पञ्चदशोऽध्यायः

सुव्रत उवाच


पाचकाः कृतपक्वान्नाः शाकसूपादि ते तदा ।
कर्तुमारेभिरे राजन् ! विप्रा योषास्तथा पृथक् ।। १

तस्यां रात्रौ क्षत्रयोषा उत्तमस्यापि मन्दिरे ।
जयारमादयः पाकं चतुर्विधमसाधयन् ।। २

सर्वाः सर्वाणि कार्याणि निर्मानास्तत्र चक्रिरे ।
विशेषेणाधिकारित्वं ब्रुवे तासां यथा तथा ।। ३

जनन्यौ ललितायास्तु चक्रतुस्तत्र शोधनम् ।
तण्डुलद्विदलादीनां पाकार्हाणां यथोचितम् ।। ४

जया च पाककर्त्रीणां सर्वासामपि योषिताम् ।
तत्तत्कार्यप्रेरणेऽभूत्सक्ता चापेक्षितार्पणे ।। ५

पाके दाक्ष्यं दर्शयन्तीर्योषितः प्रशशंस च ।
अजानतीश्च तत्कार्यं ललिताशिक्षययत्स्वयम् ।। ६

रमा तु तत्र सिद्धानि खाजकानि च शष्कुलीः ।
पात्रान्तरे सञ्चिचाय चातुर्यादक्षतानि हि ।। ७

अमरी चामला क्षेमा क्वथिकावटिकादिषु ।
लेह्येषु नानाशाकेषु स्वचातुर्याण्यदीदृशन् ।। ८

रतिमेनासातिदेव्यः पूरिकाः पोलिकास्तथा ।
कुर्वत्यस्तत्र नैपुण्यं दर्शयामासुरात्मनः ।। ९

पाककर्मणि दक्षा च रेवती पायसं शुभम् ।
अपूपांश्चापि संयावं सूपं च कुरुते स्म सा ।। १०

फुल्लादित्यजवामल्लयः कैसराद्यांश्च जाह्नवी ।
एता बहुविधांश्चक्रुरोदनान्रुचिरान्नृप ! ।। ११

यमिफुल्लजया चोभे घर्घुरांश्चक्रतुः शुभान् ।
विदधुर्मण्डकादींश्च तत्रान्या अपि योषितः ।। १२

पाञ्चाली तत्कनिष्ठा च पाचिकाभ्यः प्रतिक्षणम् ।
अपेक्षितानि वस्तूनि दत्तः स्माऽनीय वेश्मतः ।। १३

श्रमिताभ्यः पाचिकाभ्यो विश्रान्तिं नृपयोषितौ ।
ददतुर्ललितोक्तेन कुर्वत्यौ तत्क्रियाः स्वयम् ।। १४

एतासां परिचर्यायां जितामान्यादयः स्त्रियः ।
काष्ठपात्राम्बुदानादाववर्तन्तोद्यताः सदा ।। १५

एलालवङ्गत्वक्पत्रराजिकाजरणोषणैः ।
कुस्तुम्बुरुप्रभृतिभिर्घृततैलसमन्वितैः ।। १६

द्रव्यैः संस्क्रियमाणानां व्यञ्जनानां पुनः पुनः ।
छुम्कारा भूरिशस्तत्र स्त्रीणामासन्महानसे ।। १७

वटकानां पूरिकाणामपूपानां च भूरिशः ।
घृतेषु पच्यमानानां सुर्सुङ्कारास्तथाऽभवन् ।। १८

मृदुसूक्ष्मसितानां च तण्डुलानां महानसे ।
सौरभः पच्यमानानां व्यानशे सकलं पुरम् ।। १९

जितस्वादा अपि च ताः प्रभुं प्रीणयितुं स्त्रियः ।
पाकं चतुर्विधं चक्रुः सूपशास्त्रविदो यथा ।। २०

आपूपिका आन्धसिका निपुणाः पाककर्मसु ।
दृा तत्पाकचातुर्यं निर्माना अभवन्नराः ।। २१

प्रातःकालेऽथ सम्प्राप्ते ब्राह्मणस्त्वर्चकः सुधीः ।
वासुदेवार्चनं चक्रे नवीनैर्वस्त्रभूषणैः ।। २२

अन्नकूटस्य रचनां कर्तुं च हरिमन्दिरे ।
विचित्रं मण्डलं चक्रे नानारङ्गोपशोभितम् ।। २३

तोरणानि तथाऽशोकसहकारादिपल्लवैः ।
अबन्धयद्धरेर्द्वारि रम्भास्तम्भैश्च मण्डपम् ।। २४

पक्वान्नभृतपात्राणां स्थापनर्थं हरेः पुरः ।
पीठानि स्थापयामास चतुरस्त्राण्यनुक्रमात् ।। २५

मध्याह्नपूजाविहितोपचारान्सम्पादयित्वा स हरेर्निदेशम् ।
तस्थौ प्रतीक्ष्यैव महान्नकूटविधान उत्कः सह वर्णिवर्यैः ।।२६।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे अन्नकूटोत्सवे पाकनिष्पत्तिनामा पश्चदशोऽध्यायः।।१५।।