एकादशोऽध्यायः

सुव्रत उवाच-


तान्मानयित्वा भगवान्निजभक्तान्विचक्षणान् । श्रृण्वतां सर्वलोकानां पप्रच्छ विनयानतान् ।। १


श्रीनारायणमुनिरुवाच-

युष्मद्देशेषु मेऽथैषां त्यागिनां गृहिणां जनाः! । मदाश्रितानां स्त्रीणां च कीदृश्यस्ति जनश्रुतिः ।। २
जना मद्विमुखा ये ते लौकिकानां सतां तथा । वार्तामात्मगुरुणां च कुर्वते कीदृशीं भुवि ।। ३


सुव्रत उवाच-

इति पृष्टा भगवता ते तमूचुर्यथाश्रुतम् । यथादृष्टं च नृपते ! वृत्तान्तं स्वस्वदेशजम् ।। ४


जना ऊचुः-

भगवन्नस्मदीयेषु देशेषु विमुखा अपि । जना यथा वदन्ति त्वां तथैव ब्रूमहे वयम् ।। ५

धन्यो नारायणमुनिः साम्प्रंत धरणीतले । भक्तिज्ञानविरागाढयं सद्धर्मं पाति योऽखिलम् ।। ६

गृहिभिन्नाश्रमस्थान् यस्त्यागिनो विधवास्तथा । सन्धारयत्यष्टविधं ब्रह्मचर्यं सुदुर्धरम् ।। ७

यस्त्याजयति तान् कामं येन कामेन मोहिताः । विद्वांसोऽपि सगोत्राः स्त्रीर्गच्छन्ति पशवो यथा ।। ८

यस्त्याजयति तान् द्रव्यं यल्लोभेन बुधा अपि । स्वबन्धूंश्चापि मित्राणि घ्नन्त्यन्यैर्घातयन्ति च ।। ९

यश्च स्वामी रसास्वादं तांस्त्याजयति वै सतः । जायन्ते यद्वशा एव कामोद्वृत्ता हि पुरुषाः ।। १०

स्वतश्च नीचजातीनामश्नन्त्यन्नादि येन च । विह्वला वर्णसाङ्कर्यं कुर्वते पुरुषा भुवि ।। ११

यश्च त्याजयति स्वामी स्नेहं स्वान्वपुरादिषु । नरकान्प्रेतभावं च यद्वशाद्यान्ति मानवाः ।। १२

यत्र यत्र भवेत्स्नेहो देहिनामिह वस्तुनि । ताद्रूप्यं तस्य तस्य स्यात्तादृक् स्नेहो हि हाप्यते ।। १३

यः स्वामी मानमत्यर्थं हापयत्यात्मनः सतः । गुरुन्साधूनपि प्राज्ञा मन्यन्ते नैव यद्वशाः ।। १४

मानेनैवात्मनः पापं साधूनां पुरतो नराः । न निष्कपटभावेन कथयन्त्यात्मशुद्धये ।। १५

मानाद्धि जायते क्रोधो निर्दयो हिंस्रवृत्तिकृत् । अवाच्यवाचकः स्वस्य परेषां चापि घातकः ।। १६

ईदृग्मानविहीना हि सन्तो यस्य परैः कृतम् । धूलिक्षेपं ताडनं च सहन्ते दुर्वचांसि च ।। १७

धन्य एवास्त्यतः स्वामी सत्योऽसावेव सग्दुरुः । न महान् पुरुषः कश्चिद्वर्तते हीदृशो भुवि ।। १८

धन्याश्च साधवस्तस्य ये धर्मान् स्वगुरूदितान् । प्रयता ब्रह्मचर्यादीन् पालयन्ति निरन्तरम् ।। १९

धन्या गृहस्था अपि ते स्वामिनं समुपाश्रिताः । स्वसृमातृसमा ये तु जानन्ति परयोषितः ।। २०

स्पर्शनं विधवास्त्रीणां गृहिणोऽपि कदाचन । विनाऽपदं न कुर्वन्ति स्वमात्रापि रहःस्थितिम् ।। २१

भङ्गां गञ्जं चाहिफेनं मद्यमत्स्यामिषाणि च । अभक्ष्यं नैव भक्षन्ति न्यायार्जितधनाश्च ये ।। २२

अदत्तं नैव गृन्ति तृणाद्यपि परस्य ये । घातं स्वपरयोर्नैव ये विपद्यपि कुर्वते ।। २३

गुरोर्दृढाप्तज्ञानत्वान्मोक्षार्थमपि नैव ये । शास्त्रोक्तभृगुतुङ्गाद्यैस्तित्यक्षन्ति वपूंषि वै ।। २४

इत्थं दृढधियो धीरास्तच्छिष्या गृहिणो नराः । वर्तमानास्तदाज्ञायां सन्ति धन्या भुवस्तले ।। २५

स्त्रियश्चैषामपि पतिं निजमेकं विनापरान् । जानन्ति पुरुषान् स्वीयपितृभ्रातृसमान्किल ।। २६

याश्च तं स्वामिनं नार्यो विधवाः समुपाश्रिताः । ता ब्रह्मचर्यमष्टाङ्गं पालयन्त्यगृहा इव ।। २७

धनुर्मानान्तरेणैव पुम्भ्यो गच्छन्ति दूरतः । न भाषन्ते च पुरुषैः पितृभ्रातृसुतान्विना ।। २८

सत्सङ्गिनः स्वपित्रादेर्वार्तां श्रृण्वन्ति या हरेः । चलन्ति सह तेनैव मार्गेऽप्यन्यैर्न कर्हिचित् ।। २९

पित्रादिनापि साकं ता न तिष्ठन्ति रहःस्थले । एवं हि सर्वा विधवा वर्तन्ते स्वाम्युपाश्रिताः ।। ३०

सर्वेऽत्येते तयोऽम्ब्वाज्यं न पिबन्ति ह्यगालितम् । व्रतान्येकादशीजन्माष्टम्यादीनि च कुर्वते ।। ३१

आश्रित्य स्वामिनं चैते स्वस्वधर्मे स्थिताः सदा । अनन्यभक्तिं कुर्वन्ति कृष्णस्य परमादरात् ।। ३२

धन्याः स्वाम्याश्रितास्तस्माद्योषितः पुरुषा इह । अस्मदीयास्तु गुरवस्त्यक्त्वा धर्मं चरन्ति हि ।। ३३

न स्थापयन्ति स्वामीव स्वशिष्यान्धर्मवर्त्मनि । तस्माद्धिगस्तु तांस्तांश्च श्रीस्वामिविमुखांश्च नः ।। ३४

इत्थं वदन्ति बहवो लोका नारायण! प्रभो! । केचिदाहुः श्रयिष्यामो वयं तं स्वामिनं त्विति ।। ३५

तान्वदन्ति तदा केचिद्वयं कुलगुरून्यदि । त्यजेम तर्हि नो लज्जा लौकिकी हि गमिष्यति ।। ३६

तदाहुः केऽपि निपुणा लज्जा तु स्वाम्युपाश्रयात् । स्थास्यत्येवान्यथास्माकं सा यास्यति न संशयः ।। ३७

आस्माकीना हि विधवा बहवः स्वसृकन्यकाः । गुरुसंज्ञोभ्य एतेभ्यो गर्भं दधति निस्त्रपाः ।। ३८

प्रच्छन्नं गर्भपातं ताः कुर्वते पातकं महत् । तस्मात्तासामघाद्रक्षा कार्या स्वाम्याश्रयेण वै ।। ३९

तांस्तदा केचन प्राहुर्जायमानेऽपि पातके । एतावत्कालपर्यन्तमासील्लज्जा तु बाह्यतः ।। ४०

साम्प्रतं त्वङ्गदीयस्य राज्यं सार्वत्रिकं भुवि । जातमस्तीति नो लज्जा गमिष्यत्येव निश्चितम् ।। ४१

स जानाति नृपश्चारैर्विधवागर्भसम्भवम् । गर्भं घ्नतीस्तु ता हन्ति कण्ठपाशेन तत्क्षणम् ।। ४२

तत्सम्बन्धिजनान् द्रव्यं गृहीत्वा दण्डयत्यसौ । लज्जानाशस्तथा पापं भविष्यति ततोऽधुना ।। ४३

अपत्यरक्षणे तासां वधे वाऽपयशो महत् । मृत्योरप्यधिकं भूमावस्माकं हि भविष्यति ।। ४४

तस्माद्बूमण्डले क्वापि चातुर्वर्ण्यस्य साम्प्रतम् । न स्वामिनं विनाऽन्यास्ति गतिस्तस्मात्स सेव्यताम् ।। ४५

धूर्तास्तु येऽस्मग्दुरवः प्रवेष्टव्या न ते गृहे । कथञ्चिदागतास्ताडया नागच्छेयुः पुनर्यथा ।। ४६

ततो नार्यो भजिष्यन्ति सहास्माभिरभर्तृकाः । स्वामिनं तेन नः कीर्तिः सपुण्या वृद्धिमेष्यति ।। ४७

इत्थं महाराज! जना देशे देशे वदन्ति वै । यथाश्रुतं यथादृष्टं तथास्माभिरुदीरितम् ।। ४८

सुव्रत उवाच

श्रुत्वेति तद्वचो राजन्! भक्तैः सह जहास सः । दिव्यरूपौ वीक्षमाणः पितरौ प्रीणयन्प्रभुः ।। ४९

तेऽपीत्थमावेद्य जनास्तदीयां जनश्रुतिं तस्य ततो निदेशात् ।
स्पृाङ्घ्रिपद्मं च मुदा प्रणम्य स्वस्थानमेत्यैव पुनर्निषेदुः ।। ५०


इति श्रीसत्सङ्गीजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे अन्नकूटोत्सवे देशान्तरीयवृत्तान्तश्रवणनामैकादशोऽध्यायः।।११।।