त्रिंशोऽध्यायः

सुव्रत उवाच-


तं राजमानं सदसि नवम्यां च निशागमे ।
वासुदेवानन्दनामा पप्रच्छ वर्णिराडथ ।। १

कृष्णमन्त्रजपस्याहं कार्यस्य प्रत्यहं हरे ! ।
विधानं श्रोतुमिच्छामि कृतः सिद्धयेत्स येन वै ।। २


श्रीनारायणमुनिरुवाच-

कथयामि समासेन विधिं ते वर्णिसत्तम ! ।
मन्त्रराजजपस्याहं सच्छास्त्रप्रतिपादितम् ।। ३

स्नतः शुचिः स्वस्थचित्तः क्रोधचिन्ताविवर्जितः ।
सग्दुरुप्राप्तमन्त्रश्च जापकः पुरुषो मतः ।। ४

यतीनामासनं श्लक्ष्णं कूर्माकारमुदीरितम् ।
अन्येषां तु चतुष्पादं चतुरस्रं च सम्मतम् ।। ५

कार्ष्णाजिनं व्याघ्रचर्म कौशेयं वेत्रनिर्मितम् ।
वास्त्रं वा काम्बलं कौशमासनं जपसिद्धिदम् ।। ६

गोमयं मृन्मयं भिन्नं पालाशं पैप्पलं तथा ।
लोहबद्धं वंशजं च पाषाणं वर्ज्यमासनम् ।। ७

काष्ठं चाघटितं वर्ज्यं लोहकीलमयज्ञिायम् ।
स्यादापदि शुभं सर्वं विना ह्यशुचिलेपनम् ।। ८

तुलसीकाष्ठसम्भूता जपमाला शुभा मता ।
धात्रीकाष्ठभवा वापि पद्मबीजोद्बवा तथा ।। ९

तथा स्फटिकमाला च ग्राह्या रुद्राक्षमालिका ।
कुशग्रन्थिभवा वापि चन्दनादिमयी च वा ।। १०

सर्वापि माला श्रीविष्णुपादस्पर्शाच्छुचिर्भवेत् ।
जपोचिता च तस्मात्तां बिभृयात्तादृशीं पुमान् ।। ११

निश्चला त्रुटिता चैव सशब्दा च पुरातनी ।
ग्रथिता जीर्णसूत्रेण जपे माला विगर्हिता ।। १२

धृता पाषण्डिभिर्या तु पापिभिश्च दुरात्मभिः ।
असंस्कृता तथा माला ज्ञोया दुःस्वप्नदा नृणाम् ।। १३

अष्टोत्तरशतेनोक्ता मणिभिर्मालिकोत्तमा ।
मध्यमा स्यात्तदर्धेन तदर्धेन कनीयसी ।। १४

अकारादिक्षकारान्तान् वर्णान् सर्वान् क्रमेण वा ।
लिखित्वा स्थापयेदग्रे पङ्क्तयैव मणिकानिव ।। १५

एकैकमानुलोम्येन प्रातिलोम्येन च क्रमात् ।
पश्यन्वर्णजपं कुर्यादक्षमालेयमुच्यते ।। १६

आरभ्यानामिकामध्यात्प्रादक्षिण्येन च क्रमात् ।
तर्जनीमूलपर्यन्तं जपेत् सा करमालिका ।। १७

स्वस्तिकासनमासीनो मुक्तपद्मासनं तु वा ।
ऋजुरेकाग्रदृष्टिश्च भगवन्तं हृदि स्मरन् ।। १८

वस्त्रगोपितमालश्च मन्त्रमेकैकमुच्चरन् ।
त्यजन्नेकैकमणिकं जपेन्नियतसङ्खयया ।। १९

तर्जन्या न स्पृशेत्सूत्रं मध्यमामध्यपर्वणि ।
अङ्गुष्ठपर्वणा मालामणिमेकैकमाहरेत् ।। २०

न स्पृशेद्वामहस्तेन जपमालां कदाचन ।
न पातयेत्करात्तां च जपन्तावधि जापकः ।। २१

प्रमादात्पतितायां तु मालायां स्वस्य हस्ततः ।
तद्दोषशान्तये कुर्याज्जपमष्टोत्तरं शतम् ।। २२

मालां न स्पर्शयेद्बूमिं स्वस्य पादतलं तथा ।
जपं कुर्वन्न हस्तं च धूनयेन्न च मस्तकम् ।। २३

उष्णीषी कञ्चुकी नम्रो मुक्तकेशोमलावृतः ।
अपवित्रकरोऽशुद्धः प्रलपन्न जपेत्क्वचित् ।। २४

अप्रावृतकरश्चैव संवेष्टितशिरास्तथा ।
चिन्ताशोकाकुलमनाः क्रुद्धो भ्रान्तः क्षुधाकुलः ।। २५

अनासनः शयानश्च गच्छन्नुत्थित एव च ।
उपानत्पादुकारुढो यानशय्यागतस्तथा ।। २६

न जपेद्वैष्णवो मन्त्रं प्रौढपादश्च कर्हिचित् ।
प्रसार्य पादौ न जपेत्काकासनगतस्तथा ।। २७

प्रहसंस्त्वरमाणश्च नेक्षमाण इतस्ततः ।
करसंज्ञां नेत्रसंज्ञां कुर्वन्नैव जपेत्पुमान् ।। २८

रथ्यायामशिवस्थाने न जपेत्तिमिरान्तरे ।
दुर्गन्धिवातस्थाने च न पापिजनसन्निधौ ।। २९

निद्राख्योऽस्ति महान्विघ्नो जपे ह्यलसदुर्जयः ।
जयेत्तं सावधानोऽतो विफलोऽस्त्यन्यथा जपः ।। ३०

अङ्गुल्यग्रे तु यज्जप्तं यज्जप्तं मेरुलङ्घने ।
असङ्खयातं तु यज्जप्तं तत्सर्वं निष्फलं भवेत् ।। ३१

निषेधातिक्रमं नैव कुर्यादेष विनापदम् ।
मनो नियम्य मतिमान् जपं कुर्वीत सर्वथा ।। ३२

मनःसंयमनं शौचं मौनं मन्त्रार्थचिन्तनम् ।
अव्यग्रत्वमनिर्वेदो जपसंसिद्धिहेतवः ।। ३३

जपेच्च नियतो भक्तया त्रिकालं पुरुषोत्तमम् ।
बाह्यैर्वा मानसैर्द्रव्यैः पूजयित्वा स्थिरान्तरः ।। ३४

मार्जारमूषकस्पर्शे क्रोधेऽधोवायुसर्पणे ।
जपकाले तु सञ्जाते मालां वस्त्रोपरि न्यसेत् ।। ३५

आचम्य प्राणानायम्य दृा वाऽर्कं हरिं स्मरन् । शेषं कुर्याज्जपं स्त्रात्वा स्पर्शे त्वस्पृश्यवस्तुनः ।। ३६

त्रयो भेदा जपस्योक्ता वाचिकोपांशुमानसाः । कनीयोमध्यमोत्कृष्टास्तान् ज्ञात्वोत्तममाचरेत् ।। ३७

उदात्तनीचस्वरितैः शब्दैः स्पष्ट पदाक्षरैः । मन्त्रस्योच्चारणं यत्र स जपो वाचिको मतः ।। ३८

किञ्चिच्छ्रवणयोग्यं च मन्त्रस्योच्चारणं शनैः । यत्रेषच्चौष्ठचलनं स उपांशुर्जपो मतः ।। ३९

धिया यत्राक्षरश्रेणी स्वरवर्णपदात्मिका । उच्चार्येत च संस्मृत्या स जपो मानसो मतः ।। ४०

उच्चैर्जपादुपांशुः स्याद्विशिष्टो दशभिर्गुणैः । जिह्वाजपः शतगुणः सहस्रगुण आन्तरः ।। ४१

गृहे जपं समं प्राहुर्गोष्ठे दशगुणं तथा । गृहोद्याने शतगुणं सहस्रगुणकं वने ।। ४२

अयुतं पर्वते पुण्ये नद्यां लक्षगुणं तथा । देवालये कोटिगुणमनन्तं हरिसन्निधौ ।। ४३

इत्थं योषापि कुर्वीत नाममन्त्रजपं हरेः । सधवा विधवा वापि भक्ता भगवतोऽनघ! ।। ४४

अस्नतो मालया नैव जपं कुर्वीत कर्हिचित् । आपन्नो मानसं स्ननं कृत्वा कुर्याज्जपं पुमान् ।। ४५

स्ननादिनियमो नास्ति मानसे तु जपे नृणाम् । कीर्तने च हरेर्नाम्नां विना मालां कदाचन ।। ४६

मालामशुचिहस्तेन न स्पृशेन्न क्षिपेद्बुवि । स्त्रियं च स्पर्शयेन्नैव जपान्ते निदधीत खे ।। ४७

इत्थं जपन्ति नियतं हरिनाममन्त्रं ये मानवा भुवि सदौद्धववर्त्मसंस्थाः ।
ते यान्ति धाम परमं परमात्मनो वै गोलोकसंज्ञाममलं कमलाधवस्य ।। ४८


सुव्रत उवाच-

श्रुत्वा पुरातनमहामुनिनेत्थमुक्तं श्रीकृष्णमन्त्रजपनिर्णयमाप तुष्टिम्।
वर्णी स चान्यमुनिभिः सह भूमिपाल! प्रीतो ननाम च हरिं सकलार्थसिद्धिम् ।। ४९


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे प्रबोधन्युत्सवे श्रीनारायण-वासुदेवानन्दसंवादे श्रीकृष्णमन्त्रजपविधिनिरुपणनामा त्रिंशोऽध्यायः ।।३०।।