अथ षोडशोऽध्यायः

सुव्रत उवाच-
हरिर्निशोऽन्तिमे राजन्! याम उत्थाय सत्वरम् ।
स्वपार्षदैः कतिपयैः सह गङ्गां जगाम सः ।। १

न विदुः प्रायशो लोकाः स्ननार्थं तं गतं प्रभुम् ।
जागरुकास्तु मुनयो विदित्वैव तमन्वयुः ।। २

नित्यस्ननादिकं तत्र विधाय विधिना प्रभुः ।
जनसम्मर्दभीत्याशु स्वमन्दिरमुपाययौ ।। ३

तत्र धौताम्बरधर उपविश्यौर्ण आसने ।
कृत्वा पञ्चोर्ध्वपुण्ड्राणि सन्ध्यावन्दनमाचरत् ।। ४

ततो जप्त्वा च गायत्रीमजुहोज्जातवेदसम् ।
आदरात्कृष्णमभ्यर्च्य तन्मनुं प्रयतोऽजपत् ।। ५

तत एत्योत्तमो भूपस्तं प्रणम्यार्चिचत्प्रभुम् ।
चन्दनाक्षतपुष्पैश्च नूत्नवस्त्रैश्च भूषणैः ।। ६

नद्यां स्त्रात्वाऽगतं तं च ज्ञात्वा विस्मितमानसः ।
धन्याष्टकेन तुष्टाव निजस्वामिनमादरात् ।। ७

पदपङ्कजे रुचिरचङ्कमणे त्वं चलयन्प्रभो! व्रजसि यर्हि च तर्हि ।
मुनिमण्डलं धृतकमण्डलकन्थं ह्यभितोऽनुधावति समीक्ष्य भवन्तम् ।। ८

तव गाङ्गवारिणि हरे! स्न्पनार्थं गमनं त्वशेषतनुभृत्सुखहेतोः ।
भवतीति यास्युषसि पश्यजनेभ्यो भुवि धन्यताप्रदमिदं हि वपुस्ते ।। ९

सदयत्वदीक्षणहतात्मतमस्कास्त्वयि भावतो मधुमिषस्त्रवदस्त्राः ।
तरवोऽप्युपात्तफलपुष्पविनम्रा ऋषयस्त्वदर्चनपरा इव धन्याः ।। १०

बहवः खगा अपि समीक्ष्य भवन्तं ह्यकृतात्मजातिरवणाः श्रितमौनाः ।
अवलम्बितद्रुमभुजाः स्थिरगात्रा भवदङ्गचिन्तनसुखा ननु धन्याः ।। ११

हरिणादयो वनभवाः पशवोऽपि त्वदुदीक्षणैकमनसोऽस्मृतदेहाः ।
न चलन्ति तर्हि मुनयः स्थितिगा वा सुखिनस्त्वयाऽचलदृशो भुवि धन्याः ।। १२

पथि वीक्ष्य भिल्लवनिता वनचर्यः सहसा विसृष्टगृहदैहिककृत्या ।
कृतधावना भुवि निपत्य नमन्त्यो दधतीह धन्यतरतां हि भवन्तम् ।। १३

निजतीरमागतमवेक्ष्य भवन्तं भृतभूरिभक्तिरसविद्रवदङ्गा ।
स्वतरङ्गभङ्गिचपला किल धन्या विवशा भवत्पतिसुखेन च गङ्गा ।। १४

गतिलाघवं स्वकमुदस्य मरालास्त्वदुदारचङ्कमणचिन्तनसक्ताः ।
बहिरन्तराप्तभवदीक्षणधन्या यतयो महान्त इव सन्ति विमुक्ताः ।। १५

स्न्पनं विधाय मुनिभिश्च सलीलं धृतशुक्लवाससमहं निजगेहे ।
स्थितमब्जपत्रनयनं स्मितवक्त्रं दधदस्मि धन्य उरसीह भवन्तम् ।। १६

स्तुवत्येवं नरपतौ जनाः श्रीपुरवासिनः ।
तत्राययुर्ये पूर्वेद्युर्नापुस्तत्पूजनक्षणम् ।। १७

निवेदिता भगवते प्रतीहारेण ते जनाः ।
तदाज्ञायैत्य तत्राशु तं प्रणम्यार्चयन्प्रभुम् ।। १८

नीशारैर्मूदुभिः शोणैः स्वर्णबिन्दुविचित्रितैः ।
सूक्ष्मैरनर्घ्यैररुणैर्दीघैंरपि शिरःपटैः ।। १९

प्रावारैः कटीबन्धैश्च कटकाद्यैर्विभुषणैः ।
चन्दनेनाक्षतैः पौष्पैर्हारैर्नीराजनादिभिः ।। २०

सम्पूज्य तं तदग्रे च पीतसाराणि शर्कराः ।
फलादीनि निधायाथ जग्मुस्तस्याज्ञायैव ते ।। २१

ततो नारायणमुनिः शोणाम्बरधरः प्रभुः ।
बहिर्वेदीमुपेत्य स्वे निषसादासने शुभे ।। २२

जनाश्च मुनयः सर्वे पूर्ववत्तत्र सङ्घशः ।
समागत्य निषेदुस्ते स्वस्वमर्यादयाखिलाः ।। २३

पार्षदा अपि सेवायां तस्यावर्तन्त पूर्ववत् ।
वाद्यान्यवादयंस्तज्ज्ञा गायकाश्च जगुस्तदा ।। २४

स्थितं दीनानाथभट्टं विप्रं तत्रावलोक्य सः ।
तस्मै प्रसन्नो वासांसि स्वकीयानि ददौ तदा ।। २५

स्वाङ्गान्नीशारमुत्तार्य तथैव कटिबन्धनम् ।
प्रावारं स्वमनर्घ्य च ददौ शीर्षपटं तथा ।। २६

धारया रौप्यमुद्राणां पूरयामास चाञ्जली ।
तस्य चानुग्रहं चक्रे भगवान् योगिवाञ्छितम् ।। २७

गाङ्गेयप्रमुखास्तावन्मल्लाः स्वस्मिन्निजप्रभोः ।
दृष्टिपातार्थमाचेरुर्बाह्वास्फोटनमात्मनः ।। २८

स्वामी नारायणो दृा तान्भक्तान् कूर्दनोत्सुकान् ।
रन्तुमाज्ञापयामास तत्प्रीत्यै करसंज्ञाया ।। २९

दृढं निबद्धकच्छास्ते तदैवोत्प्लवनादिभिः ।
हासयामासुरखिलान्कर्मभिः सहरीञ्जनान् ।। ३०

उत्थापने चोन्नयने चालने स्थापने तथा ।
आकर्षणे श्रृङ्खलने प्लवने ताडनादिषु ।। ३१

तेषां चातुर्यमालोक्य तान्प्रशंसन्हसन्प्रभुः ।
प्रसन्नो दापयामास तेभ्यो वस्त्राणि भूरिशः ।। ३२

युक्तिवाक्येषु निपुणस्तथावसरवित्तदा ।
ब्रह्मानन्दो महाबुद्धिः स्मयमानोऽवदत्प्रभुम् ।। ३३

आज्ञा ते ह्यस्तनास्माभिः सद्बिः पाल्या नवा प्रभो ! ।
विनात्र त्यागिनोऽन्येषां फलिता हि मनोरथाः ।। ३४

इत्युक्तस्तेन भगवान्सतः सर्वानुवाच तान् ।
युयमप्यर्चनं मेऽद्य कुरुथैकैकशो द्रुतम्।। ३५

इत्युक्तास्त्यागिनस्तेन घृष्टगन्धादिपाणयः ।
उत्तस्थुः पूजनं कर्तुं हरेः सर्वे नराधिप ! ।। ३६

मुकुन्दानन्दाद्या झटिति भगवत्पार्षदवरास्तथा मुक्तानन्दप्रवरमुनयो हर्षनिभृताः ।
समागत्याभ्याशं बहुतरदयात्यार्द्रसुदृशः प्रभोश्चक्रुस्तस्यार्चनममलसद्वासनहृदः।। ३७


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे अन्नकूटोत्सवे उत्तमसंस्तुतभगवतो बहिर्वेद्युपवेशननामा षोडशोऽध्यायः।।१६।।