सुव्रत उवाच-
आज्ञायाथ हरेः सर्वे मुनयः साधवो नृप ! । कृतशुद्धिविधानास्ते भोक्तुमीयुस्त्वरान्विताः ।। १
अनुज्ञातो भगवता सर्वांस्तान्भोजकान्नृप ! । उपावीविशदायातान्मुक्तानन्दो यथोचितम् ।। २
मर्यादयोपविष्टेषु तेषु त्यागिषु पंक्तिशः ।जलानि बिभरामासुर्बद्धकच्छा द्विजातयः ।। ३
आज्ञापयामास ततो भगवान्निजपार्षदान् । द्विजानन्यांश्च शतशः परिवेषणकर्मणि ।। ४
आदौ पत्रावलीर्दत्त्वा ततः पर्णपुटान् दृढान् । दत्वा क्रमेण शाकानि द्विजास्ते पर्यवेषयन् ।। ५
स्नतः स्वयं च कौशेयाबद्धपीताम्बरश्चरन् । पंक्तिमध्येषु मुनिभिः परिविष्टिमकारयत् ।। ६
तत्रानभ्यस्ततत्कर्मा मुक्तानन्दस्तु बुद्धिमान् । अभिज्ञा इव युक्तयैव चक्रे तत्परिवेषणम् ।। ७
ब्रह्मानन्दस्तु झटिति हरये करलाघवम् । दर्शयन् हासयामास तं च भक्तजनान्भृशम् ।। ८
विचित्रभक्ष्यभोज्यादेर्नामान्युच्चारयंस्तदा । महानुभावानन्दोऽपि हासयामास चाखिलान् ।। ९
नित्यानन्दशुकानन्दौ परिवेषणकर्मणि । स्तूयेते स्मातिचातुर्यात्सर्वैः सहरिभिर्जनैः ।। १०
सर्वपङ्क्तिषु साम्येन पदार्थार्पणलाघवात् । आनन्दानन्द आनन्दं हरेरजनयत्तदा ।। ११
स्वयम्प्रकाशानन्दश्च मुनिः श्यामलविग्रहः । ध्याननिष्ठावशतया पर्यवेषयदक्रमम् ।। १२
आत्मानन्दः कृशाङ्गोऽपि परिपेषणपाटवः । क्षणेनैकेन वटकान् परितः पर्यवेषयत् ।। १३
मुकुन्दानन्दमुख्याश्च भगवत्प्रीतये तदा । शष्कुलीखाजकादीनि परितः पर्यवेषयन् ।। १४
व्यञ्जनानि विचित्राणि पक्वान्नानि च सर्वशः । सर्वेषामेव पात्रेषु नापुरन्योन्यमिश्रताम् ।। १५
सर्वं सर्वेषु पात्रेषु परिवेषितमीश्वरः । विलोक्याज्ञापयामास भोक्तुं सर्वान्निजाश्रितान् ।। १६
ततो बुभुजिरे राजन्! गृहीताज्ञाः परस्रम् । साधवो मुनयः सर्वे स्तुवन्तोऽद्यगुणान्मुहुः ।। १७
सर्वमेव हि सुस्वादु भक्ष्यं भोज्यं तदश्नताम् । क्रमप्राप्ते पदार्थेऽभूद्रसास्वादो विशेषतः ।। १८
पुनः पुनः स्वपात्रेषु शष्कुलीघृतपूरकान् । क्षिपतो भोजकाः साधून् न्यषेधन्करधूननैः ।। १९
निषेधद्बयः परावृत्तानश्नद्बयः परिवेषकान् । ऋजुबुद्धीन् मुनीन्प्राह भगवान्प्रहसंस्तदा ।। २०
हांहां हुंहुं रवे देयं देयं च करधूनने । शिरःकम्पेऽपि दातव्यं न देयं सिंहगर्जने ।। २१
इत्युक्तास्ते तु मुनयो लड्डुकान्मौक्तिकाह्वयान् । आसिंहगर्जनात्तेषाममत्रेष्वक्षिपन्नृप ! ।। २२
औत्सुक्यादथ दृढबद्धपीतवासाः साधूनां नृप ! परिवेषणं विधातुम् ।
उत्तस्थौ स्वयमपि हर्षयन्स्वभक्तान्सर्वेषामपि स तदैकदृश्य आसीत् ।। २३
ज्ञात्वा तं मुनिपरिवेषकाममीशं पक्वान्नाचितपृथुरीतिपात्रहस्ताः ।
धावन्तो रभसपराग्भवत्पुरोगं ह्यासेदुः सपदि तदन्तिकं द्विजाश्च ।। २४
तत्तत्पात्रात्स गृंश्चपलगतिपदो लड्डुकान्मौक्तिकाख्यान् ।
द्वौ द्वौ दोर्भ्यां च पङ्क्तिक्रमणमनुसृतः प्रत्यमत्रं ददानः ।।
स्वानां स्वीयप्रसादाभिलषितमपि सम्पूरयन्पूर्ण कामस् ।
तेषां सर्वासु पङ्क्तिष्वपि मुहुरचरद्बुरिदोर्लाघवश्रीः।।२५।।
लड्डुकान्स परिवेष्य मौक्तिकानाशु शाष्कुलिकमप्यनाकुलः ।
पर्यवेषयदवापुरद्बुतं तेन भूरि परिवेषका अपि ।। २६
सर्वतः परिवेष्येत्थं प्रहसद्वदनो हरिः । भुङ्ग्ध्वं यथेष्टं शनकैरित्युक्त्वाऽशोधयत्करौ ।। २७
धृत्वाथ घृतभृङ्गारं निषिञ्चन् स्थूलधारया । मुनिपायसपात्रेषु मुकुन्दोऽहासयत्प्रभुम् ।। २८
पात्रसम्भृतपक्वान्नांस्तानथेङ्गितविद्धरेः । स एव वर्णिराडुच्चैः प्राह नैष्ठिक ऊर्ध्वदोः ।। २९
हरेः प्रासादिकं खाघं स्वपात्रे केनचित्क्वचित् । नावशेष्यं महामुक्ता ! इत्याज्ञा पारमेश्वरी ।। ३०
इत्युक्ते तेन तद्वाक्यं ब्रह्मानन्दोऽतिमानयन् । हसन्नाम्रेडितं कृत्वा श्रावयंस्तानभोजयत् ।। ३१
तद्बयादेव भक्ष्याणि सर्वे तेऽपि शनैः शनैः । अभुञ्जतैव निःशेषं वीक्षमाणाः परस्परम् ।। ३२
ओदनं क्वथिकां चाथ घृतं च प्रचुरं प्रभुः । परिवेष्य द्विजैः सर्वांस्तर्पयामास भोजकान् ।। ३३
अतितृप्तान्भोजनेन गृहीतचुलुकोदकान् । स्वस्वस्थानं ततो गन्तुं हरिराज्ञापयच्च तान् ।। ३४
आज्ञाप्ता अपि हरिणा स्वकीयशालां गन्तुं ते मुनिनिकरास्तदीक्षणोत्काः ।
यावत्तद्बहिरुपवेशनं नृपाऽसीत्तावत्तेऽप्यमुमुपतस्थिरे स्वनाथम् ।। ३५
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे अन्नकूटोत्सवे साधुसन्तर्पणनामा विंशोऽध्यायः।।२०।।