रो मुरो नाम्ना बभूवातिबलोद्धतः ।। ७

ब्रह्माणं तपसाराध्य दुष्करेण स दैत्यराट् ।
देवैः सर्वैरवध्यत्वं वरं लेभे निजेप्सितम् ।। ८

ततो मदोद्धतः सर्वान्स जित्वा दिक्पतीन् द्रुतम् ।
चक्ते स्वतेजसैवान्यानिन्द्रादीनेकराट्र स्वयम् ।। ९

ततः सुरगणाः सर्वे स्थानभ्रष्टा हतौजसः ।
भीता दैत्यपतेश्चेरुः कामरूपा महीतले ।। १०

कालेन कियता तेऽथ दुःखितास्त्रिदिवौकसः ।
ब्रह्मणं शरणं गत्वा स्वीयं दुःखं न्यवेदयन् ।। ११

अकल्पस्तत्प्रतीकारे सोऽपि तैः शङ्करेण च ।
साकं जगाम क्षीरोदं श्वेतद्वीपोऽस्ति यत्र तु ।। १२

तीरे पयोनिधेस्तस्य समाहितधियः सुराः ।
उपतस्थू रमाकान्तं निराहारा जितेन्द्रियाः ।। १३

एकपादस्थिताः सर्वे ह्यूर्ध्वलोचनबाहवः ।
चक्रुस्तीव्रं तपोऽव्यग्रास्तत्प्रसादमभीप्सवः ।। १४

तेषामत्युग्रतपसा सन्तुष्टः कमलापतिः ।
प्रादुर्बभूव वैकुण्ठात्तेषामग्रे महाद्युतिः ।। १५

तपस्यन्तः सुरास्तेऽथ महान्तं ददृशुस्तदा ।
अयुतार्कप्रतीकाशं तेजःपुञ्जमतर्कितम् ।। १६

तत्र श्रीवासुदेवं ते साक्षाद्विष्णुं जगत्पतिम् ।
ददृशू रमया साकं सेवितं पार्षदोत्तमैः ।। १७

चतुर्भुजं गदापद्मशङ्खचक्रविभूषितम् ।
इन्द्रनीलमणिश्यामं पद्माक्षं सुस्मिताननम् ।। १८

ततस्तं परया भक्तया नत्वा स्तुत्वा प्रसाद्य च ।
सर्वं निवेदयामासुः कर्मदैत्यपतेस्तु तत् ।। १९

दृा देवगणान् क्लिष्टान्भगवान्करुणानिधिः ।
प्रदाय तेभ्यो ह्यभयं दैत्यं हन्तुं मनोऽकरोत् ।। २०

देवैः सहैव तस्याथ गत्वा चन्द्रवतीं पुरीम् ।
पाञ्चजन्यं हरिर्दध्मौ तेन त्रेसुः सुरारयः ।। २१

अमृष्यमाणस्तं नादं मुरः स युयुधे सुरैः ।
अशक्तास्तत्प्रहारं ते सोढुं दश दिशो ययुः ।। २२

भगवानपि चक्रेण युद्धं कुर्वन् स दारुणम् ।
हन्तुं शशाक न मुरं सहस्रं वत्सरा ययुः ।। २३

ततः श्रान्तो हरिः प्रायात्स्वकीयं बदरीवनम् ।
गुहां सिंहवती तत्र प्राप्य शिश्ये भयादिव ।। २४

इन्द्रियाणि दशैकं च स्वस्वरूपोन्नुखानि सः ।
विधाय स्वीचकाराशु योगनिद्रां क्षणं प्रभुः ।। २५

योजनानि द्वादशैव विस्तीर्णामेकनिर्गमाम् ।
तां गुहां पृष्ठलग्रोऽसौ मुरश्चाप्याययौ द्रुतम् ।। २६

तमागतं हरिर्दृा दुर्जयं दैत्यमुद्धतम् ।
चुक्रोध तस्मै विज्ञाय वरेणावध्यतां विधेः ।। २७

एकादशेन्द्रियभवात्तदानीं तस्य तेजसः ।
दिव्यप्रहरणैका स्त्री बभूवातितपस्विनी ।। २८

रूपसौभाग्यसम्पन्नां दृा तां स तु दानवः ।
मुग्धे ! मां वरयस्वेति प्रार्थयामास सादरम् ।। २९

तं कामविह्वलं देवी प्राह सा दैत्य ! मां युधि ।
जित्वा गृहाण यस्मान्मे व्रतं जेता भवेत्पतिः ।। ३०

ततस्तया स युयुधे शस्त्रैरस्त्रैश्च दानवः ।
क्रुद्धा चिच्छेद सा तस्य शिरः खङ्गेन दुर्मतेः ।। ३१

ततः प्रसन्नो भगवान्देवताश्चातिहर्षिताः ।
प्रशशंसुः पूजयन्तः पप्रच्छुश्चासि केति ताम् ।। ३२


देव्युवाच

अहमेकादशी स्वामिन् ! शक्तिरस्मि तव प्रभो ! ।
त्वत्तेजसः समुद्बूता तपोरूपात्तपस्विनी ।। ३३

ब्रह्माण्डे यानि पापानि लघूनि च गुरूणि च ।
दैत्याश्च येऽखिलास्तेषामस्मि संहारकारिणी ।। ३४

तां प्रसन्नः प्रभुः प्राह त्वदीयेऽद्य दिनेऽनघे ! ।
आनन्दोऽभूत् त्रिलोक्यां वै सा त्वं वरय मद्वरम् ।। ३५


एकादश्युवाच 

यदि तुष्टोऽसि मे देव ! यदि देयो वरो मतः ।
तर्हि मद्व्रतकर्तृणां सर्वं सिद्धयतु वाञ्छितम् ।। ३६

उपवासं तु यः कुर्यान्मदीये व्रतवासरे ।
सर्वपापविनिर्मुक्तो भुक्तिं मुक्तिं स चाप्रुयात् ।। ३७

एकभक्तेन नक्तेन तथैवायाचितेन वा ।
योऽशक्तोऽपि व्रतं कुर्यात्सोऽपि वाञ्छितमाप्नुयात् ।। ३८

त्रिषु लोकेषु भगवंश्चतुर्ष्वपि युगेषु च ।
द्वादशस्वपि मासेषु प्रवर्तेत व्रतं मम ।। ३९

चतुर्विशतिरूपिण्या मम स्वामी त्वमीश्वर ! ।
भूत्वानन्दय मां नित्यमित्यैतद्याचितं मम ।। ४०


श्रीभगवानुवाच-

भद्रे ! त्वया वरो मत्तो देवेशैरपि दुर्लभः ।
याचितोऽसौ तथाप्यद्य प्रसन्नोऽहं ददामि ते ।। ४१

अद्यप्रभृति ये केचित्करिष्यन्ति व्रतं तव ।
मत्पूजनोत्सवोपेतं ते प्राप्स्यन्त्येव वाञ्छितम् ।। ४२

व्रतकर्ता तु मोक्षार्थी मोक्षं प्राप्स्यति संसृतेः ।
सांसारिकसुखार्थी च कामान् सर्वान् हि लप्स्यते ।। ४३

सर्वान्कामानवाप्स्यन्ति त्वद्व्रतेन यतो नराः ।
भुक्तिदा मुक्तिदा चातः ख्याता लोके भविष्यसि ।। ४४

चतुर्विशतिसङ्खयाकैः स्वरूपैः केशवादिभिः ।
चतुर्विशतिरूपिण्या भविष्यामि पतिस्तव ।। ४५


श्रीनारायणमुनिरुवाच-

प्रभोः प्राप्तवरा सैवं सन्तुष्टैकादशी गता ।
भगवान्कारयामास व्रतं तस्यास्तदा निजान् ।। ४६

चक्रुस्तन्मुनयः सर्वे बदरीवनवासिनः ।
तत आरभ्य लोकेषु व्रतमेतत्प्रवर्तते ।। ४७

एकादश्यै वरं दत्त्वा व्रतं तस्याश्च भूतले ।
प्रवर्तयित्वा भगवान्स्वधाम परमं ययौ ।। ४८

एकादशी योगनिद्रा विष्णोर्लब्धवराऽथ सा ।
तदङ्गवासं लक्ष्मीवत्स्वस्याचीकमत ध्रुवम् ।। ४९

तं प्रसन्नं पुनः कर्तुं श्वेतद्वीपेऽमृतस्थले ।
तपःप्रिया तपो घोरं साऽकारोच्छतवत्सरान् ।। ५०

तस्या भक्तया च तपसा स प्रसन्नः पुनर्हरिः ।
तत्समीपमुपेत्याह वरं वरय मत्प्रिये ! ।। ५१


एकादश्युवाच-

यदि प्रसन्नो भवसि प्रभो ! मयि तदा निजे ।
एकस्मिन्नेव मामङ्गे वासय त्वं रमामिव ।। ५२


श्रीभगवानुवाच-

अधःकटया मदङ्गं तु गरुडेनात्मसात्कृतम् ।
वक्षो लक्ष्म्या च चक्राद्यैरायुधैर्बाहवोऽपि मे ।। ५३

श्रवसी कुण्डलाभ्यां च सरस्वत्या च मे मुखम् ।
किरीटेन शिरो रुद्धं नेत्रस्थानं तु ते ददे ।। ५४

अतिप्रियस्य हि स्थानं नेत्रमुक्तं मनीषिभिः ।
लक्ष्म्या अतिप्रियासि त्वमतो नेत्रे निवासये ।। ५५

अद्यास्त्याषाढमासस्य शुक्ला ह्येकादशी तिथिः ।
इत आरभ्य मन्नेत्रे मासांस्त्वं चतुरो वस ।। ५६

वार्षिकांश्चतुरो मासान्प्रतिवर्षं तपस्विनि ! ।
धारयित्वा स्वनयने स्वप्स्यामि क्षीरनीरधौ ।। ५७

त्वं हि जाता तपोरूपादैन्द्रियात्तेजसो मम ।
हन्तुं दैत्यं मुरं नाम्ना योगनिद्राऽसि सुन्दरि ! ।। ५८

अब्धौ शेषाहिशयने स्वीकृतायां मया त्वयि ।
तप एव करिष्यन्ति मद्बक्ता गृहिणोऽपि हि ।। ५९

मत्प्रीतये तपो योगं मत्पूजां वापि ये नराः ।
चातुर्मास्ये करिष्यन्ति सिद्धिः शीघ्रं भविष्यति ।। ६०

इति दत्त्वा वरं तस्यै वासुदेवोऽमृतोदधौ ।
नेत्रयोर्धारयित्वा तां शेषेऽशेतेव मञ्चके ।। ६१

त्यक्त्वेन्द्रियाणामाहारं तत्तद्विषयलक्षणम् ।
वृत्तीस्तेषां समनसां चकार स्वस्वरूपगाः ।। ६२

निराहारे भगवति योगनिद्रामुपेयुषि ।
निराहारा चकारास्य पादसंवाहनं रमा ।। ६३

तदा नन्दसुनन्दाद्याः पार्षदास्तस्य सर्वशः ।
क्षीराब्धेरुत्तरे तीरे निराहारास्तपोऽचरन् ।। ६४

तथा मुनिगणास्तत्र तन्मूर्त्यर्पितदृष्टयः ।
निर्निमेषमतप्यन्त निराहारा जितेन्द्रियाः ।। ६५

चातुर्मास्ये ततः सर्वैर्यथाशक्ति तपोजनाः ! ।
कर्तव्यं वासुदेवस्य सह लक्ष्म्या च पूजनम् ।। ६६

योगनिद्रां तपोरूपां हरावित्थं तु बिभ्रति ।
खिद्यन्ते हृदि ते भक्ताः क्षीराब्धितटवासिनः ।। ६७

नोग्रेणाप्यात्मतपसा तेषां खेदोऽभवत्क्वचित् ।
कष्टं तु स्वामिनो वीक्ष्य खिन्नास्ते भक्तभावतः ।। ६८

भुवि मङ्गलकृत्यानि चातुर्मास्ये बुधाः क्वचित् ।
गृहिणोऽपि न कुर्वन्ति कुर्वन्त्येव तपस्त्वतः ।। ६९

चातुर्मास्ये व्यतीतेऽथ कार्तिकैकादशीदिने ।
जागर्ति भगवांस्तर्हि जायते ह्युत्सवो महान् ।। ७०

आनन्दं परमं प्राप्य मुनयः पार्षदास्तथा ।
महेन्द्रमुख्या सगणाः देवाश्चार्चन्ति तं प्रभुम् ।। ७१

दिव्यैरनेकोपचारैर्वादयन्तः स्वदुन्दुभीन् ।
योगेश्वरं तमर्चन्ति लक्ष्म्या युक्तं सुरास्तदा ।। ७२

अत्यानन्दो भवत्येव ब्रह्माण्डेऽप्यखिले जनाः ! ।
एकादश्यामूर्जशुक्ले ततो ह्येषाऽधिका मता ।। ७३

एषा जन्मतिथिश्चास्ति साक्षाद्धर्मस्य मत्पितुः ।
आत्रेयमुनिशप्तस्य ततोऽपीष्टाऽस्ति नः खलु ।। ७४

योगेश्वरो वासुदेवः प्रातरस्यां सह श्रिया ।
पूज्यश्च भक्तया सहितो धर्मदेवो मदाश्रितैः ।। ७५

एकादश्यधिपश्चार्च्यो राधया सहितो जनाः ! ।
प्रदोषकाले भगवान् प्रीत्या दामोदराभिधः ।। ७६

उपवासो जागरश्च ब्रह्मचर्यादिभिर्यमैः ।
सहात्र कार्यो द्वादश्यां पुनश्चोत्तरपूजनम् ।। ७७

सन्तर्प्य भगवद्बक्तान्ब्राह्मणांश्चेष्टभोजनैः ।
सह स्वेष्टजनैः कार्या व्रतिभिः पारणा ततः ।। ७८

आरभ्यैकादशीं भक्ता ! दिनानां पञ्चकं सुराः ।
महोत्सवं प्रकुर्वन्ति क्षीराब्धौ मुनिभिः सह ।। ७९

दिनपञ्चक एतस्मिन्ग्रहदोषोऽपि नास्ति वै ।
ब्राह्मणानामपि ततो भवेदुद्वाहमङ्गलम् ।। ८०

प्रबोधन्युत्सवो ह्येष प्रतिवर्षं मदाश्रितैः ।
अवश्यमेव कर्तव्यः सर्वव्रतफलप्रदः ।। ८१

औद्धीवीये सम्प्रदाये सर्वाप्येकादशी तिथिः ।
उपोषितव्या पुरुषैर्नारीभिश्चात्मशुद्धये ।। ८२

एकादशीं वासुदेव आत्मीयामेव यत्तिथिम् ।
चकारातः सदोपोष्या शुक्ला कृष्णा च साखिलैः ।। ८३

यतिभिर्विधवास्त्रीभिस्त्वेषोपोष्या विशेषतः ।
अन्यथा ब्रह्महत्या स्यात्तेषां तासां दिने दिने ।। ८४

एकादशीनां सर्वासामशक्ता य उपोषणे ।
कुर्युस्ते फलनक्ताद्यैरनुकल्पैरपि व्रतम् ।। ८५

ईदृशाः पुरुषा ये स्युरशक्ता योषितोऽपि च ।
चातुर्मास्यैकादशिकास्तैरुपोष्याः प्रयत्नतः ।। ८६

तत्राप्यशक्तैः पुरुषैः फलमूलाशनं जनाः ! ।
विधाय तद्व्रतं कार्यं दानपूजासमन्वितम् ।। ८७

अपि तादृग्विधैः पुम्भिरुपोष्यास्तिस्र आदरात् ।
शयनी बोधनी चैव तृतीया परिवर्तिनी ।। ८८

तासामप्यधिका ह्येषा बोधन्यानन्ददायिनी ।
उपोष्यावश्यमखिलैः सकृद्विर्वाम्बुपायिभिः ।। ८९

एकेनाप्युपवासेन प्रबोधन्याः कृतेन वै ।
एकादशीनां सर्वासां निराहारफलं भवेत् ।। ९०

व्यावहारिकविक्षेपो न येषां धनिनश्च ये ।
महापूजा तु तैः कार्या सर्वास्वेकादशीष्वपि ।। ९१

श्रीकृष्णो निर्गुणो यस्तु सर्वकारणकारणम् ।
स मध्यकलशे पूज्यः सर्वतोभद्रमण्डले ।। ९२

पञ्चरात्रप्रसिद्धाभिः शक्तिभिः सह तस्य याः ।
मूर्तयः केशवाद्यास्ताः पूज्यास्तत्परिमण्डले ।। ९३

पञ्चामृतेन स्न्पनमभिषेको महांस्तथा । 
महानैवेद्यदानं च महा नीराजनं प्रभोः ।। ९४

एतत्सर्वं हि शास्त्रोक्तं कार्यमेकादशीदिने ।
सर्वत्र कर्तुं योऽशक्तः स चातुर्मास्य आचरेत् ।। ९५

तत्राप्यशक्तो बोधन्यां कुर्यादेव महोत्सवम् ।
वित्तशाठयं न कर्तव्यं धनिकैरत्र मामकैः ।। ९६

एकादशी तिथिः प्रेष्ठा वासुदेवस्य सद्धियः ! ।
ततस्तत्रोत्सवः कार्यो विशेषेण मदाश्रितैः ।। ९७

य एतां नैव मन्येत तिथिं स तु पुमाञ्जनाः ! ।
औद्धवीयाध्वनो बाह्यो भवतीत्यवगम्यताम् ।। ९८


सुव्रत उवाच-

एतन्निशम्यातिमुदं प्रपन्ना महामुनेस्तस्य वचो जनास्ते ।
विधिं व्रतस्यास्य बुभुत्सवस्तं पुनः स्म पृच्छन्ति हरिं नरेश ! ।।९९


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे प्रबोधन्युत्सवे एकादश्युत्पत्तितद्वरदानादिनिरूपणनामा द्वात्रिंशोऽध्यायः।।३२।।