अथ अष्टादशोऽध्यायः

सुव्रत उवाच-


इति भक्तैः स्तूयमानं प्रीतं राजन् ! प्रभुं रतिः । दूरस्था प्राञ्जलिः प्राह पाकसिद्धिरभूदिति ।। १

ततो नारायणमुनी राधाकृष्णस्य सन्निधौ । अन्नकूटं रचयितुं विप्रमर्चकमादिशत् ।। २

ततः सोऽपि द्विजश्रेष्ठो राधाकृष्णसमर्चने । नित्यं प्रसक्तोऽरचयदन्नकूटं यथाविधि ।। ३

वासुदेवानन्दमुख्यास्तदानीं वर्णिसत्तमाः । पक्वान्नभृतपात्राणि तत्रोपाजहुरादरात् ।। ४

अन्नकूटस्य रचनां यथावत्स विधाय च । निवेदयामास ततः श्रीकृष्णाय नराधिप ! ।। ५

हर्याज्ञायाऽगत्य तत्र मुकुन्दानन्दवर्णिराट् । शुचिर्नीराजनं चक्रे श्रीकृष्णस्य महाव्रतः ।। ६

नारायणमुनिः श्रुत्वा घण्टानादं तदा स्वयम् । तत्रागत्य द्रुतं कृष्णं प्रणनाम कृताञ्जलिः ।। ७

अन्नकूटं ततोऽपश्यन्निचितं वर्णिसत्तमैः । तेषां तत्रातिचातुर्यं प्रशंसन्बहुधा हरिः ।। ८

शतच्छिद्राणि चारूणि वर्तुलानि सितानि च । उपर्युपरि पङ्किस्थान्यपश्यत्खाजकानि सः ।। ९

शष्कुलीर्दक्षिणावर्ता मृद्यः शुभ्राश्च वर्तुलाः । वर्णिभिर्निचितास्तत्र पीठेषु हरिरैक्षत ।। १०

संयावं पृथुपात्रस्थं प्रचुराज्यसितं तथा । घृतेनालोडय कंसारं पर्वतीकृतमैक्षत ।। ११

पर्पिकाखण्डकांस्तत्र चतुरस्त्रान् सुशोभनान् । पीठेषु निचिताञ्छुभ्रानुपर्युपरि चैक्षत ।। १२

पिण्डकान् गुडकांश्चैव ग्रन्थिकान्मोदकांस्तथा । कलिकालड्डुकान्सक्तून्दौहित्रांश्चूर्णलड्डुकान् ।। १३

सोहालिकाः सेविकाश्च मण्डकान् घृतपूरकान् । पूरिकाः पोलिकाः शुभ्राः पायसं च स ऐक्षत ।। १४

दध्योदनं दुग्धकूरं बिरञ्जं मुद्गचूर्णकम् । वटकांस्तिलपिष्टं च शालिपिष्टं सशर्करम् ।। १५

रसालां सुखदां फेणीं पीतसाराणि घुर्घुरान् । गुन्द्रपाकमपूपांश्च पूपान्मौक्तिकलड्डुकान् ।। १६

कलिम्बाञ्छाटकान् रम्यान् स्थिरकान् बहुधाकृतान् । रम्भाफलानि च सिताघृतमिश्राण्यवैक्षत ।। १७

महामत्रेष्वथापश्यच्छाकानि विविधानि सः । कोशातकीं दधियुतां त्वग्लवङ्गादिसंस्कृताम् ।। १८

राजकोशातकीं तद्वद्गवाहारांश्च भिण्डकान् । रक्तालुं स्वर्णदुग्धां च स ददर्श सुसंस्कृताम् ।। १९

अनेकभेदरचितं वृन्ताकं मुत्करीस्तथा । कर्कोटकाञ्छिम्बिकां च कर्कटीं चिर्भटं तथा ।। २०

राजमाषकशिम्बीश्च प्रवालानि मृदूनि च । बिम्बीफलानि मिष्टानि शार्करं कन्दमुज्जवलम् ।। २१

खर्बुजं कारवेल्लं च कूष्माण्डं सूरणं तथा । मुनिशिम्बीः पटोलं च सम्यक् संस्कृतमैक्षत ।। २२

तथैव मेथिकाभाजी तण्डुलीयं च मूलकम् । शतपुष्पामम्ललोणीं जीवन्तीं स्यन्दिकां तथा ।। २३

भाजीं राजगिराख्यां च करञ्जप्रमुखानि सः ।बहून्यालोक्य शाकानि राजिकाराद्धमैक्षत ।। २४

दुग्धिकायाश्चिर्भटस्य कर्कारोः कदलस्य च । तथा शार्करकन्दस्य द्राक्षाखारिकयोरपि ।। २५

शमीशिम्ब्याश्च रचितं राजिकाक्तं स ऐक्षत ।वृन्ताकं भर्जितं दध्ना मिश्रितं पात्रसम्भृतम् ।। २६

राजिकादधिमिश्राश्च वटिका वटकांस्तथा । सोऽपश्यत्पुष्पवटिकाः प्रफुल्ला वतुर्लाः प्रभुः ।। २७

अथाऽलोः कदलादीनां भज्यानि विविधानि च । मृदूनि च प्रफुल्लानि कृतानि बहुयुक्तिभिः ।। २८

एतेषां मध्यभागे च कृतमोदनपर्वतम् । सितं मृदुं सौरभेण व्याप्नुवन्तं दिशो दश ।। २९

उपत्यकायां तस्यैव तुवरीसूपमैक्षत । निभृतं वङ्गपात्रेषु वर्तुलेषु पृथुष्वसौ ।। ३०

तलितान् हरिमन्थांश्च निष्पावान्वर्तुलांस्तथा । क्वथिकां दधि तक्रं च मण्डं पर्पटकांस्तथा ।। ३१

सशर्करेण दुग्धेन क्वथितेन भृतानि च । हैयङ्गवीनेन तथा पात्राण्यैक्षत स प्रभुः ।। ३२

ददर्श चान्यपात्रस्थं नवनीतं सशर्करम् । सुसंस्कृतं चारनालं लघुपात्रस्थितं तथा ।। ३३

श्रङ्गवेरं सजम्बीरं स्वादु भोजकरोचकम् । धान्याकादेश्च चटनीं लवणं चैक्षत प्रभुः ।। ३४

भुजिपात्रमथापश्यदेकं कृष्णस्य सन्निधौ ।हैमं भास्वच्च विततं वर्तुलं पूर्णचन्द्रवत् ।। ३५

वाटिकाभिश्चतुःषष्टया रौप्याभिः सितकान्तिभिः । परितः शोभमानं च पश्यलोकमनोहरम् ।। ३६

एकोत्तरशतं तत्र पदार्थान् परिवेषितान् । प्राग्दृष्टानेव सोऽपश्यन्मुमुदे च ततो भृशम् ।। ३७

अन्नकूटं वीक्षमाणस्तत्र भक्तजनैः सह । भुव्येव निषसादासौ मर्यादां पालयन्प्रभुः ।। ३८

अगापयत्कृष्णकृतं गोवर्धनमहोत्सवम् । पद्यबद्धं सुकविभिस्तदा तत्र स चर्षिभिः ।। ३९

वीणाविपञ्चकाकांस्यतालमर्दलवेणुभिः । अन्यैश्च सह वाद्यैस्ते जगुः कृष्णाननेक्षणाः ।। ४०

नीराजनं चान्नकूटमिति दृा प्रहर्षितः । हरिः प्रणम्य साष्टाङ्गं पूजाविधिमपूरयत् ।। ४१

मुनयश्च जनाः सर्वेऽप्यन्नकूटमहोत्सवम् । दृा जयध्वनिं भक्तया कुर्वन्तोऽतिमुदं ययुः ।। ४२

आनन्द आसीत्सुमहान्नराणां सम्पश्यतां सुन्दरमन्नकूटम् ।
स्त्रीणां तदानीं हरिभक्तिभाजां तत्रागतानां च महीभृदिन्द्र ! ।।४३


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे अन्नकूटोत्सवे भगवद्दृष्टान्नकूटरचनानिरुपणनामाऽष्टादशोऽध्यायः।।१८।।