त्रयोदशोऽध्यायः

सुव्रत उवाच


अथ माध्याह्निकं कर्तुं विधिं नारायणो नृप! । गङ्गां गन्तुमनाः प्राह मुनीन् स्वस्यार्चनोत्सुकान् ।। १

युष्माभिः पूजनं कार्यं मुनयः! श्वो यथेप्सितम् । उन्मत्तगङ्गां गच्छामि स्ननार्थमधुना त्वहम् ।। २

अमावास्याभिधं पर्व वर्ततेऽद्य महत्ततः । स्ननं नैमित्तिकं कार्यं गङ्गायामिति याम्यहम् ।। ३

इत्युक्त्वोत्थाय भगवान्रोहिताश्वं महाजवम् । आनयेत्याह नान्नं च स तं शीघ्रमुपानयत् ।। ४

अग्रे चलन्त्विति जनानाज्ञाप्य च मुनीन्प्रभुः । चचालाश्वं तमारुह्य जनतासु शनैः शनैः ।। ५

तमन्वधावन्सकलाः पत्तयः शस्रपाणयः । उत्तमः स नृपः सोमः सूरोऽलर्कश्च मूलजित् ।। ६

जीववर्मा च भृगुजिन्नाञ्जो राष्ट्रोढमान्त्रिकौ । व्याघ्रो वैरिभयो हस्ती मामयो रामगालवौ ।। ७

गोवर्धनो मानजिच्च वास्तुर्वेलोऽलयोऽर्जुनः । केसरी मानसिंहश्च कुशलः पुञ्जजित्तथा ।। ८

कालो हम्मीरजित् खोडो भीमो जूषश्च रत्नजित् । जाल्मो लक्षः कमो मोको वीरो देवश्च नथ्थुजित् ।। ९

देशजित्प्रमुखाश्चान्ये हरिमन्वयुराशु ते । मुकुन्दानन्दमुख्याश्च नैष्ठिकब्रह्मचारिणः ।। १०

मयरामादयो विप्राः पर्वताद्यास्तथा विशः । हर्षजित्प्रमुखाः शूद्रा गोकुलाद्याश्च चारणाः ।। ११

सर्व एव जना जग्मुः स्नतुं भगवता सह । वाद्यवादकसङ्घस्तु सर्वेषामग्रतोऽचलत् ।। १२

तत्पृष्ठे च ययुः सर्वे मुनयो बाणचक्षुषः । अश्वारुढो हरिः साक्षात्तत्पृष्ठे शनकैर्ययौ ।। १३

तत्पृष्टे पार्षदाः सर्वे तत्पृष्ठे निखिला जनाः । योषिद्वृन्दानि तेषां च पृष्ठतः शनकैर्ययुः ।। १४

ततोऽपश्यद्धरिर्गङ्गां जनसङ्घसमाकुलाम् । समाह्वयन्तीं हर्षेण तरङ्गभुजचालनैः ।। १५

या नित्यं भक्तभर्तुर्धृतनरवपुषो वासुदेवस्य साक्षात्साकं ।
मुक्तैर्मुनीन्द्रैः प्रमुदितवदनैः कीडया स्ननकाले ।।
कालिन्द्या वासुदेवाप्लवभवमतनुं मानमुन्मूलयन्ती वन्द्या ।
देवैः सहेशैर्भुवि जयतितरां मुक्तिदोन्मत्तगङ्गा ।। १६

वीक्षामात्रेण पुंसामगणितजनिजं पातकं नाशयन्ती ।
स्ननात्सर्वार्थदात्री हसति भुवि च या भानुजां फेनजालैः ।।
या चान्यासां नदीनां प्रकटभगवतो ह्यङ्गसङ्गं विनापि ।
ख्यातं लोके महत्त्वं प्रतिवदतितरां वारिघोषैः किमुच्चैः।। १७

श्वेतं स्वाभाविकं या मुनिगणतिलकैः स्ननधौतैश्च पीतं ।
वासःप्रक्षालनेन व्रतिमुनियतिनां चारु काषायरागम् ।।
राज्ञीनामङ्गधौतैः पिशुनमृगमदैरीशपूजावशिष्टैः शोणं ।
कृष्णं च वर्णं स्वपयसि दधती चित्रवर्णा विभाति ।। १८

यस्याः स्ननं त्रिकालं पयसि विदधतां सन्नृणां योषितां वा ।
वक्त्रेभ्यो नामघोषः प्रकटितनृतनोः स्वामिनारायणस्य ।।
निर्यन्मिश्रोऽम्बुघोषैः प्रतिदिशमटतां भास्करेः किङ्कराणां ।
साशङ्कं दूरगाणां हरिविमुखदृशां कर्णशूलायते वै ।। १९

प्रायश्चित्तैरनाश्यानपि कलुषचयान्सद्य एव घ्नती या ।
सौरेस्तल्लेखकस्याप्यनुदिनमघकृद्दण्डविश्रान्तिदात्री ।।
दूरस्थैरन्तकालेऽप्यणुमितमपि चेदम्बु यस्याश्च पीतं ।
स्यात्तत्ते त्यक्तदेहाः सुरवरवनितासेव्यतां यान्ति सद्यः ।। २०

यस्यास्तीरे विहङ्गान्निवसत उदके मीननक्रोरगादीन् ।
दृा देहावसाने दिवि सुरवनितास्तत्कृतेऽन्योन्यकोपाः ।।
केशाकेशि प्रमर्दं विदधति मम वा एष ते नैव मेऽयं ।
कामादित्थं ब्रुवन्त्यो झटिति मृतिमितांस्तान्विमानैर्नयन्ति ।। २१

यस्यास्तीरे कृतानां व्रतजपतपसां श्राद्धदानादिकानां ।
पुण्यं स्यादक्षयं वा अमरपितृनृणां तर्पणाद्बूरितृप्तिः ।।
नानायज्ञादिपुण्यं त्विह सकलजनैः स्ननतो लभ्यते वै ।
श्रेयस्कामैस्ततो या नृभिरनिशमसौ सेव्यते सर्वकामैः ।। २२

दुष्टान् पापान् विगर्ह्यानपि पतितजनान् स्ननमात्रेण सद्यः ।
स्वर्गार्हान्कुर्वती या सुकविभिरुदिता नूनमुन्मत्तगङ्गा ।।
माहात्म्यं नैव यस्या जगति भगवता स्वात्मसाद्वै कृताया ।
वक्तुं केऽपि क्षमन्ते भुजगपतिमुखा वर्णयन्तोऽपि नित्यम् ।। २३

तां प्राप्य सस्नै भगवांस्तदानीं साकं मुनीन्द्रैरखिलैर्नृभिश्च ।
सिञ्चञ्जलं स्वाञ्जलिलाघवेन तान् सिञ्चयंश्चापि परस्परं सः ।। २४

आनन्दयन् स्वेक्षकलोकसङ्घानगाधतोयं च विवेश तत्र ।
प्रत्योघमेवाम्बुनि तिष्ठति स्म सङ्गीतकीर्तिर्निजभक्तसङ्घैः ।। २५

प्रतिप्रवाहं स्थितमीक्षमाणास्तं सर्वतस्ते परिवृत्य तस्थुः ।
तत्पादमाघटय पतत् तयोऽपि भक्ताः पिबन्ति स्म जवेन केचित् ।। २६

तं देवसङ्घा जलकेलिलीलां कुर्वन्तमालोकयितुं समुत्काः ।
तूर्णं विमानैर्गगने समेत्य निरीक्ष्य चानन्दभरं समीयुः ।। २७

निमज्ज्य सद्यः प्लुतिलाघवेन स्वान्वेषकान् भ्रामयति स्म तोये ।
चरञ्जलेऽसौ तदचिन्त्यदेशे स्वीयं शिरो दर्शयति स्म तांश्च ।। २८

पुनर्निमज्ज्याम्बुनि सद्य एव स्वं चिन्तयन् ब्रह्म च कृष्णसंज्ञाम् ।
तिष्ठंश्चिरं सोऽम्भसि हृत्सु चित्रं कुर्वन्नृणां निःसरति स्म तोयात् ।। २९

तरन्विचित्रैस्तरणप्रभेदैस्तद्वेदिनां चापि मनःसु चित्रम् ।
तदा समुत्पादयति स्म तोयकीडां स साकं मुनिभिः प्रकुर्वन् ।। ३०

तं सन्तरन्तं ह्यनु पार्षदाग्रया ऋषिप्रवीराः शतशश्च तेरुः ।
अप्राप्य तं फूत्कृतिफुल्लवक्राः समुच्छ्वसन्तस्तमहासयंस्ते ।। ३१

मत्स्यादिरुपेण जले चिरस्थान्स्वपत्स्पृशिं कामयतः सुरेशान् ।
आनन्दयंस्तां सरितं च रेमे निशावियोगां चिरमम्भसीशः ।। ३२

स्नत्वाम्बुनैव तिलकं स विधाय सद्यो माध्याह्निकीं सितरुचं समुपास्य सन्ध्याम् ।
पश्यन् रविं गगनमण्डलमध्यसंस्थमम्बुस्थितस्तमुपतस्थ ऋजूर्ध्वबाहुः ।। ३३

तं सूर्यमण्डलनिबद्धदृशं स्थिराङ्गं सूक्तं पठन्तमपि सौरमुदारमुच्चैः ।
स्वेदोदबिन्दुततिमौक्तिकदामभालमैक्षन्त साद्बुतममर्त्यगणाः खसंस्थाः ।। ३४

स्नत्वा यथाविधि च तं त्वभितोऽम्बुसंस्था एकैकमर्घ्यमखिला अपि वर्णिविप्राः ।
दत्त्वैव पूष्ण उपतस्थिर ऊर्ध्वहस्ताः पङ्क्तिस्थिता नृप! सहस्त्रश आदृतास्तम् ।। ३५

समाप्य सूर्योपस्थानं भगवान्धर्मरक्षकः । ब्रह्मयज्ञां विधायादौ चक्रे देवादितर्पणम् ।। ३६

देवता उपवीती च नरान् निवीत्यतर्पयत् । प्राचीनावीत्यसौ पितनेकद्वित्र्यञ्जलिक्रमात् ।। ३७

द्विजैः सहेत्थं विधिना विधाय माध्याह्निकं वाजिनमारुरोह ।
संस्तूयमानो मुनिभिर्नरेन्द्रैः पुरं विवेशाथ स वर्णिराजः ।। ३८

श्रृण्वन् स भक्तैः पथि गीयमानं यशः स्वकीयं मुनिभिः सहैत्य ।
संसिद्धपाकं नृपतेर्निशान्तं सम्भोजयामास मुनीन् यथावत् ।। ३९

तृप्तान्स तान् पायसमोदकाद्यैर्गन्तुं द्रुतं विस्तृतधर्मशालाम् ।
आज्ञापयामास ततश्च सर्वान्भक्तानपि स्वान् गमनाय भोक्तुम् ।। ४०

स्वस्थानमेत्य पुनराप्लवनं विधाय कृत्वा च पाकमथ संस्कृतभूप्रदेशे ।
कृष्णाय तं नृप! निवेद्य स वैश्वदेवं कृत्वा स्वयं च बुभुजे रसजिन्मिताशी ।। ४१

इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे अन्नकूटोत्सवे उन्मत्तगङ्गायां भगवज्जलक्रीडामाध्याह्निकविधिनिरुपणनामा त्रयोदशोऽध्यायः।।१३।।