सुव्रत उवाच-
अथो दशम्यां तरणौ गतेऽस्तं विधाय सान्ध्यं स विधिं विधिज्ञाः ।
महासभायामुपविष्ट उच्चे पीठे प्रसन्नास्य उवाच भक्तान् ।। १
श्रीनारायणमुनिरवाच-
शृण्वन्तु मुनयः सर्वे गृहिणश्च स्त्रियोऽखिलाः । हितं वदामि सर्वेषां गुरुत्वादहमादरात् ।। २
प्रबोधन्यभिधा श्वोऽस्ति तिथिरेकादशी जनाः ! । व्रंत तस्याः प्रकर्तव्यं सर्वैरेव मदाश्रितैः ।। ३
अस्माकमिष्टदेवो हि श्रीकृष्णः पुरुषोत्तमः । व्रतं तस्यैतदस्तीति सर्वैः कार्यं प्रयत्नतः ।। ४
न करोति हि यो मूढ एकादश्यामुपोषणम् । स नरो नरकं याति रौरवं तमसावृतम् ।। ५
यानि कानि च पापानि ब्रह्महत्यासमानि च । अन्नमाश्रित्य तिष्ठन्ति संप्राप्ते हरिवासरे ।। ६
तानि पापान्यवाप्रोति यो भुङ्क्ते हरिवासरे । मातृहा पितृहा चैव गुरुहा च स उच्यते ।। ७
एकादश्यां तु यो भुङ्क्ते पक्षयोरुभयोरपि । प्रतिग्रासं स वै भुङ्क्ते मलं पृथ्वीसमुद्बवम् ।। ८
निष्कृतिर्ब्रह्महत्यायाः शास्त्रे प्रोक्ता मनीषिभिः । एकादश्यन्नकामस्य निष्कृतिः क्वापि नोदिता ।। ९
इह पानेन मद्यस्य पातैव नरकं व्रजेत् । एकादश्यन्नकामस्तु पितृभिः सह मज्जति ।। १०
वैष्णवः पुरुषः स्त्री च कुर्यादेकादशीव्रतम् । यथा शुक्ला तथा कृष्णा विशेषो नात्र विद्यते ।। ११
अष्टवर्षाधिको मर्त्यो ह्यशीतिन्यूनवत्सरः । एकादशीमुपवसेत् पक्षयोरुभयोरपि ।। १२
ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः । एकादशीव्रतं कार्यं तैश्च स्त्रीभिश्च सर्वशः ।। १३
विधवा या भवेन्नारी भुञ्जीतैकादशीदिने । तस्यास्तु सुकृतं नश्येद् ब्रह्महत्या दिने दिने ।। १४
सम्प्राप्य वासरं विष्णोर्यो नरः संयतेन्द्रियः । उपवासपरो भूत्वा पूजयेन्मधुसूदनम् ।। १५
तत्कथाश्रुतिकीर्तिभ्यां रात्रौ कुर्याच्च जागरम् । स शोधयति पापानि शरदम्बुमलं यथा ।। १६
एकादशीसमुत्थेन वह्निना पातकेन्धनम् । भस्मतां याति सकलमपि जन्मशतोद्बवम् ।। १७
नेदृशं पावनं किञ्चिन्नराणामिह विद्यते । यादृशं पद्मनाभस्य दिनं पातकहानिदम् ।। १८
तावत् पापानि देहेऽस्मिंस्तिष्ठन्ति हि महान्त्यपि । यावन्नोपोष्यते मर्त्यैः पद्मनाभदिनं शुभम् ।। १९
कुरुक्षेत्रे तु यत्पुण्यं ग्रहणे चन्द्रसूर्ययोः । गोदानेन भवेत्तत्स्यादेकादश्यामुपोषणात् ।। २०
तपस्विनो गृहे नित्यं लक्षं यस्य च भुञ्जते । षष्टिवर्षसहस्राणि तस्य पुण्यं तु यद्बवेत् ।। २१
एकादशीव्रतेनैव तत्पुण्यं प्राप्नुयान्नरः । स्वधर्मदृढनिष्ठश्च वासुदेवपरायणः ।। २२
अश्वमेधसहस्राणि राजसूयशतानि च । एकादश्युपवासस्य कलां नार्हन्ति षोडशीम् ।। २३
एकादशेन्द्रियैः पापं यत्कृतं पूर्वजन्मसु । एकादश्युपवासेन तत्सर्वं विलयं व्रजेत् ।। २४
एकादश्या समं किञ्चत्पापत्राणं न विद्यते । व्याजेनापि कृता या तु न दर्शयति भास्करिम् ।। २५
स्वर्गमोक्षप्रदा ह्येषा शरीरारोग्यदायिनी । सुकलत्रप्रदा ह्येषा राज्यपुत्रप्रदायिनी ।। २६
न गङ्गा न गया वापि न काशी न च पुष्करम् । न चापि कौरवं क्षेत्रं न रेवा न च देविका ।। २७
यमुना चन्द्रभागा च तुल्या नैवानया यतः । अनायासेन व्रतिभिः प्राप्यतेऽस्याः परं पदम् ।। २८
रात्रौ जागरणोपेतं समुपोष्य हरेर्दिनम् । सर्वपापविनिर्मुक्तो विष्णुलोकं व्रजेन्नरः ।। २९
दशैव मातृके पक्षे तथैव दश पैतृके । प्रियाया दश चात्मानं पुरुषानुद्धरेत्स च ।। ३०
कल्पद्रुचिन्तामणिवन्नृणां वाञ्छितपूरणी । भवत्येकादशी तस्मात्तद्व्रतात्पूर्णकामता ।। ३१
एकादशीं प्रपन्ना ये नरास्ते हि वरोत्तमाः । द्विद्वन्द्वबाहवो भूत्वा नागारिकृतवाहनाः ।। ३२
स्रग्विणः पीतवस्त्राश्च प्रयान्ति हरिमन्दिरम् । प्राप्नुवन्ति पुनर्नैव संसृतिं च कदाचन ।। ३३
एष प्रभावो हि मया ह्येकादश्याः प्रकीर्तितः । पापेन्धनस्य सर्वस्य पावकाख्यो महीतले ।। ३४
माहात्म्यमेकादशिकाव्रतस्य शुष्कार्द्रपापक्षयकारि भक्ताः ।
प्रोक्तं मयैतध्हृदयेऽवधार्य तत्कार्यमेव स्वहिताय सर्वैः ।। ३५
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे प्रबोधन्युत्सवे एकादशीव्रतमाहात्म्यनिरूपणनामैकत्रिंशोऽध्यायः - ३१