अथ सप्तदशोऽध्यायः

सुव्रत उवाच-


चन्दनेनाक्षतैः पुष्पैः पूजनं तुलसीदलैः ।
कुर्वन्तस्ते हरेर्भक्तया तुष्टुवुस्तं पृथक् पृथक् ।। १


मुकुन्दानन्द उवाच-

मत्स्यं कूंर्म वराहं कपिलमथ हरिं वासुदेवं च वैन्यं ।
दत्तात्रेयं च हंसं नरहरिमृषभं वामनं पर्शुरामम् ।।
यज्ञां रामं कुमारं हयशिरसमथो नारदं राजराजं ।
व्यासं कृष्णं च बुद्धं धृतपुरुवपुषं नौमि नारायणं त्वाम् ।। २


मुक्तानन्द उवाच-

कौसुमशेखरराजिविराजितभाललसत्तिलके कलितारे ।
चारुसरोजदलायतचञ्चललोचनलोचनमोचितनारे ।।
शोणपटेन कटिं च निबद्धय तदर्पितपाणियुगेऽङ्गदधारे ।
स्मरमुखेऽस्तु मनोऽत्र विभो! त्वयि भूरिसुगन्धिमनोहरहारे ।। ३


गोपालानन्द उवाच-

जय श्रीमद्बास्वच्चयरुचिबृहद्धामनिलय ! प्रभो ! कारुण्याब्धे ! जनसुखविधानात्तनृतनो ! ।
जय स्वामिन्नारायण ! निजजनानन्दद ! सदा दृगग्रे रुपं तेऽप्रतिम ! यदिदं ह्येव वसताम् ।। ४


ब्रह्मानन्द उवाच-

त्वदीयं मनोहारि रुपं मदीयं मनो मा जहातु क्षणं ह्येतदेव ।
अनादृत्य लोकं लसच्छेखराले! वृतस्त्वं मया मस्तकेनासि बाढम् ।। ५


आनन्दानन्द उवाच-

निखिलभक्तजनैरभितोऽर्चितं विविधनूतनवस्त्रमनोहरम् ।
रुचिररत्नविभूषणभूषितं हृदि भवन्तमहं निदद्ये सदा ।। ६


नित्यानन्द उवाच-

किसलयमृदुले पदाम्वुजे ते निजजनहृत्तिमिरापहारशीले ।
विलसदशनिनीरजोर्ध्वरेखे नयनयुगं मम षट्पदत्वमेतु ।। ७


महानुभावानन्द उवाच

केवलं ते कथामेव यः श्रोत्रगां मानवः कोऽपि कुर्यान्न सोऽपि भ्रमेत् ।
संसृतो तर्हि साक्षाद्बवन्तं दृशा पश्यतः सा कुतस्तं भजे त्वां सदा।।८।।


शुकानन्द उवाच-

नित्यं योऽक्षरधाम्रि दिव्यमहसि स्वे प्राकृताख्यात्परे गाढात्सन्तमसात्प्रभोऽक्षरपरः श्रीवासुदेवः स्वयम् ।
मुक्तैर्दिव्यवपुर्भिराश्रितपदोऽसङ्खयैश्च तेजोमयैरास्ते स त्वमिहासि दिव्यनृतनुर्नारायणाख्यो मुनिः ।। ९

स्वज्ञानप्रथनं च भक्तनयनानन्दं च धर्मावनं कर्तुं ह्यात्तनराकृतौ करुणया स्वीयान्तरारिक्षिति ।
प्रादुुर्भावितदिव्यवैभव इह त्वय्येव तस्मिन्मनो लीनं मेऽस्तु सदा सिताम्बरधरे श्वेतप्रसूनस्रजि ।। १०


स्वयंप्रकाशानन्द उवाच-

जाग्रत्स्वप्नसुषुप्तिसाक्षिणि परे मायादिशक्तीश्वरे वैराजस्य हिरण्यगर्भपुरुषस्यापीश्वरस्येश्वरे ।
आत्मीयाक्षरधामनित्यविलसत्क्रीडे मनुष्याकृतौ तस्मिञ्च्छ्रीपुरुषोत्तमे भगवति त्वय्यस्तु मे मानसम् ।


आत्मानन्द उवाच-

कृपया परयैव सद्यो भुवि मूढोऽपि जनो बुधैर्न जेयः ।
भवतीत्यखिलागमैकहेतुं भुवि नारायणमीश्वरं भजे त्वाम् ।। १२


चैतन्यानन्द उवाच-

निदधे हृदये हृदयेश! वपुस्तव देशिकदेशिक ! हंसवृतम् ।
मम मा मतिरन्यपदं विपदं भजतां रमतामिह नाथ ! सदा ।। १३


भजनानन्द उवाच-

सुखयितुमलं लोकं शोकार्णवे बहुधाऽर्दितं परमकृपया दध्रे यो वै नराकृतिमिच्छया ।
तमहमखिलब्रह्माण्डानां भवाभवकारणं स्वहृदि विदधे त्वामात्मानं हरे ! सकलात्मनाम् ।। १४


परमचैतन्यानन्द उवाच- 

अशेषदुःखभञ्जनं निजान्तरङ्गमञ्जनम् ।
विशालनेत्रखञ्जनं नमामि भक्तरञ्जनम् ।। १५


परमानन्द उवाच-

संस्तूयमानमभिपूज्य महर्षिमुक्तैरेकान्तधर्मनिरतैर्गतकालभीकैः ।
स्वातन्त्र्यतो धृतनराकृतिनाटनं त्वां नारायणं नरसखं प्रणतोऽस्मि नित्यम् ।। १६


कृष्णानन्द उवाच-

अव्याकृताभिमतिरीश्वर आदरात्त्वां सङ्कर्षणं ह्यथ विराडभिमान्युपास्ते ।
प्रद्युम्नमच्युत उताब्जभवोऽनिरुद्धं सूत्रात्ममान्यखिलनाथ ! नमामि तुभ्यम् ।। १७


भगवदानन्द उवाच-

मनोभवशरातुरैर्गुरुभिरक्षपोषाकुलैर्विचित्रतिलकादिभिर्ज्ञापितविष्णुभक्तव्रतैः ।
अदृष्टतरवर्त्मने नमदकिञ्चनस्वामिने गवेषितमुमुक्षवे प्रणतपाल! तुभ्यं नमः ।। १८


शिवानन्द उवाच-

नारायण ! तव चरणं शरणं मम कामपूरणं पुंसाम् ।
तारणकारणकरुणाभरणं शरणागतत्राणम् ।। १९


वासुदेवानन्द उवाच-

सकलमुनिजनेशं धर्ममोक्षाब्धिमेशं मखसुखितसुरेशं नाथ ! मज्जीवितेशम् ।
अनुदितमदलेशं पावितानेकदेशं नटवरसमवेशं त्वां भजे मञ्जुकेशम् ।। २०


आत्मानन्द मुनिरुवाच-

अधर्महेतुभेदनं प्रकाशितात्मवेदनं सुरैः कृताभिवन्दनं निरीशमार्गनिन्दनम् ।
निजान्तरारितर्दनं नमामि मानमर्दनं ललाटपीतचन्दनं हरिप्रसादनन्दनम् ।। २१


कपिलेश्वरानन्द उवाच-

उद्दण्डहृग्दतरिपूद्दलनैकवीरो जाडयान्धकारपटलोद्धमने पटीयान् ।
स्वामिन्नघौघदलनो हि तव प्रतापस्तापांश्च पापनिकरान्हरतान्मदीयान् ।। २२


भूधरानन्द उवाच-

क्षोणीक्षेमकरः क्षमाजलनिधिः क्षुद्राध्वविध्वंसकः क्षोणीरक्षकलक्षसेवितपदः क्ष्मादेवरक्षाकरः ।
अक्षक्षोभविहीनवीक्षणसुधालक्षीकृतात्मप्रियः क्षेमं नस्तनुतात्सदा क्षितितले श्रीवासुदेवो भवान् ।। २३


योगानन्द उवाच-

अष्टाङ्गयोगाभ्यसनं विनापि यस्य प्रसादात्सहसा जनानाम् ।
भवत्यवस्थात्रितयात्परत्वं समाधियोगस्तमहं भजे त्वाम् ।। २४


पूर्णानन्द उवाच-

विशदकुसुममालं पापतापौघकालं रुचिरतिलकभालं भक्तसङ्घैकपालम् ।
हृतनिजजनिजालं कालमायाकरालं सुखितपरमरालं त्वां भजे धर्मबालम् ।। २५


गुणातीतानन्द उवाच-

निजानन्दं मन्दस्मितमधुरचन्द्राभवदनं दयासिन्धुं शान्तं बहुविधविभूषाश्च दधतम् ।
अनर्घ्यैर्वासोभिर्नटवरसमानच्छविमहं समायातोऽस्मि त्वां शरणमिह नारायणमुने! ।। २६


प्रेमानन्दादयो मुनय ऊचुः-

जय श्रीमहाराज माराज! सर्गादिकालस्वजाताब्जजातादिकात्मप्रजाजातजन्मादिदुःखापहृज्जन्म !
नैकेन्दुविद्योतदोर्जद्युतिध्वंसितात्मीयहार्दान्धकाराऽदिदेवाद्य ! विद्युत्प्रभाभासवासः !
 सदानन्द ! गोविन्द ! सानन्दवन्दारुमन्दारपादारविन्दोत्तमक्षेमधामाक्षराध्यक्ष !
लोके मुमुक्षायियक्षागमेक्षातितिक्षा-समन्दाक्षतावर्जिताक्षीणविक्षोभणात्माक्षपोषप्रसक्तातिरूक्षाक्षरालापदक्षोद्धतक्षुद्ररक्षोविपक्षक्षयोद्युक्त ! । राधारमाम्भोजजन्मोक्षलक्ष्मार्चितातीक्ष्णवक्षःक्षमारक्षक ! त्र्यक्षभूभृद्वलक्षोत्तमश्लोक !
विष्णो ! वलक्षाख्यपक्षान्तनक्षत्ररक्षाकराभास्य ! दोषप्रशोष ! प्रकाशाश्रयाशेषशर्मेश !
शान्ताशयाशेषसिद्धेश ! सिद्धीश ! बुद्धीश ! बद्धोद्धरध्यान ! नैकावताराधमोद्धारक !
श्रीहरे ! त्वं प्रसीद प्रभो ! दीनबन्धो ! ।। २७


सुव्रत उवाच-

इत्थं त्यागिषु सर्वेषु मुनिषु स्तवनं प्रभोः।
कृतवत्स्वितरेऽप्येनं भक्तास्तुष्टुवुरीश्वरम् ।। २८


सर्वे जना ऊचुः-

अहो धन्याः स्वामिन्वयमिह कृतार्थीकृतकुलास्तपोदानध्यानव्रतहवनमौनादिफलिनः ।
यमद्राक्षीद्धाता नहि नलिननालेऽब्दशतकं विचिन्वंस्तं त्वाद्यं मनुजतनुमीक्षामह ऋतम् ।। २९

निजजनभवतारणातिशैघ्रयादिव धृतपीतपटं दृढाप्तकच्छम् ।लसदरुणपटेन नाथ ! बध्वा स्थितवति नस्त्वयि चित्तमस्तु लीनम् ।। ३०

वागस्माकं गायतु नित्यं गुणजातं कर्णौ नित्य नाथ ! चरित्रं श्रृणुतां ते ।
चक्षुर्नित्यं पश्यतु मूर्ति तव लोके रुपं ह्येतद्धयायतु नित्यं च मनो नः ।। ३१


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे अन्नकूटोत्सवे सकलमुनिसङ्घकृतभगवत्पूजनस्तवननिरुपणनामा सप्तदशोऽध्यायः।।१७।।