अथ अष्टाविंशोऽध्यायः

सुव्रत उवाच-


सप्तम्यामथ संसत्स्थं नारायणमुनिं निशि ।
गोपालानन्द ऋषिराट् पप्रच्छ प्राञ्जलिर्नृप ! ।। १

साधूनामिह सर्वेषां त्यागिनां त्वामुपेयुषाम् ।
बुभुत्सात्म्याह्निकविधिमनुष्ठेयं महाप्रभो ! ।। २ 


श्रीनारायणमुनिरुवाच-

सङ्क्षेपतो मुने ! वच्मि त्यागिनामाह्निकं विधिम् ।
अनुष्ठेयमवश्यं हि शृणु त्वं मदुपाश्रितैः ।। ३

रजन्या अन्तिमे यामे मुहूर्ते ब्राह्मसंज्ञाके ।
उत्थायाऽशु स्वेष्टदेवं त्यागी भक्तो विचिन्तयेत् ।। ४

नामसङ्कीर्तनं कुर्याच्छ्रीकृष्णस्य ततो मुनिः ।
प्रणम्य वैष्णवान् गच्छेत्सोदपात्रः पुराद्बहिः ।। ५

मलोत्सर्गविधिं कृत्वा विजनेऽथ जलाशयम् ।
उपेत्य करपादादिशुद्धिं कुर्यान्मृदम्बुभिः ।। ६

न तिष्ठन्नाप्सु नो विप्रगोवन्ह्यर्केन्दुसन्मुखः ।
न फालकृष्टभूभागे न मार्गे न नदीतटे ।। ७

गवां मध्ये धान्यमध्ये जीर्णदेवालये क्वचित् ।
विण्मूत्रे ष्ठीवनं नैव कुर्यात्स्त्रीसन्मुखस्तथा ।। ८

सजन्तुर्मृत्तिका नैव ग्राह्या शौचविधौ क्वचित् ।
अशुचिस्थानगा चैव शौचशिष्टा च नाकुजा ।। ९

एका लिङ्गे गुदे तिस्त्रो दश वामकरे मृदः ।
दोष्णोर्द्वयोः सप्त देयास्तिस्रस्तिस्रश्च पादयोः ।। १०

यथालब्धेन काष्ठेन दन्तधावनमाचरेत् ।
न तु त्यागी स्वयं छिन्द्यादार्द्रकाष्ठं द्रुमात्क्वचित् ।। ११

व्रतोपवासदिवसे न कार्यं दन्तधावनम् ।
काष्ठेनापां तु गण्डूषैस्तदा द्वादशभिर्मतम् ।। १२ 

नद्यां तडागे कूपे वा ततः स्ननं समाचरेत् ।
उष्णोदकेनापदि तु मानसं वा तदाचरेत् ।। १३

ध्यात्वा हरिं स्वहृदये तन्नामोच्चारपूर्वकम् ।
मनसा कल्पितैस्तोयैर्यत्स्ननं तत्तु मानसम् ।। १४

स्ननकाले स्मरेग्दङ्गां विष्णुपादोदकीं शिवाम् ।
भगीरथतपः सिद्धिं महापातकनाशनीम् ।। १५

वसीत धौतं कौपीनं बहिर्वासश्च तादृशम् ।
धौतवस्त्रान्तराभावे त्वार्द्रवासाश्चरेद्विधिम् ।। १६

उदङ्मुखः प्राङ्मुखो वा निषीदेदासने शुचौ ।
एकोपवेशनार्हे च कौशाद्यान्यतमे मुनिः ।। १७

नारायणं वासुदेवं विष्णुं चेति क्रमात् स्मरन् ।
कुर्यादाचमनं त्यागी गालितेन त्रिरम्भसा ।। १८

नारायणार्चावशिष्टचन्दनेन सचन्द्रकम् ।
ऊर्ध्वपुण्ड्रं प्रकुर्वीत स गोपीचन्दनेन वा ।। १९

ललाटे हृदये नित्यं कार्यं पुण्ड्रं च दोर्द्वये ।
 श्रीराधार्चाशिष्टवरचन्द्रको वा तदन्तरे ।। २०

वासुदेवं स्मरेद्बाले हृदि सङ्कर्षणं तथा ।
प्रद्युम्नमनिरुद्धं च दक्षे वामे च दोषणि ।। २१

आचम्याथ यथापूर्वं नामभिर्वैष्णवैस्त्रिभिः ।
साधुस्त्रैवर्णिको भक्तया गायत्रीं वैष्णवीं जपेत् ।। २२

अस्य श्रीविष्णुगायत्रीमन्त्रस्यर्षिस्तु नारदः ।
गायत्रीछन्द उदितं श्रीविष्णुर्देवता तथा ।। २३

ज्ञानं बीजं मतं ध्यानं शक्तिराज्ञा च कीलकम् ।
श्रीविष्णुदेवप्रीत्यर्थे विनियोगो जपे मतः ।। २४

शीर्षास्यवक्षोनाभ्यङ्घ्रिसर्वाङ्गेषु क्रमान्न्यसन् ।
नारदर्षिमुखान् कुर्यात् न्यासानृष्यादिकांस्ततः ।। २५

विभक्तयन्तैर्मन्त्रपदैः करन्यासान् समाचरेत् ।
तत्र तन्नो विष्णुरिति ज्ञोयमेकं पदं मुने ! ।। २६

हृदयादीनेवमेव न्यासान् कुर्यात्ततः स च ।
लक्ष्मीरूपां हृदि ध्यायेग्दायत्रीं वैष्णवीं मुनिः ।। २७

श्रीविष्णुवामपार्श्वस्थां सर्वकालमनुव्रताम् ।
कोटिशारदपूर्णेन्दुप्रभैकैकाङ्गसुन्दराम् ।। २८

कौसुम्भवसनां गौरीं नानालङ्कारशोभनाम् ।
शान्तां सहासवदनां महापुरुषलक्षणाम् ।। २९

कमलं दक्षिणे पाणौ वामेऽमृतघटं करे ।
दधतीं देवदेवीभिर्वन्दितां पूजितां मुहुः ।। ३०

मुक्तिमेकान्तिकीं तूर्णे भक्तेभ्यो ददतीं श्रियम् ।
ध्यायामि हृदये नित्यं गायत्रीं वैष्णवीमहम् ।। ३१

इति ध्यात्वा यथाशक्ति तत्त्ववर्णां जपेत्स ताम् ।
निवेदयेद्बगवते यथासङ्खयं जपं ततः ।। ३२

सहस्रपरमां देवीं शतमध्यां दशावराम् ।
गायत्रीं तां जपेन्नित्यं स्वावकाशानुसारतः ।। ३३

स्वेष्टदेवं ततो भक्तः श्रीकृष्णं स प्रबोधयेत् ।
मन्त्रेणानेन सप्रेम कुर्वाणस्तालिकाध्वनिम् ।। ३४

उत्तिष्ठोत्तिष्ठ गोविन्द ! उत्तिष्ठ गरुडध्वज ! ।
उत्तिष्ठ कमलाकान्त ! त्रैलोक्ये मङ्गलं कुरु ।। ३५

तां च मूर्तिं भगवत उपावेश्य शुभासने ।
प्रमार्ज्य वस्त्रखण्डेन ध्यायेच्छ्रीकृष्णमन्तरे ।। ३६

विधाय मानसीं पूजां सग्दुरूक्तक्रमेण च ।
प्रतिमायामिष्टदेवं तं भक्तयावाहयेन्मुनिः ।। ३७

शैली दारुमयी लौही लेप्या लेख्या च सैकती ।
मनोमयी मणिमयी प्रतिमाऽष्टविधा स्मृता ।। ३८

उदङ्मुखः प्राङ्मुखो वा प्रतिमासन्मुखोऽथवा ।
यथाविध्यर्चयेद्बक्तया यथालब्धोपचारकैः ।। ३९

अभाषमाणश्चान्येन भगवन्तं समर्चयेत् ।
उपचारैः षोडशभिस्तदभावे तु मन्त्रतः ।। ४०

मन्त्रैः पौराणिकैरेव नाममन्त्रेण वार्चनम् ।
साधुः सप्रेम कुर्वीत श्रीविष्णोः प्रतिवासरम् ।। ४१

प्रमादानादरौ त्यक्त्वा स्वस्थः पूजनमाचरेत् ।
ततो जपेत् कृष्णमन्त्रं नियतं शक्तितः सदा ।। ४२

तुलसीकाष्ठजा श्रेष्ठा पद्मबीजोद्बवाऽथवा ।
श्रीखण्डकाष्ठजा वापि जपमाला शुभावहा ।। ४३

और्णं तार्णं च पार्णं वा वास्त्रं वाऽजिनमासनम् ।
मुनीनामुचितं प्रोक्तं भूमौ मन्त्रजपो वृथा ।। ४४

ऋजुरेकाग्रदृष्टिश्च स्वस्तिकासनमास्थितः ।
वस्त्राच्छादितमालश्च जपेन्मौनव्रतः स्थिरः ।। ४५

स्तोत्रपाठं यथाशक्ति श्रीविष्णोर्विदधीत सः ।
नामसङ्कीर्तनं कुर्यादापत्काले तु केवलम् ।। ४६

ततः संस्थाप्य भगवत्प्रतिमामुचितस्थले ।
गुरुं प्रणम्य भिक्षायै स गच्छेग्दृहिणः शुचीन् ।। ४७

अपक्वान्नं तु याचित्वा शुचिर्भूत्वा समाहितः ।
गायत्रीं कृष्णमन्त्रं च यथाशक्ति जपेत्पुनः ।। ४८

आपत्काले तु कुर्वीत प्रातर्माध्याह्निकं जपम् ।
प्रातर्भवं च मध्याह्ने कुर्यादेवं द्वयं द्वयम् ।। ४९

नैवेद्यार्थं ततः पाकं विष्णोः कुर्याच्छुचिस्थले ।
महानैवेद्यमीशाय समर्प्य स्वापयेच्च तम् ।। ५०

प्रासादिकं हरेरन्नं सम्प्रोक्ष्यैवाथ भक्षयेत् ।
एकाहारं च कुर्वीत प्रत्यहं स विनापदम् ।। ५१

त्यागी न भक्षयेदन्नं विष्णवे ह्यनिवेदितम् ।
आपदि प्रतिमाभावे मनसा तन्निवेदयेत् ।। ५२

यदि भोजनवेलायां कश्चिद्याचेत भिक्षुकः ।
तर्हि दद्यादात्मबुध्द्या तस्मा अन्नमविक्लवः ।। ५३

एकादशीषु सर्वासु हरेर्जन्मोत्सवेषु च ।
प्रायश्चित्तोपवासेषु नाद्यादन्नं च सन्नरः ।। ५४

पठनं पाठनं कार्यं सच्छास्त्रस्यानुवासरम् ।
न दिवा शयनं कार्यं त्यागिना तु विनापदम् ।। ५५

श्रवणं कीर्तनं विष्णोर्ध्यानं वन्दनमर्चनम् ।
विना कालो वृथा नैव नेतव्यस्तेन च क्वचित् ।। ५६

मलोत्सर्गे कटिस्ननं वस्रशुद्धिश्च योगिना ।
कार्याश्च मूत्रोत्सर्गे तु लिङ्गदोःशुद्धिरम्बुना ।। ५७

सायं शुचिः प्रबोद्धयेशं कुर्यान्नीराजनं ततः ।
नामसङ्कीर्तनं कृत्वा कुर्वीत स्तुतिपाठनम् ।। ५८

नमस्कृत्य स्वापयेच्च श्रीकृष्णं हृदयाम्बुजे ।
करण्डकादौ प्रतिमां वन्देताथ निजं गुरुम् ।। ५९

ततः शुचिः समासीनः पूर्ववत्सुस्थिरासनः ।
गायत्रीं कृष्णमन्त्रं च जपेत्स निजशक्तितः ।। ६०

ततः सच्छास्रपठनपाठनध्यानकीर्तनैः ।
विष्णुसम्बन्धिभिः कृत्यैर्याममेकं स जागृयात् ।। ६१

श्रीकृष्णमेव हृदये चिन्तयन् स ततः स्वपेत् ।
भूमावापदि तु त्यागी खट्वायामपि संविशेत् ।। ६२

क्रमेणानेन कर्तव्यं त्यागिना नित्यमात्मनः ।
आह्निकं विधिवत्तेन श्रीकृष्णः प्रीयतेतराम् ।। ६३


सुव्रत उवाच-

इत्युक्तमाश्रुत्य मुनिप्रवीरो नारायणेनाह्निकमुत्तमं सः ।
प्रीतस्तथैव स्वयमाचरंस्तदवीवृतत्सर्वमुनींश्च राजन् ! ।।६४


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे प्रबोधन्युत्सवे श्रीनारायणमुनिगोपालानन्दसंवादे त्यागिनां संक्षिप्ताह्निकविधिनिरूपणनामाष्टाविंशोऽध्यायः ।।२८।।