अथ षड्विंशोऽध्यायः

सुव्रत उवाच-


प्रदोषकालेऽथ च पञ्चमीतिथौ महासभायामुपविष्टमीशम् ।
मुनिः शुकानन्द उदारबुद्धिः पप्रच्छ हेतुं नृप ! धर्मसिद्धेः ।। १

भगवन् ! हेतुना केन धर्मः सिघ्धति सान्वयः ।
शीघ्रं च मानवानां तद्वक्तुमर्हसि मेऽञ्जसा ।। २


श्रीनारायणमुनिरुवाच-

धर्मः सहान्वयो ब्रह्मन् ! देशादौ सति वर्तते ।
सिद्ध्येत्तत्सेविनां धर्मः स्यादैश्वर्यं सुखं च तत् ।। ३

असत्यधर्मो देशादावास्ते सपरिवारकः ।
तत्सेविनामधर्मः स्याद्दुःखं चैश्वर्यतश्चयुतिः ।। ४

देशः कालः क्रिया ध्यानं शास्त्रं दीक्षा तथा मनुः ।
सङ्गश्चेत्यष्ट धर्मस्य हेतवो हीतरस्य च ।। ५

लक्षणानि सतां तेषां देशादीनां तथाऽसताम् ।
कथयामि समासेन हिताय वै नृणामहम् ।। ६

चतुर्वर्णाश्रमवतां धर्मो यत्र विभागशः ।
यत्रैकान्तिकभक्ताः स्युर्हरेर्देशः स शोभनः ।। ७

यत्र ह ब्राह्मणकुलं तपोविद्यादयान्वितम् ।
यत्र यत्रहरेरर्चा स देशः श्रेयसः पदम् ।। ८

पुराणप्रथिता यत्र गङ्गाद्या स्युश्च निम्रगाः ।
पुष्करादीनि तीर्थानि क्षेत्राण्यर्हाश्रितानि च ।। ९

कुरुक्षेत्रं गयाशीर्षं प्रयागः पुलहाश्रमः ।
नैमिषं फाल्गुनं सेतुः प्रभासोऽथ कुशस्थली ।। १०

वाराणसी मधुपुरी पम्पा बिन्दुसरस्तथा ।
नारायणश्रमोऽयोध्या सीतारामाश्रमादयः ।। ११

सर्वे कुलाचलाः पुण्या महेन्द्रमलयादयः ।
देशानामुत्तमो देशः सत्पात्रं यत्र लभ्यते ।। १२

एते पुण्यतमा देशाः सेव्याः श्रेयोर्थिभिर्नरैः ।
धर्मो ह्यत्र कृतः पुंसां सहस्त्राधिफलोदयः ।। १३

असद्देशानथो वच्मि हातव्यान् धर्मबुद्धिभिः ।
अङ्गवङ्गकलिङ्गाश्च म्लेच्छदेशाश्च कीकटाः ।। १४

असंस्कृताश्चोषराश्च हर्यर्चारहिताश्च ये ।
यत्रत्योदकपानेन भवेयुर्जाठरा रुजः ।। १५

स्वस्वधर्मविहीनाः स्युर्नरा यत्र तथा स्त्रियः ।
भक्ताश्चैकान्तिका यत्र न स्युर्भगवतोऽमलाः ।। १६

राजा च राजकीया वा बलाद्यत्र परस्त्रियः ।
परस्वानि हरेयुश्च पीडयेयुश्च दुर्बलान् ।। १७

यत्र च व्यभिचारिण्यो भवेयुः प्रायशः स्त्रियः ।
मद्यमांसादिलेपाः स्युर्यत्र च स्तेयकर्मिणः ।। १८

देशे सत्यपि यत्र स्यान्मारीरोगाद्युपद्रवः ।
राजसैन्योपद्रवश्च स्याच्चेतीनामुपद्रवः ।। १९

यत्रान्नवस्त्रातिदुःखादपि स्वजनविक्रयम् ।
कुर्वीरन् पुरुषाश्चैते देशाः खल्वशुभा मुने! ।। २०

शुभो ब्राह्ममुहूर्तादिः पूर्वाो देवकर्मणि ।
कालोऽपराः पैत्रे च कर्मणि प्रोच्यते शुभः ।। २१

तथायनं च विषुवं व्यतीपातो दिनक्षयः ।
चन्द्रादित्योपरागश्च द्वादशी वैष्णवं च भम् ।। २२

अक्षयाख्या तृतीया च नवमी कार्तिके सिता ।
चतस्त्रोऽप्यष्टकाश्चैव माघे च सितसप्तमी ।। २३

समासर्क्षाः पौर्णमास्य एकादश्यश्च सर्वशः ।
संस्कारकालो जायाया अपत्यस्यात्मनस्तथा ।। २४

सप्तमी भानुयुक्ता च सोमामा च बुधाष्टमी ।
अङ्गारकचतुर्थी च षष्ठी च कपिलाह्वया ।। २५

यस्मिंश्चापररात्रे स्युर्देवविप्रेक्षणादयः ।
सुस्वप्नाः शकुनाश्च स्युः सन्तः कालः स शोभनः ।। २३

प्रेतक्रियायाः कालश्च मृताहो व्रतवासराः ।
जन्मोत्सवा हरेश्चेति पुण्यकालाः प्रकीर्तिताः ।। २७

एषु स्त्रानं जपो होमो व्रतं देवद्विजार्चनम् ।
पितृदेवनृभूतेभ्यो यद्दत्तं तघ्द्यनश्वरम् ।। २८

प्रदोषश्च निशीथादिः सूतकं दुर्दिनानि च ।
दिव्यभौमोत्पातहेतुः सर्वोद्वेगादिकृत्तथा ।। २९

आत्मनः पशुवित्तादेर्हानिकृत्सर्वथा च यः ।
असन्त एते विज्ञोयाः कालाः पुंभिर्विचक्षणैः ।। ३०

यस्मिंश्चापररात्रे स्युः कृष्णसर्पेक्षणादयः ।
दुःस्वप्नाश्चापशकुनाः प्रोक्तः कालः स चाप्यसन् ।। ३१

सत्क्रियास्तु हरेर्भक्तिर्नवधा श्रवणादिका ।
अहिंसयज्ञा दानानि व्रतानि नियमा यमाः ।। ३२

 स्वधर्मश्च सतां सेवा ब्राह्मणाराधनं तथा ।
तीर्थयात्रादिका ज्ञोयाः क्रियाः सत्यो मनीषिभिः ।। ३३

असत्क्रियास्तु विज्ञोया जीवहिंसानृतं तथा ।
मघमांसाशनं स्तेयं दम्भः साङ्कर्यकर्म च ।। ३४

घूतं च परनारीणां सङ्गः क्ष्वेलिश्च नर्म च ।
अपमानः सतां चेति ह्यसत्यः कथिताः क्रियाः ।। ३५

शान्तमूर्तेर्भगवतो वासुदेवस्य सत्पतेः ।
नारायणस्य श्रीभर्तुर्यध्यानं तत्सदुच्यते ।। ३६

कृष्णसम्बन्धिनां स्थानासनभूषणवाससाम् ।
वेणुमालायुधादीनां ध्यानं च सदुदीरितम् ।। ३७

कालीभैरवयक्षाणां मद्यमांसाशिनां तु यत् ।
ध्यानं तामसदेवानामशुभं परिकीर्तितम् ।। ३८

मूर्तयश्चावताराणां श्रीविष्णोः प्रतिपादिताः ।
श्रीरामकृष्णमुख्यानां यत्र सच्छास्त्रमेव तत् ।। ३९

यन्नारदोद्धवादीनामेकान्तिकसतां हरेः ।
प्रतिपादनकर्तृ स्यान्मूर्तीनां तच्च सन्मतम् ।। ४०

यत्र साक्षाद्बगवतो धृतदिव्यनराकृतेः ।
तत्सतां च वचांसि स्युः प्रतिपाद्यानि तच्च सत् ।। ४१

सच्छास्त्रलक्षणं प्रोक्तमसच्छास्त्रं ब्रवीम्यथ ।
एतच्छारुविरुद्धं यदसच्छास्त्रं तदुच्यते ।। ४२

आकारखण्डनं यत्र स्याद्धरेश्चापि तत्सताम् ।
आत्मनिष्ठा च भक्तिश्च स्याद्यत्र रहिता यमैः ।। ४३

अवतारचरित्रेषु विष्णोरारोप्य दूषणम् ।
कृतं स्यान्निन्दनं यत्र तदसच्छास्त्रमुच्यते ।। ४४

यत्र तामसदेवानां द्रव्यैरशुचिभिर्भवेत् ।
पूजाविधिश्च तत्सर्वं शास्त्रं ह्यसदितीर्यते ।। ४५

कण्ठस्त्रक् जपमाला च पुण्ड्रं वस्त्राणि दैहिकी ।
प्रकृतिश्च भवेत्सौम्या यस्यां दीक्षा तु सा सती ।। ४६

आनखादाशिखं वेषो यस्यां स्याच्च भयानकः ।
यस्यां क्रोधश्चापशब्दाः सा दीक्षा त्वसती मता ।। ४७

यद्दर्शनाद्बिभीयुश्च जना व्याघ्रादितो यथा ।
मद्यमांसाद्यभक्ष्यस्य भक्षणं यत्र वा भवेत् ।। ४८

आरक्ते लोचने यत्र गञ्जभङ्गादिभक्षणात् ।
प्रोक्ता सा चासती दीक्षा पारदार्यं च यत्र वा ।। ४९

सन्मन्त्रः स तु विज्ञोयो यत्र स्युर्मङ्गलाभिधाः ।
कृष्णनारायणनरवासुदेवादयो हरेः ।। ५०

असन्मन्त्रस्तु स ज्ञोयो मारणोच्चाटनादिकृत् ।
युक्तस्तामसदेवानां नाम्रा चित्तभ्रमश्च यः ।। ५१

ये तु भागवतास्तेषां सङ्गः सत्सङ्ग उच्यते ।
लक्षणैस्ते तु विज्ञोयाः सच्छास्त्रेषूपवर्णितैः ।। ५२

अष्टाङ्गं ब्रह्मचर्यं ये पालयेयुर्दृढव्रताः ।
धनमात्रत्यागिनश्च निःस्वादाः स्नेहवर्जिताः ।। ५३

निर्माना निःस्पृहाः शुद्धाः क्रोधेर्ष्याद्रोहवर्जिताः ।
निर्मत्सराश्च निर्लोभा आत्मनिष्ठा जितेन्द्रियाः ।। ५४

भक्तिं हर्यवतारेषु माहात्म्यज्ञानपूर्विकाम् ।
कुर्युरेकान्तिका भक्तास्तेषां सङ्गो हि सन्मतः ।। ५५

धृतावतारस्य हरेः साक्षात्सङ्गश्च यो भुवि ।
तदीयानां च शास्त्राणां सङ्गः सत्सङ्ग उच्यते ।। ५६

देशादिसप्तकस्यापि सच्छब्देनोदितस्य यः ।
सङ्गः स सर्वोऽपि मतः सत्सङ्गो मुनिसत्तमैः ।। ५७

सङ्गोऽसतामसन्नुक्तो ज्ञातव्यास्तेऽपि लक्षणैः ।
भक्तिहीना भवेयुर्ये श्रीविष्णौ वैष्णवेषु च ।। ५८

ये सच्छास्त्रेष्वविश्वासा नास्तिका धनलोलुपाः ।
पारदार्यरताः स्तेनाः सुरामिषनिषेविणः ।। ५९

मानिनो मत्सरग्रस्ता दाम्भिका द्यूतदेविनः ।
अभक्ष्यभक्षा हिंस्त्राश्च मदमत्ताः पुरुक्रुधः ।। ६०

महतो ब्रह्मचर्यादीन् गुणांस्त्यक्त्वाल्पकेऽपि ये ।
सतां दोषे दैहिके तु महादोषापवादिनः ।। ६१

आत्मश्लाघापरा ये च हरितद्बक्तनिन्दकाः ।
गृन्तोऽन्नादि च स्वार्थमुपद्रुत्य परान् भृशम् ।। ६२

नृदेहं हरिणा दत्तं कृपया भक्तिधर्मयोः ।
संसाधकमपि प्राप्य पौरुषं नाचरन्ति ये ।। ६३

कालं दैवं च संस्कारं कृपां भगवतस्तथा । श्रे
योऽर्थे पौरुषे हेतुं मन्यन्ते ये प्रमादिनः ।। ६४

अशान्त्यादिभिरन्यैश्च युक्ता दुर्लक्षणैस्तु ये ।
असन्तस्ते हि पुरुषास्तेषां सङ्गस्त्वसन्मतः ।। ६५

देशादिसप्तकं यद्यदसच्छब्देन कीर्तितम् ।
तत्तत्सङ्गोऽप्यसज्ज्ञोयः स्त्रीभिः पुंभिश्च तत्वतः ।। ६६

इत्थं सतां चासतां च देशादीनां समासतः ।
लक्षणानि मयोक्तानि बोधायैव मुमुक्षताम् ।। ६७

शुभैरेतैः सेवितैस्तु शुभा बुद्धिर्भवेन्नृणाम् ।
अशुभैस्तैर्भवेद्बुद्धिरशुभा नात्र संशयः ।। ६८

यादृशी यस्य बुद्धिः स्यात्कर्म कुर्यात्स तादृशम् ।
कर्मानुरुपं च फलं प्राप्नुयात्स ततो मुने ! ।। ६९

असतो देशकालादीन्न सेवेत ततः सुधीः ।
विहाय ताञ्छुभानेव हितार्थी शीघ्रमाश्रयेत् ।। ७०

यथा पीयूषममलमज्ञानादपि सेवितम् ।
मूर्खं वा पण्डितं वापि नयत्यमरतां किल ।। ७१

तथा सद्देशकालादिरज्ञानादपि सेवितः ।
संसृतेर्मोचयत्येव सुज्ञामज्ञां च देहिनम् ।। ७२

पीतं च मद्यभङ्गादि शास्त्रं वा जडं नरम् ।
मादयित्वा यथा सद्यो नयत्युन्मत्ततुल्यताम् ।। ७३

तथैव देशकालादिरसन्नेष स्वसेविनम् ।
उत्पथं प्रापयत्येव विद्वांसमपि सात्विकम् ।। ७४

ईदृक्स्वभावमेवैतद्वर्तते सर्वथा मुने ! ।
स्वाभाविकं गुणं नैव हातुं शक्नोति कश्चन ।। ७५

यः सतो देशकालादीन्सेवते नित्यमादृतः ।
धर्मः सिद्धयति तस्यैव सकलाभीप्सितार्थदः ।। ७६

यावज्जीवं सुखं भुङ्क्ते स एवात्र धरातले ।
देहान्ते परमं धाम गोलोकं लभते प्रभोः ।। ७७

तत्र चैतन्यदेहेन सोऽनन्तानक्षयान्नरः ।
प्राप्नोति स्वेप्सितान् दिव्यान्भोगानमरदुर्लभान् ।। ७८

देशादीनसतो यस्तु सेवेत स पुमानिह ।
यावज्जीवं दुःखमेव प्राप्नुयाद्धर्मतः मतश्च्युत ।। ७९

देहान्ते नरकान् भुक्त्वा दारुणान् स यमालये ।
चतुरशीतिलक्षेषु ततो भ्राम्यति योनिषु ।। ८०

असद्देशादिसम्बन्धाद्बीत एव ततः पुमान् ।
धर्मस्य सिद्धये नित्यं देशादीनाश्रयेत्सतः ।। ८१


सुव्रत उवाच-

श्रुत्वेति नारायणवाचमापद्धर्षं महान्तं स मुनिः सहान्यैः ।
भक्तैस्तमानम्य तदीयवाचं जग्राह राजन्! शिरसा हितार्थी ।। ८२

इत्येषा धर्मसिद्धिर्भुवि नृषु गृहिणस्त्यागिनो वापि ये स्युस् ।
तेषां धर्मावनार्थं निगमगणमता कीर्तिता वर्णिराज्ञा ।। 
एतां श्रोष्यन्ति ये वा प्रतिदिनमपि ये कीर्तयिष्यन्ति तेषां । 
धर्मस्थैर्यं च सौख्यं विविधमिह तथा संभविष्यत्यमुत्र ।। ८३


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे प्रबोधन्युत्सवे श्रीनारायणशुकानन्दसंवादे धर्मसिद्धिनिरुपणनामा षङ्विंशोऽध्यायः।।२६।।