अथ एकोनत्रिंशोऽध्यायः

सुव्रत उवाच-


अथाष्टम्यां निशारम्भे कृतसन्ध्याविधिर्हरिः ।
नीराजनान्ते कृष्णस्य न्यषीदद्बक्तसंसदि ।। १

प्रणम्य तं मुनिश्रेष्ठो मुक्तानन्दो महामतिः ।
पप्रच्छ कुर्वन्सकलान् कृष्णभक्तानसंशयान् ।। २

स्वामिन् ! स्वरूपं कृष्णस्य बुभुत्साम्यहमञ्जसा ।
अस्माकमिष्टदेवस्य प्रतिपाद्यस्य चागमैः ।। ३

कथं स सगुणो ज्ञोयो निर्गुणश्च जगत्प्रभुः ।
साकारश्च निराकारः कर्ताऽकर्ता कथं च सः ।। ४

ब्रह्मधामस्थिताद्दिव्यात्स्वरूपान्मनुजाकृतिः ।
भिन्नो भवत्यभिन्नो वा तन्मे ब्रूहि दयानिधे ! ।। ५

एतेऽपि वैष्णवाः सर्वे जिज्ञासन्तीदमञ्जसा ।
शास्त्रानुभवसिद्धान्तमतस्त्वं वक्तुमर्हसि ।। ६


सुव्रत उवाच-

इति जिज्ञासुना तेन सम्पृष्टो भगवान् हरिः ।
उवाचानन्दयन्वाचा निजाश्रितजनान्नृप ! ।। ७


श्रीनारायणमुनिरुवाच-

श्रृणु वैष्णवसिद्धान्तं मुनेऽवश्यमुपासकैः । श्रो
तव्यं हृदि धार्यं च तत्त्वतः कथयामि ते ।। ८

श्रीकृष्णो यः परब्रह्म स्वयंज्योतिः परात्परः ।
ज्ञोयो नारायणो विष्णुर्भगवान् पुरुषोत्तमः ।। ९

महेश्वरो वासुदेवो भूमा च परमेश्वरः ।
आत्मात्मनां चेतनानां चेतनश्च श्रुतीरितः ।। १०

कालस्य प्रकृतेश्चापि नियन्ता पुरुषस्य च ।
प्रकाशकश्च सर्वेषां स्वतन्त्रो दिव्यविग्रहः ।। ११

धामाक्षरं तु यत्तस्य तद्ब्रह्मपुरमुच्यते ।
यस्यैकः सूक्ष्मदेशोऽपि कोटिकोटयर्कभासुरः ।। १२

यदुच्यते चिदाकाशं ध्रुवमाकाशवत्सदा ।
अनाद्यनन्तं चाखण्डं सच्चिदानन्दलक्षणम् ।। १३

नवीननीरदश्यामस्तत्र दिव्ये स्वधामनि ।
विभात्यतिश्वेतरुचिः सूर्यचन्द्राग्नितेजसः ।। १४

तस्यैकरोम्णस्तेजोऽपि समग्राक्षरतेजसः ।
अधिकत्वान्न तत्तेन तत्रस्थैरुपमीयते ।। १५

स प्रभुर्दिव्यवसनो दिव्यालङ्कारशोभनः ।
 राधारमादिभिः स्वाभिः शक्तिभिश्च निषेव्यते ।। १६

श्रीदामविष्वक्सेनाद्यैः पार्षदैर्दिव्यविग्रहैः ।
सेव्यमानश्च सच्छत्रचामरव्यजनादिभिः ।। १७

सुदर्शनादिभिः स्वास्त्रैर्मूर्तिमद्बिरुपासितः ।
ऐश्वर्याद्यैर्भगैः षड्भिः सिद्धिभिश्चाणिमादिभिः ।। १८

असङ्खयैश्च महामुक्तैर्दिव्यसुन्दरविग्रहैः ।
दिव्यैरनेकोपचारैः पूज्यमानपदाम्बुजः ।। १९

द्विभुजः स सदा स्वामी भक्तेभ्यो निजदर्शनम् ।
चतुर्भुजादिरूपेण दत्ते क्वापि तदिच्छया ।। २०

न प्राकृता गुणास्तस्मिन्सन्तीत्युक्तः स निर्गुणः ।
अप्राकृताकृतित्वाच्च निराकारः स कीर्त्यते ।। २१

स्वधर्मज्ञानवैराग्ययुजा भक्तया ह्यनन्यया ।
ये भजेयुस्त एवामुं तथाभूतं विचक्षते ।। २२

ज्ञानाद्यैरपि सम्पन्ना भक्तया हीनास्त्वनन्यया ।
ब्रह्मतेजः प्रपश्यन्ति न तु साक्षात्तमीश्वरम् ।। २३

तेजोमण्डलमध्यस्थं द्विभुजं दिव्यविग्रहम् ।
नेक्षन्तेऽर्कं यथा लोकाः साकारं तं तथैव ते ।। २४

ततो ब्रह्म निराकारमिति मन्यन्त एव ते ।
तावता न निराकारं कृष्णाख्यं हि परं बृहत् ।। २५

एकदेशस्थितस्यापि पूर्णत्वं तस्य तेजसा ।
सर्वत्रास्ति यथार्कस्य शृण्वत्र वचनं विधेः ।। २६

अहो भाग्यमहो भाग्यं नन्दगोपव्रजौकसाम् ।
यन्मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ।। २७

अनेकाण्डोद्बवाद्यर्थं निर्गुणः स यदा प्रभुः ।
मायागुणानुपादत्ते सगुणः प्रोच्यते तदा ।। २८

अनिरुद्धस्वरूपेण मायायास्तु रजोगुणम् ।
गृहीत्वा ब्रह्मसंज्ञाः सन् ब्रह्माण्डं सृजति प्रभुः ।। २९

त्रैलोक्यमौदरीकृत्य लये नैमित्तिके ह्यसौ ।
एकार्णवजले शेते काले सृजति तत्पुनः ।। ३०

स प्रद्युम्नस्वरूपेण वासुदेवोऽखिलं जगत् ।
सत्त्वं मायागुणं धृत्वा पाति विष्णुः प्रजापतिः ।। ३१

असौ विराजपुरुषः कथ्यते लोकपालकः ।
मुक्तिं चतुर्विधां दत्ते स्वभक्तेभ्यः सुरारिहा ।। ३२

सङ्कर्षणस्वरूपेण वासुदेवस्तमोगुणम् ।
अङ्गीकृत्यैव मायायाः शिवाख्यः संहरत्यदः ।। ३३

शेषरूपेण भूगोलं धत्ते सङ्कर्षणो ह्यसौ ।
मूर्तयो वासुदेवस्य षडेताः सगुणा मताः ।। ३४

कार्यार्थं मूर्तयोऽप्यासां सन्त्यन्याश्च सहस्रशः ।
एताः सर्वा गुणत्यागे प्रोच्यन्ते निर्गुणा अपि ।। ३५

दिव्याङ्गो निर्गुणो ह्येष देवक्यां वसुदेवतः ।
प्रादुर्बभूव कृष्णाख्यो भूतले मनुजाकृतिः ।। ३६

दिव्यमूर्तिनराकृत्योस्तस्य भेदो न किञ्चन ।
इति जानीहि सद्बुद्धे ! वैष्णवाचार्यनिश्चयम् ।। ३७

स दिव्यमूर्तिः सन्नेव नरनाटयं दधौ प्रभुः ।
तेनैव च स्वरूपेण सोऽभूद्दिव्याकृतिर्मुहुः ।। ३८

कथैषा विस्तृताऽस्त्येव पुराणेषु च भारते ।
तत्सारमात्रमाकृष्य कथयामि समासतः ।। ३९

स वासुदेवः प्रथमं सतां धर्मस्य गुप्तये ।
भूभारहरणार्थं च वसुदेवमनोऽविशत् ।। ४०

तद्वारा देवगकीगर्भो भूत्वा काले व्यजायत ।
प्राग्जन्मस्मृतये पित्रोर्विष्णुरूपः स एव च ।। ४१

पितृभ्यां कंसभीताभ्यां प्रार्थितोऽथाभवन्नरः ।
स जृम्भणे यशोदायै विश्वरूपमदर्शयत् ।। ४२

मृद्बक्षणे पुनस्तस्यै नराकृतिरपि स्वयम् ।
ब्रह्माण्डमखिलं व्यात्ते स्वमुखे समदर्शयत् ।। ४३

नराकृतिः स एवेशो दाम्नोलूखलबन्धने ।
अपरिच्छेद्यतां स्वस्य सर्वा गोपीरदर्शयत् ।। ४४

गोपवत्सापहरणे कृतेऽजेन नरोऽपि सन् ।
तत्तद्रूपः स्वयं भूत्वा स चिक्रीडैकवत्सरम् ।। ४५

वत्सवत्सपरूपान् स्वान्विष्णुरूपांस्ततोऽखिलान् ।
ब्रह्माणं दर्शयामास पुनरेकोऽभवन्नरः ।। ४६

कालीयदमनं कृत्वा विषोदेन मृतान् पशून् ।
गोपांश्च जीवयामास स दृष्टयामृतवर्षया ।। ४७

निशि दावानलं पीत्वा नराकृतिधरोऽपि सः ।
सर्वान् व्यमोचयत्तीरे कालिन्द्या व्रजवासिनः ।। ४८

पुनर्दावानलं पीत्वा गा ररक्ष स एव च ।
सप्ताहमेकहस्तेन दध्रे गोवर्धनं च सः ।। ४९

नन्दं च दर्शयामास वारुणे लोक उत्तमे ।
लोकपालैरर्च्यमानां निजमूर्तिं स एव च ।। ५०

पुनर्वैकुण्ठलोकेऽसौ सर्वान् गोपानदीदृशत् ।
छन्दोभिः स्तूयमानं स्वं नन्दादीन् रूपमद्बुतम् ।। ५१

सर्वासामपि गोपीनां परिपूर्णसुखाप्तये ।
तावद्रूपधरो भूत्वा स रेमे रासमण्डले ।। ५२

यमुनाया हृदेऽक्रूरं कंसमारणशङ्कितम् ।
स्वं रूपं दर्शयामास तद्बहिः स्यन्दने च सः ।। ५३

कंसरङ्गसभामध्ये सर्वेभ्योऽपि स्वदर्शनम् ।
पृथक् पृथक् यथायोग्यं तत्तद्रसमयं ददौ ।। ५४

स एव विष्णुरूपेण दृष्टो यवनभूभुजा ।
पलायमानो दृष्टश्च मुचुकुन्देन तादृशः ।। ५५

चिरान्मृतं गुरोः पुत्रमानिनाय यमालयात् ।
सोदरांश्चानिनायासौ मातुः प्रीत्यै रसातलात् ।। ५६

दुःशासनेन द्रौपद्याः कृष्टे वस्त्रे स्मृतस्तया ।
सद्यः श्रीशयनादेत्य तत्र वासांस्यपूरयत् ।। ५७

वने स्मृतश्च पाञ्चाल्या दुर्वासःशापसङ्कटे ।
तत्रैत्यात्त्वाऽथ शाकान्नं त्रिलोकीं सोऽप्यतर्पयत् ।। ५८

विश्वरूपोऽभवत्सोऽथ न्राकृतिः पार्थसारथिः ।
तार्क्ष्यारुढो ययौ स्वर्गं पारिजातजिहीर्षया ।। ५९

द्वार्वत्यां सकलस्त्रीणां प्रीतये तावदाकृतिः ।
वसन्प्रतिगृहं प्रादान्नारदाय स्वदर्शनम् ।। ६०

आनेतुं विप्रतनयान्रथस्थः सार्जुनो ययौ ।
स ब्रह्मधाम स्वस्यैव प्राकृतात्तमसः परम् ।। ६१

तपः कुर्वन्स पुत्रार्थं हिमाद्रौ वैष्णवाग्निना ।
स्थावराञ्जङ्गमान्दग्ध्वा पुनस्तांश्चाप्यजीवयत् ।। ६२

बहुलाश्वनृपावासे श्रुतदेवगृहे च सः ।
मिथिलायां द्विधाऽवात्सीत् न्राकृतिऋषिभिः सह ।। ६३

उभयत्र ब्रह्मवादं कुर्वन्नानन्दयन्निजौ ।
भक्तौ राजर्षिब्रह्मर्षी मासमेकमुवास सः ।। ६४

तथाऽसौ भगवान्कृष्णो देवमानुषदुःखदान् ।
देवैरवध्यानसुरान् जघानामानवक्रियः ।। ६५

पूतनां च तृणावर्तं शकटं वत्सकं बकम् ।
अघं वृषं केशिनं च गजमल्लोग्रसेनजान् ।। ६६

अन्यांश्च सद्द्रुहो दैत्यान्निर्दयान् नृपरूपिणः ।
बहून्सेतुभिदो हत्वा भुवि धर्ममतिष्ठिपत् ।। ६७

एवंविधान्यनेकानि चरित्राण्यस्य सन्ति वै ।
मानुषत्वेऽपि दिव्यानि तानीत्येव विदुर्बुधाः ।। ६८

तस्माद्दिव्याकृतिः कृष्णोः न्राकृतिश्चैक एव सः ।
भेदं य उभयोर्विद्युस्ते त्वज्ञानिन ईरिताः ।। ६९

अनेकरूपिणोऽप्यस्य ये जानन्त्येकरूपताम् ।
मानुष्येऽप्यस्य दिव्यत्वं ते ज्ञोया ज्ञानिनो नराः ।। ७०

यथा यो बलिना राज्ञा वामनो भगवान् पुरा ।
दृष्टः स एव वैराजो वामनश्च पुनः स वै ।। ७१

एक एव यथा विष्णुरजितोऽमृतमन्थने ।
चतुर्मूर्तिधरश्चक्रे क्रिया दिव्याः पृथक् पृथक् ।। ७२

तत्राजितो ममन्थाब्धिं कूर्मो दध्रे च मन्दरम् ।
धन्वन्तरिः सुधां निन्ये व्यभजत्तां च मोहिनी ।। ७३ 

विप्राकृत्तिर्यथा वाग्रिः खाण्डवस्य दिधक्षया ।
कृष्णौ सम्प्रार्थयामास तुन्दरुक् श्मश्रुपिङ्गलः ।। ७४

तदाज्ञाया स एवाभूज्ज्वालामाली च तद्वनम् ।
दग्ध्वा सजीवमखिलं विप्रोऽभूत्पूर्ववत्पुनः ।। ७५

नराकृतिस्तथा कृष्णो ज्ञातव्यो दिव्यविग्रहः ।
दिव्यविग्रह एवासौ नरनाटयधरश्च वै ।। ७६

जन्मकर्माणि दिव्यानि ज्ञातव्यानि ततोऽस्य च ।
अभेद एव च सदा दिव्यमानुषरूपयोः ।। ७७

वासुदेवोऽयमेवास्ति भगवाञ्जगतः प्रभुः ।
स्वातन्त्र्येण करोत्यस्य भवस्थित्यप्ययान् यतः ।। ७८

कालकर्मस्वभावानां मायायाश्चैष आदितः ।
कर्तास्तीत्युच्यतेऽनादिरादिकर्तेश्वरेश्वरः ।। ७९

कालादिशक्तिभिः स्वाभिर्विश्वसर्गादि कारयन् ।
अकर्ता निष्क्रियश्चेति प्रोक्तः सम्राडिवैष च ।। ८०

स्वातन्त्र्येणैव हेतुत्वं कालादीनामतः क्वचित् ।
उत्पादनादौ जगतो मन्तव्यं नैव कर्हिचित् ।। ८१

विनापि कालमायादीन्स्वतन्त्रो भगवान्स्वयम् ।
ब्रह्माण्डकोटिसर्गादौ समर्थोऽस्ति प्रभुत्वतः ।। ८२

ईदृक्सामर्थ्यवानेव न्राकृतावपि स प्रभुः ।
भवतीत्यस्य दिव्यत्वं नृत्वं चैक्येन वर्णितम् ।। ८३

कृष्णस्यैतादृशस्यापि जन्म कर्म च विग्रहम् ।
प्राकृतं रूपभेदं च ये वदन्त्यसुरा हि ते ।। ८४

साधुधर्मसुरद्रोहिदुष्टदैत्यवधादिषु ।
दोषानेव प्रपश्यन्ति कृष्णलीलासु ते किल ।। ८५

अभ्यसूयन्ति भक्तेभ्यो वर्णयद्भ्यो गुणान्प्रभोः ।
यथार्थानपि ते मन्दाः स्तुवन्त्यन्यांस्तु सद्द्रुहः ।। ८६

सतां गुणेषु दोषेक्षा वैरं चाथासतां नृणाम् ।
दोषेषु गुणधीर्मैत्रीत्यसुराणां स्वभावतः ।। ८७

पुराणादिप्रसिद्धा च भवत्याख्यायिकात्र ताम् ।
दुष्टासुरस्वभावस्य बुद्धयै वच्मि समासतः ।। ८८

शिशुपालो राजसूये धर्मराजस्य संसदि ।
दोषान्कृष्णगुणेष्वाह भीष्मोक्तेष्वखिलेष्वपि ।। ८९

बालग्रहस्य राक्षस्याः पूतनाया वधे स तु ।
स्त्रीहत्यादोषमवदन्नतु बालावनं गुणम् ।। ९०

अजीवकाष्ठभङ्गं च शकटासुरनाशने ।
चापल्यदोषं स प्राह श्रीकृष्णचरितेऽसुरः ।। ९१

नाशेऽघस्य बकस्याऽह हत्यां सोऽहिपतत्रिणोः ।
नाशे वत्सारिष्टयोश्च गोहत्यादोषमाह च ।। ९२

वल्मीकोत्खातदोषं च गोवर्धनगिरेर्धृतौ ।
कालीयमर्दनं दावानलपानं च मायिकम् ।। ९३

कामदर्पहृतौ रासे गोपीभिर्बहुरूपिणा ।
ऊर्ध्ववीर्येण कृष्णेन पारदार्यं कृतेऽवदत् ।। ९४

अन्नदस्य गुरोर्हत्यां दुष्टकंसविनाशने ।
राजहत्यां च तां प्राह ब्रह्महत्याधिकां खलः ।। ९५

सैन्यैः सप्तदशकृत्वः स्वजिघांसोर्यदुद्रुहः ।
जरासन्धस्याऽह नाशे स छलाद्धर्मिघातनम् ।। ९६

इत्याद्यसूयावाक्यानि कृष्णलीलासु सोऽवदत् ।
जगन्मङ्गलरुपासु धर्मस्थापनहेतुषु ।। ९७

नैष्ठिकव्रतिनं भीष्मं प्रशंसन्तं गुणान् प्रभोः ।
स षण्ढं बन्दिधर्माणमपुत्राघं तथावदत् ।। ९८

कृष्णार्चकं धर्मनिष्ठमपि भूपं युधिष्ठिरम् ।
स तु धर्मभ्रष्टमाह चाबुद्धिं पशुधर्मिणम् ।। ९९

ये तु कामक्रोधलोभाध्यधर्मान्वयमास्थिताः ।
भूभाराः कृष्णतद्बक्तद्रोग्धारः पापबुद्धयः ।। १००

रुक्मिसाल्वैकलव्याद्या नृपा दैत्यांशसम्भवाः ।
तांस्त्वग्रपूज्यानेवाऽह महायज्ञो स तत्र च ।। १०१

दयाक्षमासत्यशौचधर्मज्ञानादिभिस्तथा ।
धर्मवंश्यैरनेकैश्च गुणैः कल्याणकारिभिः ।। १०२

युक्तं कृष्णं नराकारं परं ब्रह्म तु सोऽसुरः ।
 अपूज्यं भषकध्वांक्षतुल्यं च प्राह दुर्मतिः ।। १०३

इत्थं स चैद्यः कृष्णस्य तद्बक्तानां गुणेष्वपि ।
दोषानेव हि जग्राह नत्वेकमपि सग्दुणम् ।। १०४

अन्येऽपि तद्धियो ये ते तदुक्तं मेनिरे ऋतम् ।
साम्प्रतं तादृशा ये स्युस्ते ज्ञोया ह्यसुरास्ततः ।। १०५

ईदृशाः पुरुषा ये च नार्यो वा दुष्टचेतसः ।
कृष्णलीलासु मुह्यन्ति त एव भुवि नेतरे ।। १०६

अज्ञात्वं पारवश्यत्वं विधिभेदादिकं तथा ।
तथा प्राकृतदेहत्वं देहत्यागादिकं तथा ।। १०७

असुराणां विमोहाय दोषा विष्णोर्नहि क्वचित् ।
इति ब्रह्मपुराणे तु तन्मोहः स्पष्टमीरितः ।। १०८

अभक्तानां हि मोहः स्यादासुर्या दुष्टया धिया ।
भक्तानां नेति भगवान् गीतायां प्राह सोऽर्जुनम् ।। १०९

जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः ।
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जन ! ।। ११०

अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।
परं भावमजानन्तो मम भूतमहेश्वरम् ।। १११

मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।
राक्षसीमासुरीं चैव प्रकुतिं मोहिनीं श्रिताः ।। ११२

तानहं द्विषतः क्रूरान्संसारेषु नराधमान् ।
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ।। ११३

आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।
मामप्राप्यैव कौन्तेय ! ततो यान्त्यधमां गतिम् ।। ११४

महात्मानस्तु मां पार्थ ! दैवीं प्रकृतिमाश्रिताः ।
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ।। ११५

इत्यादि बहुशो वाक्यैरिदमेव स ऊचिवान् ।
त्यक्त्वाऽतः प्राकृतधियं तस्मिन्सेव्यः स सर्वथा ।। ११६

यथा चिन्तामणिर्लोके कल्पवृक्षश्च कामधुक् ।
सेवितोऽसौ तथा कृष्णः सर्वाभीष्टफलप्रदः ।। ११७

यत्र क्वापि वसेद्बूमौ तत्र त्वप्रार्थितोऽप्यसौ ।
स्वप्रतापेन कुरुते धनं धर्मं यशः सुखम् ।। ११८

नित्यं सन्निहितोऽस्त्येव सोऽधुना द्वारिकापुरि ।
भक्तैरेकान्तिकैरेव दृश्यते हि क्वचित् क्वचित् ११९

या देहत्यागलीलाऽस्य सा त्वस्त्यसुरमोहिनी ।
न त्वत्र मोहो भक्तानां दृष्टान्तोऽत्र निगद्यते ।। १२०

काश्चिद्याति यथा स्वर्गमैन्द्रजालिकविन्नटः ।
पत्नीं राज्ञोऽर्पयित्वा स्वां युध्यते तत्र चासुरैः ।। १२१

विच्छिन्नसर्वावयवः पुनः पतति स क्षितौ ।
ततस्तत्स्त्री रुदन्त्यग्नौ तदङ्गैः सह दह्यते ।। १२२

पूर्ववद्बद्धशस्त्रोऽथ नट एत्य निजां स्त्रियम् ।
नृपं याचति साक्रोशं जनयञ्जनविस्मयम् ।। १२३

नटविद्याविदो ये स्युस्ते तु मुह्यन्ति नात्र वै ।
अन्ये तु सर्वे भूपाद्या मुह्यन्त्येवाज्ञाभावतः ।। १२४

तथैवात्रापि कृष्णस्य देहत्यागोऽथ तद्वपुः ।
गृहीत्वाग्निप्रवेशोऽपि रुक्मिण्यादेश्च मायिकः ।। १२५

एवं भगवता तेन तिरोधाने निजेच्छया ।
कृतेऽप्यज्ञा विमुह्यन्ति तन्मायावेदिनो न तु ।। १२६

असुराणां मोहनार्थं लीलां भगवता कृताम् ।
एतां विदन्तो भक्तास्तं पश्यन्तीह यथा पुरा ।। १२७

स एष भगवान्कृष्णः पुम्भिः स्त्रीभिश्च निर्गुणः ।
ब्रह्मचर्यादिनियमान्पालयद्बिरुपास्यताम् ।। १२८

उपासकानां तस्यापि तत्सम्बन्धवशान्मुने ! ।
निर्गुणत्वं भवत्येव तज्ज्ञानादेश्च सर्वथा ।। १२९

श्रीमद्बागवते ह्येतद्बक्तमेकान्तिकं निजम् ।
उद्धवं भगवानाह स्वमुखेनैव तच्छृणु ।। १३०

कैवल्यं सात्विकं ज्ञानं रजो वैकल्पिकं तु यत् ।
प्राकृतं तामसं ज्ञानं मन्निष्ठं निर्गुणं स्मृतम् ।। १३१

वनं तु सात्विको वासो ग्रामो राजस उच्यते ।
तामसं द्यूतसदनं मन्निकेतं तु निर्गुणम् ।। १३२

सात्विकः कारकोऽसङ्गी रागान्धो राजसः स्मृतः ।
तामसः स्मृतिविभ्रष्टो निर्गुणो मदुपाश्रयः ।। १३३

सात्त्विक्याध्यात्मिकी श्रद्धा कर्मश्रद्धा तु राजसी ।
तामस्यधर्मे या श्रद्धा मत्सेवायां तु निर्गुणा ।। १३४

पथ्यं पूतमनायस्तमाहार्यं सात्विकं स्मृतम् ।
राजसं चेन्द्रियप्रेष्ठं तामसं चार्तिदाशुचि ।। १३५

सात्त्विकं सुखमात्मोत्थं विषयोत्थं तु राजसम् ।
तामसं मोहदैन्योत्थं निर्गुणं मदुपाश्रयम् ।। १३६

इत्येवं भगवद्वाक्यप्रामण्यान्मामकैर्जनैः ।
सगुणत्वं निर्गुणत्वमित्थं ज्ञोयं न चान्यथा ।। १३७

इत्युक्तं वासुदेवस्य स्वरूपं ते सुनिश्चितम् ।
ऐक्यं च दिव्यमनुजाकारयोरपि सन्मते ! ।। १३८

एतच्छुतेर्विलीयन्ते कुतर्काः संसृतिप्रदाः ।
देशकालानुसारासु कृष्णलीलासु ये नृणाम् ।। १३९

निरीशशास्त्रश्रुतिजं विश्वोत्पत्तिलयादिषु ।
स्वतन्त्रहेतुताज्ञानं कालादेश्च निवर्तते ।। १४०

एतदेवाभ्यसेन्नित्यं मुमुक्षुर्भक्तिवृद्धये ।
सम्यक्स्वरूपज्ञानार्थं श्रीकृष्णस्य च सत्पतेः ।। १४१

अधीयते ज्ञानमेतत्सकृदप्यादराच्च ये ।
भगवद्विषयास्तेषां सर्वे नश्यन्ति संशयाः ।। १४२

दिव्यं कृष्णस्य रूपं भवति च सततं तस्य लोकोऽपि दिव्यो ।
दिव्या भोगाश्च भोग्यान्यपि च भगवतस्तस्य दिव्यानि सन्ति ।।
दिव्या वै पार्षदाश्च प्रकटितनृतनोः शक्तयस्तस्य दिव्या दिव्या ।
भक्ताश्च सर्वे जगति यदुपतेः सन्ति दिव्याः क्रियाश्च ।।१४३

इत्थं निर्दोषरूपं सकलगुणगणालंकृतं दिव्यमूर्ति ज्ञात्वा ।
श्रीवासुदेवं भजत भुवि सदा मुक्तये भो मदीयाः ! ।।
एकस्मिन्नद्वितीये भगवति च परब्रह्मणि द्वैतबुद्धिः कर्तव्या ।
नैव तस्मिन्नणुरपि च कुधीः सच्चिदानन्दरूपे ।।१४४


सुव्रत उवाच-

इति श्रुत्वाऽकृत्योर्हरिगदितमद्वैतमृषिराड् रमाभर्तुः सोऽभूत्सह सकलभक्तैः प्रमुदितः ।
नराकारे तस्मिन्भगवति हि नारायणमुनौ दृढं दिव्यं भावं सपदि नृपते ! प्रापदमलम् ।। १४५

स्वरूपाद्वैतं यः पठति च शृणोतीह विमलं परं ज्ञानं नारायणमुनिमुखान्निःसृतमिदम् ।
प्रभौ तस्मिन् भक्तिं परमसुखरूपे स परमां सभुक्तिं मुक्तिं चेप्सितमखिलसौख्यं च लभते ।। १४६

इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे प्रबोधन्युत्सवे श्रीनारायण-मुक्तानन्दसंवादे श्रीकृष्णस्वरूपाद्वैतज्ञाननिरूपणनामैकोनत्रिंशोऽध्यायः ।।२९।।