द्वादशोऽध्यायः

सुव्रत उवाच


अथापश्यद्बक्तजनान्निजपूजासमुत्सुकान् । पूजाद्रव्याणि पात्रेषु भृत्वा स्वामी चिरस्थितान् ।। १

तेषां मनोरथं पूर्णं कर्तुं राजन्नियेष सः । मयरामो द्विजस्तावद्बद्धाञ्जलिपुटोऽवदत् ।। २

एते पुरःस्थिताः स्वामिन्! पुरुषा योषितस्तथा । दूरदेशादुपायाताः सन्ति भक्तास्तव प्रभो ! ।। ३

तेषां हि चिरकालीनो हृद्यस्त्येव मनोरथः । पूजनार्थं तव हरे! तं पूरयितुमर्हसि ।। ४

इत्युक्तस्तेन विप्रेण प्रहसन् हरिरब्रवीत् । अद्यास्ति किं दिनं ब्रह्मन्! कार्यमत्र च किं वद ।। ५

इत्युक्तः स निजोष्णीषाद्दीर्घं पञ्चाङ्गपत्रकम् । निष्कास्य तद्विलोक्याह प्रभो! दीपोत्सवोऽद्य तु ।। ६

ग्राम्याणां ग्राम्यसौख्येन ह्यानन्दो लौकिको नृणाम् । त्वदर्चनेन भक्तानामद्यानन्दोऽस्त्वलौकिकः ।। ७

एतेषां ग्राम्यसौख्येच्छा नास्त्येव गृहिणामपि । दूरे त्यक्त्वा यतस्तत्तु समायाता इहाद्य वै ।। ८

मनोरथं हि सर्वेषां त्वदीयानां ततः प्रभो ! ।त्वं पूरयितुमीशोऽसि भक्तकल्पमहीरुहः ।। ९

इत्युक्तः स हरिः प्राह पूजयन्तु जना इमे ।किन्तु कोलाहलो नैव कार्यो नान्योन्यमर्दनम् ।। १०

स्वस्वग्रामपृथग्यूथैरागत्यात्रार्चनं द्रुतम् । कृत्वा गन्तव्यमित्युक्ता जना आसन्प्रहर्षिताः ।। ११

ततः क्रमेण तत्पूजां सर्वे कर्तुमुपाययुः । यूथशो हि हरेरग्रे पुरुषाश्च स्त्रियः पृथक् ।। १२

तत्रादौ मध्यदेशीया जना हरिमुपाययुः । माथुराः शूरसेनाश्च वात्सघोषश्च यामुनाः ।। १३

साल्वा नीपा उज्जिहाना माण्डव्याः कुरवस्तथा । दक्षिणोत्तरपाञ्चाला भद्राः कापिष्ठला अपि ।। १४

गौरग्रीवाश्चारिमेदा हस्तिनापुरवासिनः । पारियात्रनगोत्पन्ना धर्मारण्योद्बवास्तथा ।। १५

कालकोटय आश्वत्थाः कङ्ककाञ्चनपाण्डवाः । सारस्वताश्च मत्स्याश्च साकेताः कुकुरास्तथा ।। १६

एते चान्येऽपिबहवो गौर्जरौदुम्बरादयः । भक्ता भगवतो दक्षास्तस्मिन्पूजनकर्मणि ।। १७

सुगन्धिना चन्दनेन पौष्पैर्हारैर्मनोहरैः । स्वर्णबुट्टाङ्कितैर्वस्त्रैरुष्णीषैश्च महाधनैः ।। १८

अमूल्यरत्नाभरणैः पूजयित्वा तदन्तिके । रौप्यामत्राणि निदधुः पिण्डकैर्निभृतानि ते ।। १९

खेलनानि विचित्राणि शार्कराण्येव भूरिशः । ताम्बूलानि सपूगानि हरये ते न्यवेदयन् ।। २०

तेषां नार्यो भक्तिमत्यो हरेः कण्ठे पृथक् पृथक् । नक्षत्रमाला निदधुर्नमस्कृत्य ततो ययुः ।। २१

अथाययुर्महासच्वाः प्राच्या भक्तजनाः प्रभोः । मागाधाः कर्बटाः सुह्मा आम्बष्ठाश्चान्द्रपत्तनाः ।। २२

काशयः कोसलाः पौण्ड्रा मेकला औत्कलास्तथा । गौडाश्च मिथिलोद्बूता माल्यवग्दिरिजास्तथा ।। २३

किरातजाश्च लौहित्या वर्धमानपुरोद्बवाः । एतेऽन्येऽप्यौण्ड्रमुख्याश्च पुपूजुर्हरिमादरात् ।। २४

चन्दनाक्षतपुष्पैश्च वासोभिश्चीनदेशजैः । मृदुभिश्च महामूल्यैस्तथा हेमविभूषणैः ।। २५

मुक्तापीडैर्बहुविधैः पूजयित्वा हरेः पुरः । स्वर्णमुद्राभृतान्येव रुप्यामत्राणि ते दधुः ।। २६

फलान्यनेकजातीनि स्वादूनि रुचिराणि च । अर्पयित्वा भगवते ययुस्तद्योषितस्तथा ।। २७

अथ तेषु गतेष्वायन्नग्निकाष्ठोद्बवा जनाः । जठराङ्गास्तथा वङ्गा उपवङ्गाश्च शूलिकाः ।। २८

चर्मद्वीपा विदर्भाश्च वत्सा अन्ध्राश्च चेदयः । विन्ध्यान्तवासिनश्चैव दशार्णास्त्रैपुरास्तथा ।। २९

एतेऽन्येऽपि च किष्किन्धाः शाबराद्या जनाः प्रभुम् । अनर्घ्यैः पीतवसनैर्हैमैर्वलयश्रृङ्खलैः ।। ३०

मुक्तानां शेखरै रम्यैर्विविधैः कर्णवेष्टनैः । सम्पूज्याग्रे च निदधुरुपहारान्महाधनान् ।। ३१

फलान्यनेकजातीनि पक्वानि गुणवन्ति च । राजतानि च हैमानि पात्राणि हरये ददुः ।। ३२

कलशान् गर्गरीः कंसान् भृङ्गारान् वाटिकास्तथा । अलिञ्जरान् दर्शनीयान्प्रभवे ते न्यवेदयन् ।। ३३

इति सम्पूज्य ते याता दाक्षिणात्या अथाययुः । सौरिकीर्णास्तालिकटा मलयाचलसम्भवाः ।। ३४

नासिक्याः कोल्लगिरिजा भरुकच्छाश्च कौङ्कणाः । कर्कोटकाश्च शिबिका वेणातटनिवासिनः ।। ३५

दार्दुरा ऋष्यमूकीया महेन्द्राचलवासिनः । कावेरीतटवासाश्च चैत्रकूटा जटाधराः ।। ३६

कार्णाटकाश्च गोनर्दाश्चौलाः केरलदेशजाः । गाणराज्या ऋषीकाश्च काञ्चीवासास्तथार्षभाः ।। ३७

ताम्रपर्णीतटावासा दण्डकारण्यवासिनः । बलदेवपत्तनाश्च तैलिङ्गा द्राविडास्तथा ।। ३८

वेङ्कटाद्रिनिवासाश्च धर्मपत्तनवासिनः । एते चान्येऽपि बहवो मनुजाः सैंहलादयः ।। ३९

पूजां भगवतश्चकुर्यथाविधि विचक्षणाः । यक्षकर्दमसंज्ञोन चन्दनेन सुगन्धिना ।। ४०

एक्षतैर्विविधैः पुष्पैरनर्घ्यैर्वसनैः शुभैः । सितैः पीतैश्च रक्तैश्च चित्रैश्च स्वर्णबिन्दुभिः ।। ४१

प्रावारैश्च निचोलैश्च पटकैः कटिबन्धनैः । कौशेयैश्च दुकूलैश्च पत्रोर्णैर्बहुमूल्यकैः ।। ४२

अमूल्यैः शीर्षपटकैर्मञ्जीरैर्हंसकैस्तथा । ऊर्मिकाभिश्च केयूरैः पारिहार्यैश्च शृङ्खलैः ।। ४३

ग्रैवेयकैः कुण्डलैश्च गुत्सगुत्सार्धगोस्तनैः । एकावलीभिः शतशो देवच्छन्दैश्च भासुरैः ।। ४४

ललन्तिकाभिः काञ्चीभिर्हारैर्माणवकैस्तथा । ललाटिकादिभिस्तं च पुपूजुःस्ते जनाः प्रभुम् ।। ४५

उपायनानि तस्याग्रे निदधुश्च बहूनि ते । भृतानि पृथुपात्राणि पर्पिकाशर्करादिभिः ।। ४६

द्राक्षाक्षोडलवङ्गैलाजाती फलभृतानि च । निधाय पात्राणि ययुः प्रीणयन्तो हरिं भृशम् ।। ४७

अथ नैऋतदिग्जाताः पुरुषाश्च स्त्रियो हरौ । भक्तिं परामनुप्राप्ता आययुः सस्मिताननाः ।। ४८

सिन्धुपह्लवकाम्बोजाः सौवीरा वडवामुखाः । नारीमुखा आरवाश्च कापिला यावनास्तथा ।। ४९

क्रव्यादाम्बष्ठखण्डाश्च सैन्धवाः कालकास्तथा । बादराः फेनगिरयः कर्णप्रावेष्टबर्बराः ।। ५०

तथा पारशवाः शूद्रा जना रैवतका अपि । सौराष्ट्राभीरचञ्चूकाः किराता द्राविडादयः ।। ५१

हरिं पुपूजुर्भक्तया ते सौराष्ट्रास्तु विशेषतः । वस्त्रैः श्वेतैश्च कौसुम्भैर्जाम्बुवर्णैश्च कैसरैः ।। ५२

हेमबुट्टाङ्कितैः शोणैर्नीशारैरसितैरपि । और्णैरनर्घ्यैर्मृदुभिर्घनैः सूक्ष्मैश्च रल्लकैः ।। ५३

जाम्बूनदेन शुद्धेन निर्मितैश्च विभूषणैः । मणिरत्नेन्द्रनिचितैरनर्घ्यैर्मुकुटादिभिः ।। ५४

चन्दनैः पुष्पहारैश्च पूजयित्वा हरेः पुरः । उपायनानि निदधुर्महापात्रभृतानि ते ।। ५५

शर्कराभिः पीतसारैः खारिकाभिर्भृतानि च । बहुभी रुप्यमुद्राभिः पात्राणि हरयेऽदिशन् ।। ५६

उद्वेगभृतपात्राणि नालिकेराणि च प्रभोः । अग्रे निधाय जग्मुस्ते तत्स्त्रियोऽपि तथैव च ।। ५७

उपहारा हरेरग्रे गण्डशैला इवाभवन् । वस्त्राणां च चया आसन्पर्वता इव तत्र वै ।। ५८

तत्रानन्दानन्दमुनिर्भगवत्पार्श्वसंस्थितः । वस्त्राणि च विभूषाश्च परिधापयति स्म तम् ।। ५९

आगतेषु नवीनेषु पूर्वाण्यत्याजयत्तथा । सर्वेभ्यः स्वार्चकेभ्योऽदाद्धरिः पुष्पस्रगादि च ।। ६०

प्रासादिकानि वस्त्राणि केभ्यश्चित्प्रददौ प्रभुः । अलङ्कारांश्च केभ्यश्चित्केभ्यश्चिच्च फलादिकम् ।। ६१

केभ्यश्चिदुपहारार्धं केभ्यश्चित्सकलोपदाम् ।दत्ते स्म भगवांस्तत्र भक्तानानन्दयन्निजान् ।। ६२

अथाययुस्तत्र भक्ताः पाश्चात्या अपि भूरिशः । मणिमत्पर्वतावासा मेघवग्दिरिजास्तथा ।। ६३

पारताः शकदेशीया भक्ताः पाञ्चनदा अपि । अपरान्तका हैहयाश्चोष्काणा रामठादयः ।। ६४

चन्दनाद्यैश्च वस्त्रैश्च हेमरौप्यविभूषणैः । पूजयित्वोपहारांस्ते तस्याग्रे निदधुः प्रभोः ।। ६५

बदामनालिकेरैश्च खर्जूरैः क्रमुकेस्तथा । भृतानि रुप्यमुद्राभिः पात्राणि हरयेऽदिशन् ।। ६६

पयःफेननिभाः शय्या उपधानानि गेण्डुकान् । विविधास्तूलपटिका दीपिकाश्च न्यवेदयन् ।। ६७

गतेषु तेष्वथाजग्मुर्वायव्या हरिसेवकाः ।माण्डव्या मरुकच्छाश्च तथा फाल्गुलुकाश्मकाः ।। ६८

एते चान्ये मद्रखसस्त्रीराज्यस्थादयः प्रभुम् । पुपूजुः परया भक्तया गन्धपुष्पांशुकादिभिः ।। ६९

पद्मरागेन्द्रनीलादिमणिमद्धेमभूषणैः । तं पूजायित्वोपहारांस्तदग्रे निदधुश्च ते ।। ७०

नानामणिमयेष्वेव पात्रेषु स्वर्णमुद्रिकाः । भृत्वा न्यवेदयंस्तस्मै रुप्यमुद्राश्च केचन ।। ७१

पादुका रत्नखचिता विचित्रास्त उपानहः । निवेद्य प्रययुस्तावदुदीच्या आययुर्जनाः ।। ७२

यौधेयाः पौरवा मद्रा मालवा आर्जुनायनाः । कैकयाः क्षुद्रमीनाश्च त्रैगर्ताः कोसलास्तथा ।। ७३

शरधाना वाटधाना भोगप्रस्था वसातयः । आन्तर्द्वीपा अश्वमुखाः कच्छारा दण्डपिङ्गलाः ।। ७४

कैलावर्ताः कण्ठधानाः पुष्करावर्तशातकाः । गान्धाराः खचरा हूणा गव्या भूतपुरास्तथा ।। ७५

दासेरका केशधरास्तथा चिपिटनासिकाः । क्षेमधूर्ता हेमताला हिमाचलनिवासिनः ।। ७६

यशोवतीनिवासाश्च माण्डव्याः कुरवस्तथा । एते चान्ये श्यामकाद्याः पुपूजुस्तं जनाः प्रभुम् ।। ७७

सुगन्धिना कैसरेण चन्दनेनाक्षतैः शुभैः । प्रफुल्लपद्ममालाभिरभ्यर्च्योपायनान्यदुः ।। ७८

महावस्त्राण्यमूल्यानि सितसूक्ष्मघनानि च । कस्तूरिकाभृतान्हैमान् समुग्दांश्चामराणि च ।। ७९

गारुत्मतानि रत्नानि पद्मरागांश्च विद्रुमान् । महानीलांश्च नीलांश्च गोमेदान् स्फटिकांस्तथा ।। ८०

हरये चार्पयामासुर्हीरकानर्कभासुरान् । ततो गतेषु तेष्वायन् ऐशाना हरिसेवकाः ।। ८१

पशुपालाश्च काश्मीरा दरदास्तङ्गणास्तथा । अभिसाराश्च कौलूता जना ब्रह्मपुरोद्बवाः ।। ८२

चीनाश्च दामरा घोषाः कोलिन्दाः कौविकास्तथा । गान्धर्वा वसुधानाश्च वनराष्ट्रादयस्तथा ।। ८३

पुपूजुः परया भक्तया नारायणमुनिं जनाः ।तेषां च योषितो राजन्साध्वीधर्ममुपाश्रिताः ।। ८४

चन्दनाक्षतपुष्पैश्च तुलसीमालिकादिभिः । वस्त्रैर्मृदुतरैः पीतै रक्तैर्नीलैश्च चित्रितैः ।। ८५

मुक्तामयैराभरणैः पूजयित्वा हरेः पुरः । उपायनानि निदधुर्जनास्ते तत्स्त्रियोऽपि च ।। ८६

नानाविधानि रत्नानि स्वर्णस्थालभृतानि च । भृतान् करण्डकान् रौप्यान् दिव्यकुङ्कुमकेसरैः ।। ८७

आसनानि विचित्राणि तार्णान्यतिमृदूनि च । मृदुस्पर्शांश्चित्रवर्णान् रम्यानासनकम्बलान् ।। ८८

फलान्यनेकजातीनि सुरसाः सितशर्कराः । समर्प्येत्यादि हरये जग्मुस्ते सस्त्रियो जनाः ।। ८९

एवं सर्वेऽपि ते भक्ता यथाविन्तं यथामति । पुपूजुः परया भक्तया स्थविरास्तरुणार्भकाः ।। ९०

भगवानपि भक्तानां भावदर्शी जगत्प्रभुः । पत्रपुष्पादिभिरपि तद्दत्तैस्तुष्यति स्म सः ।। ९१

ततः प्रभुः स तान् सर्वान्वस्त्रालङ्कारसञ्चयान् । चक्रे ब्राह्मणसात्सद्यो जनयञ्जनविस्मयम् ।। ९२

उपायनानि सर्वाणि तत्क्षणं प्रददौ च सः । विप्रेभ्यो रङ्कजीवेभ्यो भिक्षुकेभ्यश्च सादरम् ।। ९३

साधुभ्यो ब्रह्मचारिभ्यः पग्देभ्यश्च यथोचितम् । उपायनमदात्प्रीत्या पार्षदेभ्यश्च सत्पतिः ।। ९४

राजभ्यो धनिकेभ्योऽपि स्ववस्त्रादि ददौ प्रभुः । सर्वेऽपि विस्मयं प्रापुश्चरित्रं वीक्ष्य तस्य तत् ।। ९५

नानानरेन्द्रसम्प्रार्थ्यान् पदार्थानपि तत्क्षणम् । कोटिशोऽपि ददौ स्वामी तेनाऽसन्विस्मिता नृपाः ।। ९६

कृत्वाप्यमानुषं कर्म निरहङ्कृतिरीश्वरः । सितवासा यथापूर्वं बभूवानाप्तविस्मयः ।। ९७

देशान्तरीयेषु जनेषु पूजामित्थं हि कुर्वत्सु हरेरुदाराम् ।
तदीक्षणात्युत्सुकमानसः किं सूर्योऽपि मध्ये गगनस्य तस्थौ।।९८


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे अन्नकूटोत्सवे देशान्तरीयसकलजनानां भगवदर्चनानन्दनिरुपणनामा द्वादशोऽध्यायः।।१२।।