अथ एकोनविंशोऽध्यायः

सुव्रत उवाच-


अथ तदा ललितापि निदेशतो भगवतो निजपूज्यहरेः पुरः ।
रचयितुं पृथगन्नगिरिं भुवं नृप ! विशोध्य चकार सुमण्डलम् ।। १

समुपवेश्य हरिं मृदुलासने सह जयादिभिरादरतो भृशम् ।
वसनचन्दनकुङ्कुमकेसरैः कुसुमहारवरादिभिरार्चिचत् ।। २

कनकभोजनताटकमुज्जवलं पुरत एत्य जया निदधौ हरेः ।
तदभितोऽकृत कंसशुभावलिं त्वथ रमा निदधे लघुवाटिकाः ।। ३

कलशमुज्वलमम्बुभृतं तदा रतिरुपेत्य दधार च दक्षिणे ।
भगवतः पुर एत्य दधौ शुभं कनककंसमथो ललितानुजा ।। ४

निजनिजां परिवेषणचातुरीं प्रकटयन्त्य इव प्रभुतुष्टये ।
झटिति संविदधुः परिवेषणं सकमलारतिफुल्लजयादयः ।। ५

अमरी देविका क्षेमा फुल्ला रामादयः स्त्रियः ।
पदार्थान् स्वस्वरचितांस्तत्रानिन्युर्मुदान्विताः ।। ६

स्वस्वकल्पितपाकेषु यद्यच्चातुर्यसीमय ।
कृतं प्रीत्यै प्रभोस्तत्तत्तदानीं पर्यवेषयन् ।। ७

पदार्थान् सकलांस्तत्र पूर्ववत्परिवेषितान् ।
एकोत्तरशतं दृा हरये ललिताऽर्पयत् ।। ८

हसन्ती तां रमा प्राह भुङ्क्ष्वेति वद ते प्रभुम् ।
दिदृक्षामोऽत्र भुञ्जानमेता वयमपि ध्रुवम् ।। ९

इत्युक्ता सापि भगवन्मुखपद्मार्पितेक्षणा ।
तस्थौ बद्धाञ्जलिपुटा पुरस्तात्तस्य भूपते! ।। १०

तदा साक्षात्कृष्णः करकलितपक्वान्नकवलः पिबन्मध्ये मध्ये सुसलिलमभुक्तातिमुदितः ।
समीपस्था राधा करकमलसन्नक्तकधरा हसद्वक्त्राम्भोजा चपलनयनाऽवीजयदमुम् ।। ११

साश्चंर्य योषितः सर्वास्तदा तं पुरुषा अपि । प्रत्यक्षमेव ददृशुः पश्यभक्तमनोहरम् ।। १२

ततः कृष्णोऽपि भगवान्भक्तानानन्दयन्निजान् ।
तत्तत्पदार्थनामानि पृच्छन्स बुभुजे रमाम् ।। १३

अतिस्वादु कृतमिदं कयेति च पुनः पुनः ।
नामानि तत्तत्कर्त्रीणां पृच्छंस्ताः प्रशशंस सः ।। १४

मुनयश्च जनाः सर्वे योषितश्चापि दूरतः ।
वीक्षमाणास्तमात्मेशमानन्दं लेभिरे भृशम् ।। १५

मितभुक् स हरिः किञ्चद्बुक्त्वाथोत्थातुमैहत ।
तं स्थापयन्ती ललिता जगावष्टपदीमिमाम् ।। १६

प्रभो ! भुङ्क्ष्व कामं प्रभो ! भृङ्क्ष्व कामं गच्छसि किमु झटिति सलीलम् ।
सहजसुख ! सुन्दरे तिष्ठ मम मन्दिरे मुञ्च चपलतर ! शिशुशीलम् ।।
पुरटमयवाटिका रुचिररसमण्डिकाः शोभयति विततरुचिवासे ।
कनकभुजिभाजने भोज्यरुचिराजने खाद्यमिदमुदितरविभासे।। प्रभो० ।। १७

अदनपटुमोदनं सितसुरमिमोदनं पायसमतिसितमथ सूपम् ।
दधिदलितराजिकामिलितहतखारिकामुपनतमनुपममपि पूपम्।।प्रभो० ।। १८

पृथुममलमण्डकं बहुलघृतखण्डकं लड्डुकमधिरसदधिमण्डम् ।
फुल्लसितपूरिकां मृदुलतरपोलिकां माषवटकयुगलमखण्डम्।। प्रभो० ।। १९

चतुरतरसेविकारचितसितफेणिका नैकजनपदजनितशाकम् ।
मिलितघृतशर्करं कदलमथ घुर्घुरं चन्द्रशकलरुचिघृतपाकम्।।प्रभो० ।। २०

त्वदभिमतचिर्भटं मरिचयुतपर्पटं शाष्कुलिकमतुलदधिघोले ।
क्वथितमथ गालितं सुरभिघृतमाहितं द्युतिमति वरकनककचोले।।प्रभो० ।। २१

विधुजरणलोडिते लवणमरिचाञ्चिते दधनि निहितमतिमृदुकूरम् ।
अद्धि शनकैर्हरे! तव रुचिदमाहरे मा कुरुकवलमपि विदूरम्।। प्रभो० ।। २२

करकमलसङ्गतं तव सततसम्मतं लीढि ससितनवनवनीतम् ।
नववसनपावितं पिब नलदवासितं गाङ्गमिदमुदकमतिशीतम्।।प्रभो० ।। २३

शुद्धय करपङ्कजं तदनु मुखनीरजं स्वीकुरु समुचितमुखवासम् ।
तिष्ठ रुचिरासने भक्तमव शासने कुरु मम नयनपथे निवासम्।।प्रभो० ।। २४


सुव्रत उवाच-

इत्यादिभिस्तं वचनैर्भोजयन्तीं शनैः शनैः ।
मितस्मितां ललितां तां प्रशशंसू रमादयः ।। २५

भगवानपि ता योषा वार्तालुरिव रञ्जयन् ।
किञ्चद्बुक्त्वा पुनः प्रीत्यै तासां चुलुकमाचरत् ।। २६

ततस्ताम्बूलपूगादिमुखवासं स ईश्वरः ।
उपेत्य जयया दत्तं गृहीत्वाऽभक्षयत्करे ।। २७

तावत्प्रासादिकं किञ्चिद्राधा तद्बुभुजे प्रभोः ।
भेजाते सद्य एवाथ प्रतिमाकारतां च तौ ।। २८

वृत्तान्तमेतं तु हरिर्निशम्य स्वभक्तविच्चित्रमवाप हृष्टः ।
आज्ञापयामास ततो मुनीन्द्रान्स्वपार्षदांश्चाशितुमाशु चान्यान् ।। २९


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकारणे अन्नकूटोत्सवे भगवतः प्रत्यक्षभोजनलीलानिरुपणनामैकोनविशोऽध्यायः।।१९।।