अथ सप्तविंशोऽध्यायः

सुव्रत उवाच-


षष्ठयां निशागमे राजन् ! सदस्युच्चासनस्थितम् ।
ब्रह्मानन्दो मुनीन्द्रोऽथ प्रणम्यापृच्छदीश्वरम् ।। १

सम्प्रदायेऽत्र भगवन्निष्कामं हि बृहद्व्रतम् ।
आश्रिताः सन्ति बहवस्त्यागिनस्तावका इमे ।। २ 

व्रतभङ्गे क्वचित्वेषां जाते सम्बन्धतः स्त्रियाः ।
यथा शुद्धिर्भवेत्स्वामिंस्तथा वक्तुं त्वमर्हसि ।। ३


श्रीनारायणमुनिरुवाच-

बुद्धिपूर्वं न कर्तव्यो व्रतभङ्गः क्वचिन्मुने ! ।
जाते त्वज्ञानतः कार्या तच्छुद्धिः सद्य एव हि ।। ४

अष्टाङ्गब्रह्मचर्यस्य रक्षणं स्यात्तया ततः ।
एकान्तिकत्वं भक्तानां भवत्येवेति सोच्यते ।। ५

निष्कामव्रतकृद्यस्तु पुरुषः क्वापि योषिताम् ।
वार्तां चेच्छृणुयात् प्रीत्या कुर्यादेकमुपोषणम् ।। ६

स्त्रीणां गुणान्वाप्यगुणान्सच्छास्त्रीयकथां विना ।
व्रती चेद्वर्णयेत्तर्हि कुर्यादेकमुपोषणम् ।। ७

मुग्धामध्यादिकान्भेदानसत्काव्योपवर्णितान् ।
णुयाच्चेत्कीर्तयेद्वा कुर्यादेकमुपोषणम् ।। ८

रममाणा यदि स्वैरं योषितो मूढवच्चिरम् ।
पश्यंस्तिष्ठेत्तदाप्येष कुर्यादेकमुपोषणम् ।। ९

स्त्रिया दृशा निजदृशं बध्नन् प्रेक्षेत तां यदि ।
क्षणमात्रमपि ह्येष कुर्यादेकमुपोषणम् ।। १०

स्त्र्यङ्गस्थवस्त्रस्पर्शे च स्पर्शे स्त्र्यवयवस्य वा ।
स्त्रीधार्यवस्त्रस्पर्शेऽपि कुर्यादेकमुपोषणम् ।। ११

स्त्रियमुद्दिश्य भगवद्वार्ताः पुंसां पुरो यदि ।
कुर्याद्व्रती स तु तदा कुर्यादेकमुपोषणम् ।। १२

स्त्रीसम्बन्धिनि सङ्कल्पे दुष्टे जातेऽपि चेतसि ।
भाषणे वा स्त्रिया जाते कुर्यादेकमुपोषणम् ।। १३

पुंद्वारा बोधनं नार्याः प्रच्छन्नं कारयेत्तथा ।
तद्वार्तां श्रृणुयाद्योऽसौ कुर्यादेकमुपोषणम् ।। १४

प्रासादिकं भगवतो गुप्तं चेत्प्रेषयेत्स्त्रियै ।
स निष्कामव्रती तर्हि कुर्यादेकमुपोषणम् ।। १५

नार्या वा प्रेषितं विष्णोर्यदि प्रासादिकं पुमान् ।
गुप्तं गृीत तर्ह्येष कुर्यादेकमुपोषणम् ।। १६

प्रच्छन्नं प्रेषयेन्नार्यै पुस्तकं वा तयैषितम् ।
गृीयात्काकुदं सोऽपि कुर्यादेकमुपोषणम् ।। १७

यत्किञ्चिद्वस्तु वा नार्यै प्रेषयेद्वैषितं तया ।
गृीयाग्दुप्तमेवासौ कुर्यादेकमुपोषणम् ।। १८

स्त्रीचित्रप्रेक्षणे चासौ स्त्रीचित्रकरणे तथा ।
स्त्रीवेशधारिपुंस्पर्शे कुर्यादेकमुपोषणम् ।। १९

या क्रिया यत्र च स्त्रीणां भवेत्स्ननासनादिका ।
तां तत्र कुर्याद्यश्चासौ कुर्यादेकमुपोषणम् ।। २०

स्त्रीणां सञ्चरणस्थाने चोत्सर्गं मलमूत्रयोः ।
यदि कुर्यात्तर्हि पुमान् कुर्यादेकमुपोषणम् ।। २१

स्त्रीमुखाद्बगवद्वार्तां श्रोतुं तिष्ठेच्च सन्मुखम् ।
स्त्रीणामुपविशेद्यश्च कुर्यादेकमुपोषणम् ।। २२

धनुर्मानाभ्यन्तरे च पृथौ मार्गेऽप्यनापदि ।
यः कुर्याग्दमनं सोऽपि कुर्यादेकमुपोषणम् ।। २३

सह स्त्रिया चोपविशेदेकस्मिञ्छकटे तथा ।
स्त्रीचित्रं च स्पृशेद्योऽसौ कुर्यादेकमुपोषणम् ।। २४

काष्ठादिजायाः स्त्रीमूर्तेः स्पर्शे जातेऽपि च व्रती ।
स्त्रीगुह्याङ्गेक्षणे चासौ कुर्यादेकमुपोषणम् ।। २५

पशूनां पक्षिणां वापि मैथुनस्येक्षणे क्वचित् ।
जाते मनोवशतया कुर्यादेकमुपोषणम् ।। २६

प्रयोजनेन वा स्वैरं स्त्र्यागच्छेच्चेत्सबन्धने ।
स्वस्थाने तत्र चैकश्चेत् कुर्यादेकमुपोषणम् ।। २७

कार्यार्थं सहजं वापि ह्यापदैकः स्त्रिया गृहम् ।
प्रविश्य प्रतिगच्छेत्स कुर्यादेकमुपोषणम् ।। २८

स्त्रीसम्बन्धेन मलिने स्वप्ने जाते तथा स्त्रियाः ।
दर्शनाद्वीर्यपाते च कुर्यादेकमुपोषणम् ।। २९

उपविष्टं भोजनार्थं यं नारी परिवेषयेत् ।
शुद्धयर्थमात्मनश्चासौ कुर्यादेकमुपोषणम् ।। ३०

अनाच्छादितकौपीनस्त्यागी चेद्वाससा सभाम् ।
आगच्छेत् स्त्रीयुतां तर्हि कुर्यादेकमुपोषणम् ।। ३१

इत्थं सामान्यतः प्रोक्तं स्त्रीसंसर्ग उपोषणम् ।
अन्यत्रापीदृशे स्थाने कुर्यादेकमुपोषणम् ।। ३२

एकाकिन्या स्त्रिया साकं स्वस्यैकस्य रहःस्थितौ ।
स्त्रिया साकं चाध्वगतौ दिनत्रयमुपोषणम् ।। ३३

करेण कामवैवश्याद्वीर्यपाते कृते व्रती ।
उपोषणं प्रकुर्वीत दिनानां स चतुष्टयम् ।। ३४

स्त्रीसङ्गे तु कृते साक्षाद्धारणापारणं व्रतम् ।
वर्षमेकं प्रकुर्वीत सक्तून्निर्लवणान् पिबन् ।। ३५

एतत्कर्तुमशक्तस्तु धर्मशास्त्र उदीरितम् ।
विध्यन्तरं विदित्वा तत्कुर्याच्छक्तयनुसारतः ।। ३६

शुद्धयर्थेषूपवासेषु नीरमात्रं पिबेद्व्रती ।
न त्वन्यद्बक्षयेत्किञ्चिद्बालो रुग्णो जरन्नपि ।। ३७

एतेऽवश्यं तूपवासा निष्कामव्रतचारिभिः ।
कार्या इति ममैवाज्ञा भवतीत्यवगम्यताम् ।। ३८

व्रतक्षतौ करिष्यन्ति नोपवासांस्तथा च ये ।
निषेधिष्यन्ति तत्कर्तंस्ते भविष्यन्ति कामिनः ।। ३९

दयया ये निषेधेयुर्बालादीनुपवत्स्यतः ।
स्वयं त एवोपवासान् विदध्युस्तद्विशुद्धये ।। ४०

ये मया विहितामेतां मर्यादामात्मशुद्धये ।
पालयेयुस्तु ते बोध्या औद्धवीया नहीतरे ।। ४१


सुव्रत उवाच-

श्रुत्वेति वाक्यं स हरेर्महर्षिः प्रीतस्तथान्येऽपि गृहीतराश्च ।
तथा विधातुं विदधुः प्रतिज्ञां प्रणम्य तं भक्तहितप्रसक्तम् ।। ४२

इति परमपवित्रामत्र निष्कामशुद्धिं प्रतिदिनमनुरागाद्ये पठेयुः प्रभाते ।
त्रिभुवनजयदर्पं ते सुखेनैव कामं सकलगुणकलङ्कं नूनमुन्मूलयेयुः ।। ४३


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे प्रबोधन्युत्सवे श्रीनारायणब्रह्मानन्दसंवादे निष्कामशुद्धिनिरूपणनामा सप्तविंशोऽध्यायः।।२७।।