सुव्रत उवाच-
ततो यमद्वितीयायां पोलिकापायसादिभिः । बहुलाज्यसितैर्भोज्यैरतर्पयदृषीन्नृपः ।। १
तस्यां निशि सदःसंस्थं चरितुं भूतले मुनीन् । आजिज्ञापयिषुं भूपः प्रोवाच हरिमानतः ।। २
उत्तम उवाच-
अन्नकूटोत्सवे ह्यद्य ललितायास्तु सर्वथा । मनोरथस्त्वया सर्वो भक्तवत्सल ! पूरितः ।। ३
एवमेव त्वया कार्यं प्रबोधन्युत्सवेऽपि च । नातिदूरे वर्तमाने जयाया अपि तोषणम् ।। ४
स्थितिमत्रैव कुर्वन्तु पूर्णिमान्तं यथासुखम् । सर्वेऽपि मुनयः स्वामिन्नित्यस्ति प्रार्थितं मम ।। ५
विप्रादयो यथापूर्वं गृन्त्वन्नादि मग्दृहात् । निमित्तमात्रमेवाहं कर्ता कारयिता भवान् ।। ६
सुव्रत उवाच-
इत्युत्तमवचः श्रुत्वा पश्यन् दूरस्थितां जयाम् । तथास्त्विति हरिः प्राह प्रहसन्मुखपङ्कजः ।। ७
जयान्तिकमथोपेत्य तत्तथाऽवददुत्तमः । सापि प्रीता स्वानुजावत्तत्सम्भारानचीक्लृपत् ।। ८
हरिश्चाह मुनीन्सर्वान् भक्तांस्तत्र च सङ्गतान् । पूर्णिमावधि सर्वेऽपि यूयमत्र वसन्तु भोः! ।। ९
आमान्नादेर्ग्रहीतारो येऽत्र स्युर्ब्राह्मणादयः । नृपमोदिवणिग्गेहात्ते गृन्तु यथा पुरा ।। १०
सिद्धान्नस्य च भोक्तारो ये स्युस्तैर्नृपमन्दिरे । भोजनीयं यथाकालं दिवसानि त्रयोदश ।। ११
इति प्रोक्ता भगवता विप्राद्यास्ते तथाऽचरन् । सुखेन न्यवसंश्चैते भक्ता भूपेन सत्कृताः ।। १२
मुन्यादींस्तांस्ततो राजा यथेष्टं प्रतिवासरम् । प्रचुराज्यसितैः खाद्यैः प्रीणयामास भक्तितः ।। १३
सम्भावयन्नृपं सोऽपि भगवन्विविधानि च । कारयामास भोज्यानि जयया नृपमन्दिरे ।। १४
रमा च ललितामुख्या योषितस्तत्र सादरम् । पाकसिद्धयादि चक्रुस्ता निर्मानाः पूर्ववन्नृप ! ।। १५
हरौ भक्तिं परां प्राप्ता जयापि ललितेव सा । आरभ्यैव तृतीयायाः प्रसिताऽभवदुत्सवे ।। १६
प्रभाशङ्करमुख्याश्च ब्राह्मणा अपि पूर्ववत् । गङ्गाद्य विप्रपत्नयश्च विदधुः पाकमादृताः ।। १७
दृढबद्धकटिस्तत्र नित्यं पाकादि कारयन् । आनन्दयामास हरिर्जयां तां ललितामिव ।। १८
महादानान्यथ स्वस्त्रा कारयन् हर्यनुज्ञाया । आनयामास नृपतिर्देयवस्तून्युदारधीः ।। १९
प्रश्रोत्तरैरनेकैश्च सभायां प्रत्यहं प्रभुः । सर्वानानन्दयामास कुर्वन्निःसंशयान् जनान् ।। २०
तृतीयायां प्रदोषेऽसौ कृष्णनीराजनोत्तरम् । नामसङ्कीर्तनं कृत्वा सदःसंस्थोऽब्रवीन्निजान् ।। २१
प्रष्टव्यं यस्य यत्किञ्चिद्बवेत्पृच्छतु मां स तत् । निःसंशयं सेवितौ यद्बक्तिधर्मौ फलप्रदौ ।। २२
हेमन्तसिंहो नृपतिस्तदानीं सदःस्थितस्तं विनयेन नत्वा ।
सद्धर्मपुष्टिं हृदि कामयानः पप्रच्छ च स्वस्य सहान्वयस्य ।।२३
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे प्रबोधन्युत्सवे दुर्गपुरे मुन्याद्यावासननामा त्रयोविंशोऽध्यायः।।२३।।