चतुर्दशोऽध्यायः

सुव्रत उवाच -


मुहूर्तमथ विश्रम्य हरिर्नृप! पुनर्बहिः । वेद्यामेत्य निजे पीठे निषसाद सपार्षदः ।। १

अह्नस्तृतीययामान्ते जनसङ्घाः सयोषितः । समेत्य पूर्ववत्तत्र निषेदुर्मुनयस्तथा ।। २

जगुर्गुणानृषिवराः प्रेमानन्दादयो हरेः । वादयन्तो मृदङ्गांश्च वीणावेणुविपञ्चिकाः ।। ३

तावदाकारयामास हरिः पौराणिकोत्तमम् ।
श्रोतुं नित्यकथां राजन्! प्रयागजिदिति श्रुतम् ।। ४

प्रौढाकृतिः सकल शास्त्रपुराणवेत्ता वेदार्थवेदनपटुर्भगवत्प्रसादात् ।
स्पष्टाक्षरप्रवचनो मधुदीर्घशब्दस्तत्राजगाम स मुनीन्प्रणमन्कराभ्याम् ।। ५

बद्धाञ्जलिः स भगवत्पदयोः शिरः स्वं धृत्वा ननाम विनयेन च पार्षदादीन् ।
नारायणोऽपि विधिवद्विनयात्तमुच्चे व्यासासने समुपवेश्य ननाम विप्रम् ।। ६

ब्रह्मण्यदेव इह धर्मपथावनेच्छुः पूज्योऽपि देवपतिभिः स सरस्वतीं प्राक् ।
सम्पूज्य सादरमथो तमपि द्विजेन्द्रमानर्च गन्धवरपुष्पफलोत्तमाद्यैः ।। ७

क्रमप्राप्तां भागवतपञ्चमस्कन्धसङ्गताम् ।
वाचयिष्यन्कथां सोऽथ मङ्गलाचरणं व्यधात् ।। ८

सुनीशारं सारं शुचिकनकबुट्टं परिदधन्निचोलं कौसुम्भं कटितटपटं चारुणरुचिम् ।
बहून् हारान् हैमान्वरवलयकेयूरमुकुटान् हसद्वक्त्रेन्दुर्मे दृशि जयतु नारायणमुनिः ।। ९

य ईशोऽपि स्वेच्छाधृतनृतनुरानन्दनिलयः कृपासिन्धुर्बन्धुर्भवजलनिधौ दुःखितनृणाम् ।
सकामैर्निष्कामैरपि सुरनरैः सेव्यचरणं नमाम्यात्मात्मानं तमहमिह नारायणमुनिम् ।। १०

कृत्वेति मङ्गलं विप्रः कथामचकथत्स ताम् । तत्र तत्राध्यात्मभागं स्फुटीकृत्यावदत्प्रभुः।। ११

स स्कन्धस्तद्दिने पूर्णस्ततः पौराणिकं प्रभुः । सम्पूज्य शीर्षपटकं तस्मै प्रादान्महाधनम् ।। १२

धोत्रप्रावरणादीनि वस्त्राण्यन्यानि च प्रभुः । करभूषाद्यलङ्कारान् ददौ च विपुलं धनम् ।। १३

बहुमूल्यं निजं चाश्वं रोहिताख्यं नृपेप्सितम् । तस्मै प्रादात्स भगवान् हैमालङ्कारभूषितम् ।। १४

ततो व्यासासनाद्विप्रः स उत्थायानमत्प्रभुम् । उपाविवेश मुनिषु सूर्योऽस्तं तावदाप च ।। १५

वासुदेवाङ्गणे तत्र मण्डपः शिल्पिभिस्तदा । चतुरस्रश्चतुर्द्वारश्चक्रेऽतिविततः शुभः ।। १६

दीपानां राजयस्तत्र दिवाकीर्तिभिरायताः । समास्तिर्यक् तथोर्ध्वं च चक्रिरे हि सहस्त्रशः ।। १७

बहिर्वेदिषु बद्धेषु तिर्यग्वंशेषु दीपकाः । सहस्त्रशः कृता भक्तैस्तैर्दीर्घस्थूलवर्तयः ।। १८

दीपिकानां शतान्यासन्नारायणमुनेः पुरः । मधूत्थवर्तिदीपाश्च रौप्याङ्कोड्डेषु भूरिशः ।। १९

काचयन्त्रेषु दीपाश्च तस्मिन्निम्बतरावपि । निबद्धाः शतशो भक्तै र्दिशासु विदिशासु च ।। २०

दीपचक्रभ्रमाश्चापि रथकारैर्हरेः पुरः ।निर्मिता यत्र दीपानां शतान्यासन् भ्रमन्ति वै ।। २१

रत्नेन्द्रसारा इव ते दीपा रोचिष्णवो बभुः । कुहूनिशायास्तिमिरं तदा तत्र व्यलीयत ।। २२

ततः स्वर्णमयीं लक्ष्मीं विप्रानाहूय वैदिकान् । उपहारैर्बहुविधैः सोऽर्चयामास मण्डपे ।। २३

गीतवादित्रनिनदस्तदानीं सुमहानभूत् । ततः प्रादात्स विप्रेभ्यो वस्त्रालङ्कारदक्षिणाः ।। २४

जयया प्रेरितोऽभ्येत्य तं नृपस्तत उत्तमः ।पूजयामास भक्तयैव महासदसि भूपते ! ।। २५

शोणमाप्रपदीनं च चोलं प्राग्धरये ददौ । तत्प्रीतये हरिस्तं च धोत्रोपरि दधौ क्षणम् ।। २६

अनर्घ्यं च शिरोवेष्टं नृपो भगवते ददौ । ततः शोणं स्वर्णमयं नीशारं पर्यधापयत् ।। २७

चञ्चत्प्रान्तं कटिपटं गुम्फितैर्हेमतन्तुभिः । कौसुम्भं हरये प्रादात्कटयां तं च बबन्ध सः ।। २८

प्रावारपटकं चान्यं बहुमूल्यं सितं शुभम् । समर्प्य प्रभवे तस्थौ तं प्रणम्य स तत्पुरः ।। २९

अथाहूतो ललितया नृपोऽगच्छत्तदन्तिकम् । या दत्तानलङ्कारानानीय हरये ददौ ।। ३०

पादयोर्नूपुरे तस्य किङ्किणीजालशोभिते ।कटयां च तादृशीं काञ्चीमुत्तमः पर्यधारयत् ।। ३१

कटके श्रृङ्खले तस्य भुजयोश्चाङ्गदद्वयम् । अङ्गुलीषूर्मिका हैमीर्मणिरत्नविभूषिताः ।। ३२

कर्णयोः कुण्डले कण्ठे हारान्नानाविधांस्तथा । तं धारयित्वा नृपतिः प्रणनाम कृताञ्जलिः ।। ३३

आनन्दयन्भक्तजनानथोत्थाय हरिः स्वयम् । मण्डपान्तर्गतं पीठमुपेत्याध्यारुरोह तत् ।। ३४

दृढाबद्धकटिस्तत्र तालिकां वादयन्स्वयम् । नामसङ्कीर्तनं चक्रे तदा नारायणस्य सः ।। ३५

श्रीराधाकृष्ण! गोविन्द! नरनारायण! प्रभो! । वासुदेव! हरे! स्वामिनित्युच्चैः समकीर्तयत् ।। ३६

मुनयश्च जनाः सर्वे तदा तन्नामकीर्तनम् । उच्चैश्चक्रुर्वादयन्तस्तालीका हर्षसंयुताः ।। ३७

आसीत्स तुमुलो घोषः सर्वाघौघविनाशनः । दिशश्च विदिशः सर्वाः स वै व्याप महाध्वनिः ।। ३८

मुहूर्तमिति सङ्कीर्त्य निषसादासने प्रभुः । प्रणेमुस्तं जनाः सर्वे स्तुवन्तो विविधैः स्तवैः ।। ३९

संस्कृतैः प्राकृतैः पद्यैः पुराणैर्नूतनैरपि । स्तुत्वा नारायणमुनिं प्रणेमुः परया मुदा ।। ४०

दीनानाथस्तदा विप्रो नूत्नकाव्यविशारदः । बद्धाञ्जलिपुटोऽस्तौषीच्छ्लोकानामष्टकेन तम् ।। ४१

महातेजः पुञ्जे स्फुरदमलसिंहासनवरे स्थितं सर्वाधीशं नखकिरणविद्योतितसभम् । 
सितच्छत्रं पार्श्वस्फुरदमलसच्चामरयुगं भृशं धन्यो लब्ध्वा नयनपथि नारायणमहम् ।। ४२

हसद्वक्राम्भोजं चपलनयनालोकितजनं लसन्मुक्ताहारं विविधकुसुमापीडमुकुटम् । 
प्रचञ्चत्प्रावारं चरणविलसन्नूपुरमिदं हरे ! रुपं नित्यं मम मनसि सम्यक् स्फुरतु ते ।। ४३

दृढं विश्वासो मे तव चरणपद्माश्रितजनो भवाम्भोधेः पारं व्रजति सहसा त्वत्करुणया । 
त्वमेवैकः स्वामी सकलजगतामित्यपि हरे! विदित्वा पादौ ते दृढतरमहं ह्याश्रयमिमौ ।। ४४

न जाने शास्त्राणां विविधमतसन्निर्णयमहं पुराणव्रातानामपि च बहुकल्पाश्रितकथाः । 
न वा देवर्षीणां पृथगिह मनोरञ्जनविधिं परं जाने स्वामिन् !भ्रमणहरणं तेऽत्र शरणम् ।। ४५

तपो नोग्रं तप्तं व्रतनियमदानानि च मया न चेष्टापूर्ते वा श्रवणमननाभ्यासदृढता ।
न चीर्णान्याप्तुं त्वामिह तदपि यस्त्वं दृशि गतो न जाने तद्धेतुं त्वदतितरकारुण्यत ऋते ।। ४६

भृशं पापव्रातैर्मदनमदमानादिभिरपि प्रभो! ग्रस्तस्यालं तव चरणपद्मेक्षणमिदम् ।
कथंकारं मे स्याद्यदि न पुरुकारुण्यपदवीं श्रयेथा नाथ! त्वं त्वयि हि तदिदं केवलमहो ! ।। ४७

बलं नो मे बुद्धेर्न च सुदृढवैराग्यविलसन्निजात्मज्ञानस्य प्रचुरनियमानामपि हरे! ।
विमोक्तुं संसारान्निरतिशयमेकं हि बिरुदं विलोक्य स्वीयं मां भवजलनिधेरुद्धर निजम् ।। ४८

न जाने धर्माणामतिगहनकर्तव्यसरणिं न शास्त्रं मन्त्राणां न च विविधतन्त्रागमविधिम् ।
न वा भक्तैः कृत्यं तव चरणपद्मार्चनविधिं ततो वन्दे दीनस्तव पदयुगं दण्डवदहम् ।। ४९

करुणाष्टकसंज्ञोन स्तोत्रेणेत्थं निजस्तुतिम् । तस्मै विदधते तुष्टो भगवानभयं ददौ ।। ५०

ततः सर्वऽपि मुनयो मध्ये कृत्वा तमीश्वरम् ।प्रदक्षिणां प्रकुर्वन्तो गायनं चक्रुरादरात् ।। ५१

भ्रमन्तो मण्डलाकारमेककालं च तालिकाम् । वादयन्तश्च गायन्तस्तोषयामासुरीश्वरम् ।। ५२

ततस्तुष्टः स भगवान् गन्तुं स्वस्वस्थलं जनान् । मुनींश्चाज्ञापयामास जग्मुः सर्वे तदाज्ञाया ।। ५३

पाकः शीघ्रं विधेयः श्व इत्याज्ञाप्य च पाचकान् । ब्राह्मणान् हरिरात्मीथं मन्दिरं प्रत्यगान्नृप ! ।। ५४

स्नत्वा सन्ध्यावन्दनं होमकर्म स्वीयं नित्यं तत्र कृत्वाद्ययामे।
याते रात्रेर्योगनिद्रां समुत्कामक्ष्णासौ सम्भावयामास किञ्चित्।।५५।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रै धर्मशास्त्रे तृतीयप्रकरणे अन्नकूटोत्सवे दीपावलीमहोत्सवनामा चतुर्दशोऽध्यायः।।१४।।