सुव्रत उवाच-
चतुर्थ्यां तु सदःसंस्थः स्वयमेव हरिर्निजान् ।
अस्पृश्यस्पर्शजाद्दोषाद्रिरक्षिषुरुवाच ह ।। १
श्रीनारायणमुनिरुवाच-
श्रृण्वन्तु पुरुषाः सर्वे गृहिणस्त्यागिनस्तथा ।
सर्वेषां हि हितं वच्मि युष्माकं मामुपेयुषाम् ।। २
स्त्रियोऽत्र द्विविधाः सन्ति तत्रैका धर्मसर्गजाः ।
पतिव्रतासतीसाध्वीसंज्ञाश्च शुचयः सदा ।। ३
अधर्मसर्गजाश्चान्याः कृत्याः पातकचेतसः ।
पुंश्चलीकुलटाद्याख्या अपवित्राः सदा मताः ।। ४
सम्बन्धीतरपुंस्पर्शे स्वतो जाते विनापदम् ।
तत्राद्या बिभ्यति यथा सर्पाद्देहाभिमानिनः ।। ५
स्वं चेत्क्वापि स्पृशेदन्यस्तदा तु प्राप्नुयू रुजम् ।
स्पर्शे यथैव वानर्यास्तीक्ष्णाग्नेर्वा तथात्र ताः ।। ६
द्वितीयास्त्वथ पुंस्पर्शे स्वतो जाते च वान्यतः ।
न तेन हृदि तप्यन्ते न क्रियास्वपि तद्बयम् ।। ७
इत्थं द्वेधा स्त्रियः सन्ति पुंमासोऽपि तथा द्विधा ।
धर्मवंश्याः पुण्यवन्तोऽधर्मवंश्याश्च पापिनः ।। ८
पतिव्रतातुल्यशीलास्तत्राद्याः पापभीरवः ।
कृत्याशीलाश्च सन्त्यन्ये स्त्रीस्पर्शाशङ्किनो नराः ।। ९
ज्ञानाद्वाज्ञानतः स्पर्शे स्त्रीपुंसानां परस्परम् ।
जाते दोषो भवत्येव पापरुपश्च दुःखदः ।। १०
तस्मात्स्पर्शविवेकोऽयं स्त्रीपुंसानां हितावहः ।
सर्वेषामपि लोकेऽस्मिन्मया साधु निरुप्यते ।। ११
अमङ्गलानां सर्वेषामशुचीनाममङ्गलः ।
अशुचिर्विधवादेहः पुराणे बहुधोच्यते ।। १२
अत उद्धववर्त्मस्थैर्विधवा योषितो नरैः ।
स्प्रष्टव्या नापि गृहिभिस्ताभिः स्पृश्या न ते तथा ।। १३
अज्ञानाद्विधवास्पर्शे जाते स्नयात्पुमांश्च सा ।
ज्ञानाच्चेत्तर्हि कुर्यातामेकैकं तावुपोषणम् ।। १४
यदि बुद्धया स्पृशेत्कामाद्विधवा पुरुषं क्वचित् ।
तदा तु निष्कृतिस्तस्याः शास्त्रेषु द्विविधोदिता ।। १५
रहसि स्पर्शमात्रे तु दिनद्वयमुपोषणम् ।
तादृक्स्पर्शे जनैर्ज्ञाते कार्यं चान्द्रायणं व्रतम् ।। १६
एतां या निष्कृतिं नारी न कुर्याद्यद्यनादरात् ।
कायक्लेशभयाद्वा सा प्राप्नुयादापदं भृशम् ।। १७
प्राप्य सापयशोऽत्रापि मृत्वाथ यमयातनाः ।
भुक्त्वा निरुदकेऽरण्ये पिशाची स्यात् क्षुधाकुला ।। १८
अथ स्पृशेद्यः पुरुषः कामाद्बुद्धया विभर्तृकाम् ।
तस्यापि निष्कृतिः प्रोक्ता पूर्ववद्विविधैव हि ।। १९
स्पर्शे जनैरविदिते दिनद्वयमभोजनम् ।
विदिते तु यथाशास्त्रं कार्य चान्द्रायणं व्रतम् ।। २०
य एतन्नैव कुर्वीत प्रायश्चित्तं पुमान् कुधीः ।
सोऽत्रैवाप्नोत्यपयशो मृत्वा च यमयातनाः ।। २१
ततोऽयुतं स वर्षाणि पिशाचः स्यात् क्षुधाकुलः ।
विण्मूत्ररक्तमांसाशी वने धावन्नितस्ततः ।। २२
विधवानां मुख्यधर्मो ब्रह्मचर्यस्य पालनम् ।
तद्बङ्गः स्याद्धि पुंस्पर्शान्महान् दोषस्ततो मतः ।। २३
तस्याश्च ब्रह्मचर्यस्य स्वस्पर्शेनैव नाशनात् ।
पुंसो दोषो महानुक्तो विधवास्पर्शने किल ।। २४
यादृक् पतिव्रतानार्याः सङ्गे पुंसः परस्य वै ।
स्याद्दोषस्तादृगेव स्यात्पुंस्पर्शे विधवास्त्रियाः ।। २५
दोषः स्याग्दृहिणो यादृक् स्वकीयेतरयोषितः ।
सङ्गे स्याद्विधवास्पर्शे बुध्द्या तादृगसंशयम् ।। २६
सङ्गे परस्त्रिया दोषो गृहिणो यादृगीरितः ।
अगृहस्थस्य तादृक् स्यात्स्त्रीमात्रस्पर्शने किल ।। २७
मृते पत्यौ ब्रह्मचर्यं विधवाया दृढं मतम् ।
स्त्रीस्पर्शात् ब्रह्मचारीव भीता पुंस्पर्शतो भवेत् ।। २८
सच्छास्त्रश्रवणे दाने तीर्थे च ब्राह्मणार्चनम् ।
सदस्यावश्यकं कुर्याद्यदि सा नात्र दोषभाक् ।। २९
रहःस्थाने यदि तु तत्कुर्यात्तर्हि तयोर्द्वयोः ।
भक्तयोः स्त्रीपुरुषयोर्हरेः शुद्धिर्मतैन्दवात् ।। ३०
रोगे वैद्यस्य च स्पर्शे मुण्डने नापितस्य च ।
स्पर्शे तस्या न दोषोऽस्ति यदि तत्रेतरो भवेत् ।। ३१
आसन्नसम्बन्धभाजां स्पर्शे जाते नृयोषिताम् ।
आवश्यकत्वादन्योन्यं न दोषो ह्यगतित्वतः ।। ३२
पिता भ्राता पितृव्यश्च तत्पुत्रास्तत्सुतादयः ।
मातामहो मातुलश्च तत्पुत्रास्तत्सुतादयः ।। ३३
मातृष्वसुः पति पुत्रास्तथा पितृष्वसुः पतिः ।
तत्पुत्रा गुरुतत्पुत्रावन्नदाता च तत्सुतः ।। ३४
सभ्रातृकश्च श्वशुरस्तथा ज्येष्ठाश्च देवराः ।
तेषां पुत्राश्च दौहित्रा दुहितृपतयस्तथा ।। ३५
पुत्रपौत्रादयः स्वस्या एते सम्बन्धिनो मताः ।
एतेषां स्पर्शने दोषो नास्ति ते यदि धार्मिकाः ।। ३६
एतद्बिन्ननरस्पर्शः क्रयविक्रयकर्मसु ।
जलागन्यादिभये वापि कृष्यादौ स्यान्न दोषकृत् ।। ३७
तथा सम्बन्धियोषायाः स्पर्शेऽन्यस्याः क्रयादिषु ।
स्पर्शे च पुरुषस्यापि नास्ति दोषः स्त्रिया यथा ।। ३८
प्रयाणकाले विधवादर्शनं चात्यमङ्गलम् ।
तिर्यग्गच्छत्कृष्णसर्पादप्येतदधिकं मतम् ।। ३९
न केवलं कार्यहानिः किन्तु मृत्युरपि ध्रुवम् ।
स्वस्य स्वीयस्य वापि स्याद्धननाशोऽथवाग्निभीः ।।४०
अतस्तद्दर्शनाघस्य शान्तये शास्त्रवेदिभिः ।
सद्य एवास्ति कथितं हरिस्मरणमङ्गलम् ।। ४१
तासां चाप्याशिषो ज्ञोया आशीविषविषोपमाः ।
ताभ्यो भेयमतः पुंभी राक्षसीभ्य इवाखिलैः ।। ४२
मात्रा स्वस्त्रा दुहित्रा वा रहःस्थाने वयःस्थया ।
न तिष्ठेत्पुरुषस्तादृक् हरेर्भक्तो विनाऽपदम् ।। ४३
अज्ञानात्तु रहःस्थाने स्थितावेकमुपोषणम् ।
उभाभ्यामपि कर्तव्यं स्त्रीपुंसाभ्यां प्रयत्नतः ।। ४४
सविकारेण मनसा स्पर्शमात्रे रहःकृते ।
चान्द्रायणं व्रतं कार्यमुभाभ्यां स्वाघशान्तये ।। ४५
एकलः पुरुषः क्वापि कयाचिदपि योषया ।
गच्छेद्विधवया साकं नैव वर्त्मनि सर्वथा ।। ४६
यदि गच्छेत्प्रमादेन तर्हि साकं तया स्त्रिया ।
उपवासं स कुर्वीत दिनमेकं स्वशुद्धये ।। ४७
तरुणानां नराणां च तरुणीनां च योषिताम् ।
सर्वथैव प्रसङ्गोऽयं निषिद्धोऽस्ति परस्परम् ।। ४८
अभर्तृकाणां नारीणां सम्बन्धिपुरुषैः सदा ।
स्वातन्त्र्यगमनाद्रक्षा कार्या पितृसुतादिभिः ।। ४९
समाजोत्सवतीर्थेभ्यो विवाहात्पान्थसार्थतः ।
साधुभ्योऽनाश्रमिभ्यश्च रक्ष्या योषा हि सर्वथा ।। ५०
असुरा राक्षसा यक्षा अतिकामातिहिंसकाः ।
स्त्रीद्रव्यहरणार्थं हि तिष्ठन्त्येतेषु नित्यदा ।। ५१
अबलानामतस्तेभ्यो रक्षणं पुरुषैः स्वकैः ।
प्रयनेनैव कर्तव्यं गृहिभिः पापभीरुभिः ।। ५२
तासां रक्षापि धर्मिष्ठैर्बुद्धिमद्बिः सयुक्तिना ।
साम्ना दानेन वा कार्या पुंभिर्भेदेन वापि तैः ।। ५३
नाङ्गच्छेदोऽङ्गभङ्गो वा तासां कार्यो न तैर्वधः ।
तदात्मघातहेतुश्च न वाच्या मर्मभिच्च वाक् ।। ५४
धर्मस्य रक्षणे शक्तिः स्वस्यान्येषां च सर्वथा ।
भुवि भूपस्य च गुरोः सर्वेभ्योऽप्यधिकास्ति हि ।। ५५
शिक्षयित्वा प्रजा राज्ञा शिष्यांश्च गुरुणा ततः ।
पुंस्पर्शाद्विधवाधर्मो रक्षणीयः प्रयत्नतः ।। ५६
कुरुतो नैव यावित्थं तौ प्रजाशिष्यपातकैः ।
नृपो गुरुश्च युज्येते भुञ्जाते तान्यमुत्र च ।। ५७
पितरश्च पतन्त्येव तयोः स्वर्गगता अपि ।
पापेन तेन महता निरयेषु न संशयः ।। ५८
उद्धवस्वामिनैवैषा मर्यादास्ति पुरा कृता ।
उल्लङ्घयेत्तां यः कोऽपि स ज्ञोयस्तत्पथाद्बहिः ।। ५९
एतामुल्लङ्घय मर्यादां स्त्री पुमान्वा निजेच्छया ।
वर्तिष्येते तयोर्भूरि भविष्यत्ययशो भुवि ।। ६०
मिथ्याकलङ्कानपि तौ प्राप्यान्ते निरयान्बहून् ।
भोक्ष्येते नात्र सन्देहो नीलकण्ठो ब्रवीम्यहम् ।। ६१
सुव्रात उवाच-
एतन्निशम्य प्रमुदस्तदानीं सर्वे जनाः प्राञ्जलयः प्रभुं तम् ।
प्रणम्य ते बाढमितीशवाक्यमुपाददुः सन्मतयो नरेन्द्र ! ।। ६२
यः पूरुषः स्पर्शविवेकमेतं नारी पठेद्वा श्रृणुयात्प्रभूक्तम् ।
तावत्र कीर्तिं धनधान्यऋद्धिं सम्प्राप्नुतो धाम हरेस्तथान्ते ।। ६३
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे प्रबोधन्युत्सवे स्पर्शविवेकनिरुपणनामा पञ्चविंशोऽध्यायः।।२५।।