चतुर्विंशोऽध्यायः

राजोवाच-


पुंसां स्त्रीणां च भगवन्सम्प्रदाय इहौद्धवे । धर्मरक्षा भवेद्येन साधनं ब्रूहि तद्धि मे ।। १

स्यात्सद्धर्मस्य संवृद्धिर्यथा कृष्णस्य च प्रभो ! । उपासनायास्तद्ध्रासस्तथा सम्यङ्गिरुपय ।। २


श्रीनारायणमुनिरुवाच-

श्रृणु राजन् ! ब्रुवे तुभ्यं सद्धर्मावनसाधनम् ।
सत्सङ्गमेव तन्मुख्यं विद्धि सच्छास्त्रसम्मतम् ।। ३

दैवसम्पद्युजां सङ्गात्सद्धर्मोपासनाबलम् ।
विवर्धते क्षीयते तत्सङ्गाद्धयासुरसम्पदाम् ।। ४

धर्मज्ञानविरक्तीनां भक्तेश्चापि निरुपणे ।
बाह्यवेषे चास्ति साम्यमुभयेषां च योषिताम् ।। ५

तत्र निष्कपटं स्वीयश्रेयोर्थं दैवसम्पदः ।
प्रीतये च हरेर्नित्यं स्वधर्माद्याचरन्ति हि ।। ६

स्त्रीद्रव्यरसमानादिप्राप्तयेऽन्ये तु दाम्भिकाः ।
धर्मादिवार्तां कपटाद्वाङ्मात्रेणात्र कुर्वते ।। ७

फूत्कृत्य गुप्तं दंशन्तो मूषका इव ते शनैः ।
धर्मादिवार्तां कृत्वैतन्मूलच्छेदं हि कुर्वते ।। ८

सदसद्वयक्तिबोधोऽतो यथा स्यादुद्धवाध्वनि ।
मनुष्याणां तथा स्पष्टं तल्लक्ष्माद्यपि कथ्यते ।। ९

निःश्रेयसाय जीवानां श्रीविष्णुर्भगवान्स्वयम् ।
आविर्भवति भूलोके स्वतन्त्रः करुणानिधिः ।। १०

नरनारायणो दत्त ऋषभः कपिलादयः ।
रामकृष्णादयश्चास्यावताराः सन्ति भूरिशः ।। ११

ते निहत्यासुरान्दुष्टान्धर्मसाधुसुरद्रुहः ।
धर्मं प्रवर्तयन्त्यत्र सेव्यास्ते मोक्षकाङ्क्षिभिः ।। १२

असुरांस्ते यथा घ्रन्ति यादृशास्तेऽसुरा यथा ।
जातास्तदादौ वच्म्यत्र श्रीमद्बागवतोदितम् ।। १३

सर्गारम्मे पुरा ब्रह्मा छाययैवात्मनोऽसृजत् ।
अविद्यां पञ्चपर्वाणं निजसर्गोपबृंहणाम् ।। १४

तमो मोहो महामोहस्तामिस्त्रं च तुरीयकम् ।
पञ्चमं त्वन्धतामिस्त्रमविद्यापर्व कीर्त्यते ।। १५

एतामविद्यां सैव तां तनुं विजहावजः ।
तमोरुपा निशा साऽभूदसुराणां बलं यतः ।। १६

एतत्तनुसमुद्बूता विधेर्जघनजास्तथा ।
असुरा यक्षरक्षांसि बभूवुर्दुःखहेतवः ।। १७

सर्गोऽधर्मात्तदा चाभूद्ब्रह्मपृष्ठोद्बवादयम् ।
कामलोभमदेर्ष्या रुट् हिंसा माया कलिर्भयम् ।। १८

मोहमत्सरमानाद्या अधर्मकुलनायकाः ।
एते ह्यसुरदेहेषु न्यूषुः सर्वे यथासुखम् ।। १९

तदाविष्टास्तु ते यब्धुं भोक्तुं पातुं च निर्दयाः ।
ब्रह्माणं दुद्रुवुः सर्वे स तं देहं तदा जहौ ।। २०

पतन्स देहः सन्ध्याऽभूत्तां ते मूढाः प्रपेदिरे ।
त्रिषु लोकेषु ते दुष्टाश्चरन्तोऽभ्यार्दयंश्च तान् ।। २१

आसीत्तेषां जीवनं चाथैहिकामुष्मिकं सुखम् ।
अधर्मसर्ग एवैकमसुराणां दुरात्मनाम् ।। २२

तन्वाऽथ प्रभया विद्यातपोयोगसमाधिना ।
देवानृषीन् मनून्नृंश्च ससर्ज विधिरादरात् ।। २३

साक्षाद्धर्मस्ततो जातो ब्रह्मणो दक्षिणस्तनात् ।
सह स्वपरिवारेण देवादिष्ववसच्च सः ।। २४

श्रद्धा मैत्री दया शान्तिस्तुष्टिः पुष्टिः क्रियोन्नतिः ।
बुद्धिर्मेधा तितिक्षा र्मूर्तिर्धर्मस्य योषितः ।। २५

एता लक्ष्मीर्यथा विष्णुं शिवा वा शङ्करं यथा ।
शक्तयोऽनुव्रताः सन्ति तथा धर्मं हि सर्वदा ।। २६

शुभं सुखं प्रसादश्च क्षेमाभयमुदादयः ।
पुत्रा धर्मस्य तैः साकं तत्रोवास सुखेन सः ।। २७

सह सम्बन्धिभिर्धर्मो देवादीनां तु जीवनम् ।
आसीदत्र परत्रापि स एव सुखमीप्सितम् ।। २८

वपूंष्यधर्ममुख्यानां सन्त्यविद्यामयानि वै ।
विद्यामयानि सर्वेषां धर्मादीनां भवन्ति च ।। २९

दैवी सम्पदिति प्रोक्तः सान्वयो धर्म आसुरी ।
सम्पच्चाधर्मसर्गस्तु हरिगीतासु विस्तरात् ।। ३०

दैवी सम्पन्मोक्षकर्त्री बन्धकर्त्री मताऽसुरी ।
देवतास्वस्ति दैव्येवमासुरी चासुरेष्वपि ।। ३१

देशकालक्रियासङ्गवैषम्याद्दैवतेष्वपि ।
आसुरी सम्पदायाति तदा तेऽप्यसुरा मताः ।। ३२

यथा शच्याः प्रसङ्गेन परिजाततरोः कृते ।
कृष्णेन भूरि युयुघे देवेन्द्रोऽप्यसुरेन्द्रवत् ।। ३३

देशादीनां सतां योगादसुरेष्वपि कुत्रचित् ।
दैवी निविशते सम्पत्तदा देवा हि ते मताः ।। ३४

प्रह्लादो दैत्यपुत्रोऽपि यथा नारदसङ्गमात् ।
दैवीं सम्पदमेवाऽप विष्णौ भक्तिं परां व्यधात् ।। ३५

तस्यैव सङ्गाच्च यथा तत्पौत्रो बलिरासुरम् ।
त्यक्त्वा भावं हरिं चक्रे स्ववशं दैवसम्पदा ।। ३६

देशादीनां सदसतां सम्बन्धात्सम्पदोर्द्वयम् ।
इदं देवासुराख्याकृन्मनुष्येष्वपि वर्तते ।। ३७

देशादेरसतो योगाद्दैविका अपि मानवाः ।
आसुरीं सम्पदं प्राप्य लभन्ते ह्यसुराभिधाम् ।। ३८

दुर्योधनस्याश्रयणाद्द्रोणभीष्मादयो यथा ।
आसन्नधर्मरुचयस्ततो दुर्योधनार्थितैः ।। ३९

पातालस्थासुरैर्विष्टा देवा अप्यसुरा इव ।
नरनारायणाभ्यां ते कृष्णाभ्यां युद्धमाचरन् ।। ४०

कृतकार्येषु दैत्येषु निर्गतेषु तदङ्गतः ।
पुनस्ते भगवद्बक्तिं चक्रिरे धर्ममाश्रिताः ।। ४१

सतो योगात्तथा क्वापि देशादेरासुरक्रियाः ।
अपि देवाभिधां यान्ति दैवीं प्राप्यात्र मानवाः ।। ४२

कदर्यपिङ्गलाद्याश्च दत्तात्रेयसमागमात् ।
यथाऽसुरक्रिया हित्वा पूज्या देवा इवाभवन् ।। ४३

धर्मेण चाप्यधर्मेण सवंश्येनाश्रितात्मनाम् ।
देवासुराणामेतेषां वैरमस्ति परस्परम् ।। ४४

छिद्राणि स्वस्वशत्रूणां ते पश्यन्त इतस्ततः ।
विचरन्ति त्रिलोक्यां वै स्वयूथैर्विजिगीषवः ।। ४५

देशकालक्रियासङ्गान् सतो यर्हि श्रयन्ति ह ।
देवास्तर्हि जयन्त्येव धर्माघैर्निजवैरिणः ।। ४६

देशादीनसतो यर्हि श्रयन्ते देवताः क्वचित् ।
तदा स्वनिष्ठाधर्माद्यैरसुरास्ता जयन्ति हि ।। ४७

इत्थं देवाश्चासुराश्च स्वस्थयोः सम्पदोर्वशात् ।
व्यवयिन्ते लोकेषु तत्तन्नाम्ना द्विधा किल ।। ४८ 

तत्रेदृशासुरान्हन्ति धर्मसंरक्षणाय सः ।
कृतावतारो भगवान् द्वेधा तदधुनोच्यते ।। ४९

प्रवृत्तिमार्गमाश्रित्य भगवान् यर्हि वर्तते ।
रामकृष्णादिरुपेण तदा तान् हन्ति हेतिभिः ।। ५०

क्वचित्क्वचिच्च तन्निष्ठान्कामादीनान्तरासुरान् ।
ज्ञानोपदेशखङ्गेन स हन्ति नतु तत्तनूः ।। ५१

निवृत्तिमार्गमाश्रित्य भगवान् यर्हि वर्तते ।
नारायणादिरुपेण तदा हन्त्यान्तरान्रिपून् ।। ५२

स्वाभाविकान्हन्ति दोषान्कामादीनसुरस्थितान् ।
सांसर्गिकांश्च देवस्थान्नतु तेषां तनूः क्वचित् ।। ५३

स एव भगवान् पुंभिर्धृतमानुषविग्रहः ।
उपासनीयः श्रेयोऽर्थमज्ञानतिमिरापहः ।। ५४

स्वतन्त्रत्वात्स भगवान्प्रत्यक्षः क्वापि वर्तते ।
क्वचित्परोक्षवच्चासावदृश्यो वर्तते नृभिः ।। ५५

अदृश्यः स यदा तर्हि तूपास्या तस्य सर्वथा ।
प्रतिमैवाथ साधूनां सेवा कार्या च पूजनम् ।। ५६

निष्कामा अथ निर्लोभा निःस्वादा निष्परिग्रहाः ।
निःस्नेहा निर्ममा दान्ता निर्मानाः साधवो मताः ।। ५७

तितिक्षवः कारुणिकाः सुहृदः सर्वदेहिनाम् ।
अजातशत्रवः शान्ताः साधवः साधुभूषणाः ।। ५८

सन्तोऽपि द्विविधा ज्ञोया धीमन्तोऽल्पधियस्तथा ।
धीमन्तस्तत्र देशादीन् सत एवाश्रयन्ति हि ।। ५९

हरेरदृश्यादपि ते भिया पूर्ववदात्मनः ।
वर्तन्ते सर्वथा धर्मे जानन्तस्तस्य नित्यताम् ।। ६०

माहात्म्यबलमाश्रित्य हरेरन्ये तु निर्भयाः ।
असतो देशकालादीन् सेवन्ते च निरङ्कुशाः ।। ६१

तानधर्मः सह स्वस्य वंश्यैर्जयति सत्वरम् ।
धर्मभ्रष्टा भवन्त्येव ततस्ते पापचेतसः ।। ६२

भक्तेषु द्विविधेष्वेषु प्रागुक्ता धर्मसंस्थिताः ।
ये ते तु परमप्रीत्या सेवनीया मुमुक्षुभिः ।। ६३

नियमान् ब्रह्मचर्यादीन्न जह्युर्ये भयाद्धरेः ।
ज्ञानिनो भगवद्बक्तास्तद्वशेऽस्ति यतः प्रभुः ।। ६४

अधर्मसर्गेण जिता भक्ताख्या ये तु निर्भयाः ।
ते महापापिवत्तूर्णं दूराद्धेया मुमुक्षुभिः ।। ६५

न तेषां सेवया श्रेयो न प्रीतिश्च श्रियः पतेः ।
 केवलं धर्महानिः स्यादतस्त्याज्या हि ते मताः ।। ६६

धर्मस्योपासनायाश्च बलवृद्धिर्भवेत्सताम् ।
सङ्गात्तद्बलनाशश्च सङ्गात्स्यादसतां ध्रुवम् ।। ६७

सदसद्व्यक्तिबोधस्तु भवेद्बुद्धयैव देहिनाम् ।
सा तु सुज्ञोषु पुंसु स्यान्नतु स्त्रीषु कदाचन ।। ६८।

अतस्ताभिर्दृढं भक्तया श्रीविष्णोः प्रतिमैव हि ।
साक्षाद्विष्णुधियोपास्या न सन्तोऽन्तर्हिते हरौ ।। ६९

यदि सद्वृत्तयः सन्तः स्युस्तर्हि स्त्रीभिरात्मनः ।
साकं सम्बन्धिभिः श्रव्या कथा तेभ्यस्तु संसदि ।। ७०

सम्बन्धिभिरपि स्त्रीणां पितृभ्रातृसुतादिभिः ।
परीक्ष्यादौ सतो नेया योषास्तद्दर्शनाय ताः ।। ७१

असन्तोऽप्यत्र बहवः सद्वेषा विचरन्ति हि ।
वाचाति ज्ञानवैराग्यभक्तिधर्मनिरूपकाः ।। ७२

अतस्तेषां परीक्षापि दुष्करा सर्वपूरुषैः ।
सुप्रयुक्तस्य दम्भस्य नान्तं गन्तुं हि शक्यते ।। ७३

तथापि चतुरैः पुम्भिः परीक्षा शास्त्रबुद्धिभिः ।
कर्तुं तेषां शक्यतेऽतो ब्रुवे लक्ष्माणि सत्सताम् ।। ७४

अहिंसाब्रह्मचर्याद्याः स्वधर्माः सन्ति येऽमलाः ।
अल्पस्यापि च्युतौ तेषामनुतापं व्रजन्त्यति ।। ७५

तन्निष्कृतिं यथोक्तां च ततो भगवतो भयात् ।
परोक्षादपि कुर्वन्ति प्रत्यक्षादिव ये द्रुतम् ।। ७६

आपद्वशात् क्वचित्तस्यामकृतायां तु निष्कृतौ ।
अनुतापविकारः स्यात् येषामन्तर्बहिर्महान् ।। ७७

महापापेष्वन्यतमे क्वापि जाते यथाऽपदि ।
सम्भावितस्य पुंसः स्यात्तापस्तेषां तथाल्पके ।। ७८

व्याघ्रादप्यधिका येषां स्त्रियाः स्त्रैणाच्च भीर्भुवि ।
नात्मश्लाघां च कुर्वन्ति ये ते ज्ञोया हि साधवः ।। ७९

परीक्षितानामेतेषां दर्शनार्थं गृहस्थितैः ।
सम्बन्धिन्यः स्त्रियो नेयास्ताभिः श्रव्या च तत्कथा ।। ८०

अथ ये दाम्भिका भक्ताः सद्वेषा वाचि साधवः ।
देहाचारेण वाचा च परीक्ष्यास्तेऽपि सज्जनैः ।। ८१

ये वासुदेवमाहात्म्ये धर्मा भगवता स्वयम् ।
कथिताः साधुभक्तानां तत्र द्वित्रच्युतावपि ।। ८२

तन्निष्कृतेराचरणे स्वशैथिल्यस्य गोपनम् ।
कर्तुं नारायण स्येत्थं माहात्म्यं दर्शयन्ति ये ।। ८३

अधमोद्धारणो नूनं हरिः पतितपावनः ।
सकृत्तन्नामकीर्त्या वा पापं नैवावशिष्यते ।। ८४

नाम्रोऽस्ति यावती शक्तिः पातकानां विनाशने ।
तावत्कर्तुं न शक्नोति पातकं पातकी नरः ।। ८५

अङ्गसङ्गं वैष्णवानां वदेयुर्दुर्लभं च ये ।
आत्मश्लाघां मुहुर्ये च कुर्युः सिद्धत्वबुद्धये ।। ८६

ये च स्वसद्धर्मरतान्साधकानेव चक्षते ।
स्वैरं तु चरतः सिद्धान्मुक्तान्प्राहुश्च दुर्धियः ।। ८७

वयं ब्रह्म जगत्सर्वं मूर्तिमद् ब्रह्म निश्चितम् ।
स्त्रीपुसानां च शृङ्गारो ब्रह्मकल्लोल एव हि ।। ८८

राधाकृष्णस्य रासोऽपि गोलोकेऽस्माभिरैक्षि वै ।
समाधौ नात्र सन्देहः स कृष्णोऽस्मासु वर्तते ।। ८९

कृष्णबुद्धिं करिष्यन्ति तस्मादस्मासु ये जनाः ।
भवित्री भगवल्लोकप्राप्तिस्तेषां यथैव नः ।। ९०

इत्थं मिथ्यादम्भवार्ताचाटुभिर्वञ्चितान् जनान् ।
स्वविश्वस्तान् प्रकुर्युर्ये धर्मभ्रष्टान् दुराशयाः ।। ९१

अधर्मसर्गेण जिता असन्तस्तेऽवगम्यताम् ।
यदाश्रयात्प्रपच्यन्ते कुम्भीपाकेषु मानवाः ।। ९२

तत्परीक्षणकालं च सूचयामि समासतः ।
तद्धार्दं ज्ञायते यत्र मुहुस्तत्पार्श्वगैर्नरैः ।। ९३

स्वतुल्यशीलिनो यर्हि भवेयुस्ते तु सङ्गताः ।
भक्तिधर्मविरक्तीनां कुर्युर्मूलच्छिदां तदा ।। ९४

ब्रह्मणो ज्ञानमात्रस्य कुर्युश्च स्थापनं मुदा ।
एतस्मिन्नन्तरे कश्चिद्यद्यागच्छेदुपासकः ।। ९५

तदा तु स्वस्य सिद्धान्तमाच्छाद्यैवाशु ते खलाः ।
धर्मादिस्थापनं कुर्युस्तस्मादप्यधिकं सतः ।। ९६

इत्यादिकाले ह्यसतां ज्ञोय आभ्यन्तराशयः ।
नित्यानुयायिभिः पुंभिर्धर्मध्वंसैकलक्षणः ।। ९७

मद्ये मांसे पारदार्ये स्तैन्ये स्वपरहिंसने ।
गुप्तं तेषां प्रवृत्तिश्च ज्ञोया साङ्कर्यकर्मसु ।। ९८

धर्मस्य स्थापने यादृक् श्रीविष्णोराग्रहोऽस्ति हि ।
तथैव तेषामसतां धर्मोन्मूलन आग्रहः ।। ९९

इत्थं कुलक्षणैर्ज्ञात्वा दाम्भिकानसतः खलान् ।
तद्दर्शनार्थं गृहिभिर्न नेया योषितः क्वचित् ।। १००

न पुम्भिरपि कर्तव्यः सङ्गस्तेषां ततः परम् ।
श्रीविष्णोः प्रतिमैवार्च्या सर्वैरपि मुमुक्षुभिः ।। १०१

एतां सच्छास्त्रमर्यादामतिक्रम्यात्र याः स्त्रियः ।
वर्तिष्यन्ते नरा वा ये नङ्क्ष्यन्ति च न संशयः ।। १०२

प्राप्स्यन्त्यपयशोऽत्रापि परत्र च यमालये ।
आर्तनादान्प्रकुर्वन्तो लप्स्यन्ते तीव्रवेदनाः ।। १०३

धर्मसंरक्षणेनैव मुक्तिमेकान्तिकीं तु ये ।
इच्छेयुस्तैश्चिन्तनीयमेतन्मद्वाक्यमादरात् ।। १०४


सुव्रत उवाच

श्रुत्वैतद्धरिणोदितं स नृपतिर्भूप ! स्वधर्मावनं प्रीतोऽ ।
भूच्च सदःस्थिता मुनिगणाः स्त्रीपुंसङ्घास्तथा ।।
प्रीतिं प्राप्य परां प्रणम्य च हरिं तस्याज्ञायेयुः ।
स्वकानावासांश्च निजाश्रमं प्रभुरपि प्रायाग्दुरुणां गुरुः ।। १०५

योषाणां च नृणां स्वधर्ममवितुं सच्छास्त्रवारांनिधिं ।
निर्मथ्यैव समुद्धृतोऽस्ति हरिणा सारस्तदीयो ह्ययम् ।।
एतं येऽनुदिनं पठन्ति मनुजाः श्रृण्वन्ति वा भूपते ! ते ।
धर्मं परिरक्ष्य च स्वममलं यान्त्येव विष्णोः पदम् ।। १०६

इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे प्रबोधन्युत्सवे श्रीनारायणहेमन्तसिंहसंवादे धर्मरक्षानिरुपणनामा चतुर्विशोऽध्यायः ।। २४ ।।