अथ द्वाविंशोऽध्यायः

सुव्रत उवाच-


सदःस्थाखिलभक्तौघवीक्ष्यमाणाननाम्बुजः ।
श्रीनीलकण्ठः प्रोवाच सर्वानथ निजाश्रितान् ।। १


श्रीनारायणमुनि उवाच-

औद्धवे सम्प्रदायेऽस्मिन् सर्वे सत्सङ्गिसंज्ञिाताः ।
यूयं भवथ तन्नाम धार्यमन्वर्थकं ततः ।। २

सत्सङ्गेनैव मुक्तिः स्यादित्याचार्यमतं हि नः ।
अस्तीति सत्सङ्गपदं निर्वच्मि श्रृणुताखिलाः ।। ३

सच्छब्देन परंब्रह्म साधवश्च तदाश्रिताः ।
प्रोक्तास्तदीयो धर्मश्च शास्त्रं चैतत्त्रिकाश्रयम् ।। ४

तत्र विष्णुः परंब्रह्म योऽसौकृष्णो नराकृतिः ।
नृत्वेऽपि दिव्यकर्मा च दिव्य एव नृनाटयधृत् ।। ५

तदुक्तधर्मसंस्था ये सद्बक्तास्ते तु साधवः ।
निरुप्यतेऽथ सद्धर्मः साक्षाद्बगवतोदितः ।। ६

श्रीमद्बागवते प्राह नारदस्तं युधिष्ठिरम् ।
राजसूयमखस्यान्ते तमेवाहं ब्रुवे स्फुटम् ।। ७

श्रीनारद उवाच-

नत्वा भगवतेऽजाय लोकानां धर्महेतवे ।
वक्ष्ये सनातनं धर्मं नारायणमुखाच्छ्रुतम् ।। ८

योऽवतीर्यात्मनोंऽशेन दाक्षायण्यां तु धर्मतः ।
लोकानां स्वस्तयेऽध्यास्ते तपो बदरिकाश्रमे ।। ९

धर्ममूलं हि भगवान्सर्ववेदमयो हरिः ।
स्मृतं च तद्विदां राजन्! येन चात्मा प्रसीदति ।। १०

सत्यं दया तपः शौचं तितिक्षेक्षा शमो दमः ।
अहिंसा ब्रह्मचर्यं च त्यागः स्वाध्याय आर्जवम् ।। ११

सन्तोषः समदृक्सेवा ग्राम्येहोपरमः शनैः ।
नृणां विपर्ययेहेक्षा मौनमात्मविमर्शनम् ।। १२

अन्नाद्यादेः संविभागो भूतेभ्यश्च यथार्हतः ।
तेष्वात्मदेवताबुद्धिः सुतरां नृषु पाण्डव ! ।। १३

श्रवणं कीर्तनं चास्य स्मरणं महतां गतेः ।
सेवेज्यावनतिर्दास्यं सख्यमात्मसमर्पणम् ।। १४

नृणामयं परो धर्मः सर्वेषां समुदाहृतः ।
त्रिंशल्लक्षणवान्राजन्सर्वात्मा येन तुष्यति ।। १५

इत्थं क्षीनारदः प्राह सतो धर्मान् युधिष्ठिरम् ।
तेषामर्थं तत्त्वतोऽहं कथयामि समासतः ।। १६

तत्र सत्यं तु जीवानां हितकृद्वचनं मतम् ।
परदुःखासहिष्णुत्वं दया नत्वात्मबन्धकृत् ।। १७

यया भवेदपयशः स्वस्य वा स्वानुयायिनाम् ।
साप्यस्माकं मते नूनं दया नैवास्ति सम्मता ।। १८

व्रतोपवासकृच्छ्राणि स्वधर्मश्च तपो मतम् ।
शौचं तु द्विविधं प्रोक्तं बाह्यं चाभ्यन्तरं तथा ।। १९

तत्र बाह्यं मृदम्बुभ्यामस्पर्शात्पापकर्मणाम् ।
त्यागाच्च मद्यमांसादेस्तथा साङ्कर्यकर्मणः ।। २०

आभ्यन्तरं तु सर्वेषामात्मवच्छुभचिन्तनम् ।
मानसानां मलानां च सद्विचारेण शोधनम् ।। २१

यत्प्राप्तं देशकालाभ्यां दुःखं प्रारब्धकर्मणा ।
तत्सम्मर्षस्तितिक्षेक्षा युक्तायुक्तविवेचनम् ।। २२

शमस्तु मनसोऽक्षोभः पञ्चभिर्विषयैरपि ।
प्रोक्तो बाह्येन्द्रियाणां च निग्रहोऽकार्यतो दमः ।। २३

आलिक्षाया आमनुष्यात्प्राणिमात्रस्य सर्वथा ।
अद्रोहो बुद्धिपूर्वं यः सा त्वहिंसेति कथ्यते ।। २४

आत्मघातानाचरणं स्वर्गार्थमपि सोच्यते ।
ब्रह्मचर्यं चागृहिणामष्टधा स्त्रीविवर्जनम् ।। २५

गृहस्थानां तु तत्प्रोक्तं परस्त्रीसङ्गवर्जनम् ।
त्यागस्तत्स्वस्त्रियाश्चोक्तं व्रतश्राद्धाहपर्वसु ।। २६

अष्टधा पुरुषत्यागो विधवानां तदुच्यते ।
स्त्रीणां च सधवानां तत्परपुंसङ्गवर्जनम् ।। २७

त्यागः स्वशक्तितो दानं पदार्थानां स्त्रियं विना ।
स्वाध्यायः स्वोचितस्तोत्रमन्त्रादेः शक्तितो जपः ।। २८

आर्जवं वक्रतात्यागः सन्तोषोऽन्नांशुकादिषु ।
दैवलब्धेष्वलम्बुद्धिस्तथा स्तेयस्य वर्जनम् ।। २९

ब्रह्मचर्यादिनियमैर्युक्तानां कृष्णसेविनाम् ।
सेवोक्ता समदृक्सेवा विनयेनानुवर्तनम् ।। ३०

शनैः शनैर्ग्राम्यसौख्याद्विरामः संसृतिप्रदात् ।
अनुद्योगस्तदर्थं च ग्राम्येहोपरमो मतः ।। ३१

प्रोक्ता विपर्ययेहेक्षा ग्राम्यसौख्याप्तये नृणाम् ।
बहुधा यतमानानां दुःखबाहुल्यदर्शनम् ।। ३२

वृथा प्रलापतो बुध्घा निवृत्तिर्मौनमुच्यते ।
देहात्पृथक्तया ज्ञानं जीवस्याऽत्मविमर्शनम् ।। ३३

यथोचितं तु जीवेभ्यो दत्त्वैवान्नोदकादि च ।
तस्योपभोगाचरणं संविभाग इतीर्यते ।। ३४

ज्ञात्वैव व्यापकं विष्णुं सर्वभूतेषु सन्नतिः ।
ज्ञोयाऽत्मदेवताबुद्धिर्मानमत्सरवर्जनम् ।। ३५

कथामृतस्य श्रीविष्णोः पानं श्रवणमुच्यते ।
गुणानां गायनं तस्य प्रेम्णा कीर्तनमुच्यते ।। ३६

तस्य मूर्तेर्हृदि ध्यानं नित्यदा स्मरणं मतम् ।
तस्य निश्छद्मभावेन सदा सेवानुवर्तनम् ।। ३७

विधिना पूजनं चेज्या तस्य शाक्तयनुसारतः ।
नमस्कारश्च साष्टाङ्गं तस्मा अवनतिर्मता ।। ३८

परिचर्या तस्य दास्यं सख्यं स्त्रेहातिशायिता ।
सर्वथा तदधीनत्वं प्रोक्तमात्मसमर्पणम् ।। ३९

सद्धर्म एष कथितस्त्रिंशल्लक्षणवान् परः ।
सच्छब्दार्थ इति त्रेधा तत्त्वतोऽत्र निरुपितः ।। ४०

सच्छब्दवाच्यमेतच्च त्रितयं यत्र वर्णितम् ।
स्यात्तत्सच्छास्त्रमुदितं सङ्क्षिप्तं वापि विस्तृतम् ।। ४१

वेदाः श्रीमद्बागवतं नीतिश्च विदुरोदिता ।
विष्णोर्नामसहस्त्रं च गीता भागवती तथा ।। ४२

शारीरकाख्यसूत्राणि याज्ञावल्क्यस्मृतिस्तथा ।
श्रीवासुदेवमाहात्म्यमिति तज्ज्ञोयमष्टकम् ।। ४३

येऽनुसृता भवेयुश्च सद्ग्रन्था एतदष्टकम् ।
तेऽपि सच्छास्त्रमित्युक्ता मुमुक्षूणां हितावहाः ।। ४४

सच्छब्दार्थ इति प्रोक्तः सङ्गशब्दार्थ उच्यते ।
सतः कृष्णस्य सङ्गस्तु साक्षाद्बक्तिर्दृढं स्थिरा ।। ४५

साधूनां च सतां सङ्गः सेवाऽर्चा तद्वचःस्थितिः ।
धर्माणां तु सतां सङ्गस्तदत्यागो विपद्यपि ।। ४६

सतः शास्त्रस्य सङ्गस्तु कृष्णभक्तयादिपुष्टये ।
श्रवणं कीर्तनं प्रीत्या पाठनं श्रावणं तथा ।। ४७

एतेषां हि सतां सङ्गो येषामीदृग्भवेद्बुवि ।
सत्सङ्गिनस्ते कथिताः सम्प्रदाय इहौद्धवे ।। ४८

एत एकान्तिका भक्ताः कथ्यन्ते शास्त्रदर्शिभिः ।
सन्तो भागवताश्चैव सात्त्वताः साधवस्तथा ।। ४९

भक्ता एते तु देहान्ते धाम गोलोकमुत्तमम् ।
लभन्ते राजते यत्र श्रीराधाकृष्ण ईश्वरः ।। ५०

एतं विहाय सत्सङ्ग सज्जन्तेऽन्यत्र येऽसति ।
कुसङ्गिनस्ते विज्ञोया असदीशादिसङ्गिनः ।। ५१

कालो माया स्वभावश्च कर्म तामसदेवताः ।
अस्वातन्त्र्यादिमे प्रोक्ता असदीश्वरसंज्ञाकाः ।। ५२

कालाद्युपासका विष्णुं विहाय परमेश्वरम् ।
श्रुतिस्मृतिविरुद्धेहा असन्तः साधुसंज्ञाकाः ।। ५३

दम्भमानकलिक्रोधहिंसालोभस्मरादयः ।
अधर्मसर्गजाः पापा असन्तो धर्मविभ्रमाः ।। ५४

असदेतत्त्रयं यत्र वर्णितं स्यान्निजेच्छया ।
असच्छास्त्रं तु तत्प्रोक्तमल्पं वा महदस्तु तत् ।। ५५

एतच्चतुष्टये सक्ता ये नरा असति ध्रुवम् ।
कुसङ्गिनस्त एवोक्ता दम्भभक्तादिनामकाः ।। ५६

जना असद्धियस्त्वेते पाषण्डिगुरुभिर्मुहुः ।
वञ्चिता वित्तयोषादिग्रहणैस्तांस्त्यजन्ति हि ।। ५७

सतः श्रयन्ते तेऽथैषां दृा शीलं तु दुष्करम् ।
 हित्वा तानथ कुण्डादीन् श्रित्वा क्रीडन्ति कीशवत् ।। ५८

ततस्ते गुरुभिः साकं शिष्यसंज्ञाः कुसङ्गिनः ।
प्रयान्ति नरकान् घोरान् देहान्ते नात्र संशयः ।। ५९

इति सत्सङ्गशब्दार्थदीप उद्दीपितो मया । ज्ञा
त्वा तेनान्वहं सन्तः सङ्गम्या ईश्वरादयः ।। ६०

सत्सङ्गदीपकमिमं कुमतान्धकारनाशं समाश्रयति यः श्रुतिकीर्तनाभ्याम् ।
सोऽज्ञानसन्तमसतो भवबन्धहेतोर्मुक्तो भवत्यभिमतं लभते स सौख्यम् ।। ६१


सुव्रत उवाच-

श्रुत्वा गुरोर्वजनमेतदसंशयं ते भक्तास्तदेकशरणा जगृहुः शिरोभिः ।
आज्ञापिता निजनिजां वसतिं ययुस्ते तेनाथ सोऽप्युटजमात्मन आजगाम ।। ६२


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे अन्नकूटोत्सवे सत्सङ्गदीपप्रकाशननामा द्वाविंशोऽध्यायः ।।२२।।