सुव्रत उवाच-
ततो भोजयितुं स्वामी क्षत्रियादीन्निजाश्रितान् ।
आज्ञापयन्नृपं सोऽपि सत्वरं तानुपाह्वयत् ।। १
पञ्चार्द्रान् पङ्क्तिशः सर्वान् यथार्हं तानवीविशत् ।
परिवेषयितुं तांश्च द्विजानन्यान् स आदिशत् ।। २
अन्नं चतुर्विधं सर्वं सत्वरं पर्यवेषयन् ।
द्विजास्तांस्तेऽथ मुनिवत्सर्वे बुभुजिरे नृप ! ।। ३
भुञ्जानान् भगवान् प्रीत्या पुनः पुनरदापयत् ।
पक्वान्नं व्यञ्जनादीनि हसंस्तांश्च स हासयन् ।। ४
तृप्तानिव समालक्ष्य नृपादींस्तांस्ततः स्वयम् ।
तेषां स्वदोःप्रसादेच्छामुदतिष्ठद्विदन्प्रभुः ।। ५
तिष्ठन्नुच्चे स पीठे पृथुलकटितटाबद्धकौशेयवासा ।
नानापुष्पावतंसः स्थलकमलमिलन्मल्लिकाहारराजिः ।।
नानाभक्तेक्षणाब्जैः परिरचितमहातोरणश्रीभिरेभिः ।
सग्रासास्यास्फुटोच्चैर्जयजयवचनैर्हासितोऽसौ व्यराजत् ।। ६
आहूतैश्चपलमुपागतैर्मुनीन्दैः पक्वान्नाभृतपृथुताम्रपात्रहस्तैः ।
तस्याग्रे चपलपराग्गतिप्रवीणैस्तद्दोष्णोः स्तिमितविलोचनैश्च तस्थे ।। ७
दोर्भ्यां तूर्णां गृहीत्वा मुनियुगलधृतात् पात्रतः शष्कुलीनां ।
षट्कं वा सप्तकं वा झटितिपदगतिः प्रत्यमत्रं ददानः ।।
पात्रस्थाद्यैरपि स्वैर्विकचसरसिजाभोर्ध्वहस्तद्वयैस्तैः ।
प्रीत्यैवाभ्यर्थ्यमानः स्मितमधुरमुखः पङ्क्तिशः सर्वतोऽगात् ।। ८
एकवारं हरिः कृत्वा सर्वत्र परिवेषणम् ।
पर्पिकाखाजकादींश्च स मुहुः पर्यवेषयत् ।। ९
परिवेषणचातुर्यान्मुहुः सर्वत्र चेक्षणात् ।
बहुरुप इवादर्शि जनैरचिरकृत्प्रभुः ।। १०
गृहाण पिण्डकं सोम ! गृहाणालर्क ! शष्कुलीम् ।
मृदुलं खाजकमिदं जीववर्मन् ! गृहाण भो ! ।। ११
गृहाण गोलकं वीर ! रत्नजित् ! पर्पिकां च भो ! ।
वदन्नेवं हरिः प्रादात्सर्वेभ्योऽपि मुहुर्मुहुः ।। १२
हरेः प्रसादमाहात्म्यं विदन्तो भोजकाश्च ते ।
अभुञ्जत तदाऽकण्ठं स्वयं चाप्याप्तविस्मयाः ।। १३
तृप्तत्वाच्च सफूत्कारमश्नन्मृदुलशष्कुलीम् ।
सुरस्तां ददतं प्राह तुन्दस्फाटो भविष्यति ।। १४
इत्युक्तवन्तं तं स्वामी प्राह चिन्ताऽत्र नास्ति वै ।
यतः कृष्णप्रसाद्यन्नमश्नतां नोदरं स्वकम् ।। १५
अनूर्ध्ववदनं नाञ्जं कुर्वन्तं करधूननम् ।
दृा करेण तत्पात्रे शष्कुलीं हरिरक्षिपत् ।। १६
अब्रुवाणं तथाप्येनं दृादात्स हसन् प्रभुः ।
तिस्त्रोऽन्याः स तदा चक्रे ह्यूर्ध्वदृक् सिंहगर्जनाम् ।। १७
दूराद्दृा हरिं स्वीयं धूनयन्तं शिरः शनैः ।
सोमं दृा तत्समीपं स उपेत्याब्रवीद्वचः ।। १८
स्थविरेण त्वया खाद्ये न गृहीतेऽयमुत्तमः ।
लज्जिष्यत इति प्रोच्य ददौ तस्मै स शाटकान् ।। १९
दूरादेव प्रकुर्वन्तमलीकं सिंहगर्जनम् ।
मान्त्रिकं स प्रभुः प्रापत्तद्विद्विरदनाननम् ।। २०
पायसेन घृताक्तेन पृथुलं कांस्यभाजनम् ।
तदीयं पूरयामास तदोच्चैःसोऽकरोद्ध्वनिम् ।। २१
ततोऽन्यत्र हसन्प्रायाद्दोश्चतुर्लड्डुकः प्रभुः ।
रिक्ते हम्मीरजित्पात्रे तान् क्षिप्त्वा जगृहेऽपरान् ।। २२
लज्जयैव निषेधन्तं कराभ्यां तमवेत्य च ।
पुनः करस्थांस्तान्दत्वा सिंहध्वनिमचीकरत् ।। २३
दृा वैरिभयं वृद्धं चर्वन्तं पर्पटं शनैः ।
त्वद्योग्यमेतदित्युक्त्वाप्रादात्तस्मै स पर्पिकाम् ।। २४
एवमानन्दयन्भक्तान् पार्षदान् स्वान्स ईश्वरः ।
सर्वानपि मुहुः प्रीत्या यथेष्टं पर्यवेषयत् ।। २५
पक्वान्नभृतपात्राणि गृहीत्वा मुनयः प्रभोः ।
समीप एव बहवस्तिष्ठन्ति स्म विचक्षणाः ।। २६
समाप्यमान एकस्मिन् पात्रे सद्योऽपरं परे ।
न्यधारयन् पूर्णपात्रं नारायणमुनेः पुरः ।। २७
हरेः पृष्ठचरो ब्रह्मानन्दोऽदत उवाच तान् ।
एतादृशप्रसादाप्ती राजानो ! दुर्लभा ननु ।। २८
अनित्य एव देहोऽस्ति यूयमित्यपि वेत्थ वै ।
अतो वपुरनादृत्य सम्यगश्नीत निर्भयाः ।। २९
इत्युक्ते तेन जहसुर्भोजकाश्च हरिः स्वयम् ।
सर्वत्र पात्रपूरं हि चकार परिवेषणम् ।। ३०
सहासमित्थं तान् सर्वान् यथेष्टं परिवेष्य च ।
हस्तप्रक्षालनं कृत्वा पीठे तस्थौ ततः प्रभुः ।। ३१
ललाटं शुशुभे तस्य श्रमस्वेदस्य बिन्दुभिः ।
मुक्ताफलानां दामन्या विभूषितमिवार्चकैः ।। ३२
अतितृप्तांस्तथाचान्तान् स्वस्वावासगमाय सः ।
प्रीत आज्ञापयामास जग्मुस्ते च नराधिप ! ।। ३३
गतेषु तेषु भगवान्भोक्तुं तान् परिवेषकान् ।
आज्ञाप्य योषितस्ताश्च निजमन्दिरमाययौ ।। ३४
कृष्णार्थं च स्वयं पाकं शुचिर्भूत्वा विधाय सः ।
तस्मै निवेद्य तच्छेषं बुभुजे धर्मधारकः ।। ३५
भुक्त्वाथ सम्यक् स्वस्थानं ययुस्ते परिवेषकाः ।
ललिता भोजयामास ततः सर्वाश्च योषितः ।। ३६
नापितेभ्यः कुलालेभ्यो ह्यन्नार्थिभ्यश्च सर्वशः ।
देशान्तरीयलोकेभ्यः प्रादाच्चान्नं यथोचितम् ।। ३७
दीयतां दीयतां चेति गृह्यतां गृह्यतामिति ।
शब्दो बभूवाविरतं नृपतेर्मन्दिरे तदा ।। ३८
जनेभ्यो विभजन्ती तदन्नं प्रासादिकं हरेः ।
आसायमपि तस्यान्तं न लेभे ललिता तु सा ।। ३९
हरेरेव प्रतापं तं जानती सातिविस्मया ।
तमेव सर्वभावेन भेजे नित्यमतन्द्रिता ।। ४०
इत्थं नरेश ! प्रभुरन्नकूटमहोत्सवं सम्यगकारयत्सः।
येनोज्जवला कीर्तिरभूज्जगत्यां तस्य क्षितीन्द्रस्य नृपैर्दुरापा ।। ४१
आसंश्च दीपावलयो निशायां तथाह्नि पूर्वे हरमन्दिरादौ।
सभा महत्याऽस च तत्र तस्यामुपाविशत् पीठ उदार ईशः ।। ४२
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे अन्नकूटोत्सवे निजपार्षदोत्तमादिनृपतिमण्डलसन्तर्पणे भगवत्पेरिवेषणलीलानिरुपणनामैकविंशोऽध्यायः ।।२१