दशमोऽध्यायः

सुव्रत उवाच


किञ्चित्सुप्त्वा तदा स्वामी सहसा पुनरुत्थितः । कृत्वा स्ननविधिं चक्रे नित्यकर्मादरान्नृप ! ।। १

चतुर्दश्या अपि दिनं प्रातरारभ्य पूर्ववत् । आगच्छतो निजान् भक्तांस्तस्य तोषयतो ह्यगात् ।। २

दीपोत्सवदिने सोऽथ मङ्गलस्ननमीश्वरः । अरुणोदयवेलायां कृत्वा नैत्यकमाचरत् ।। ३

वर्तुले तूलपटके निषसाद ततः क्षणम् । चकार पूजनं तस्य नैत्यकं चोत्तमो नृपः ।। ४

तावच्च नूत्नवस्त्राणां कक्षे संछन्नपोटलीम् । मयरामः शीघ्रगतिर्गृहीत्वागच्छदुत्सुकः ।। ५

तं दृा प्रहसन्प्राह हरिर्भट्ट! किमाहृतम् । तमाह नूत्नवस्त्राणि सन्तीमानीति स द्विजः ।। ६

प्रीतये सर्वभक्तानां तानि जग्राह स प्रभुः । कौसुम्भं पटकं शीर्ष्णि बबन्ध मुकुटाकृति ।। ७

स्वर्णबुट्टं शोणवर्णं पर्यधादङ्गरक्षकम् । बबन्ध स्वर्णपटकं ततः कटितटे प्रभुः ।। ८

ततश्चाकारयामास सर्वान्निजजनान्विभुः । कृतनित्यविधानास्ते तत्र सर्वे समाययुः ।। ९

अधस्तान्निम्बवृक्षस्य भगवद्वेदिकामनु । आगत्य मुनयस्तस्थुर्गृहिणश्चाभितो मुनीन् ।। १०

आगत्य तत्र योषाश्च योषित्सदसि सर्वशः । तस्थुः प्रतीक्षमाणा वै तत्र नारायणागमम् ।। ११

पौराणिकाः शास्त्रिणश्च वैदिकास्तान्त्रिकास्तथा । तस्थुस्तत्रागत्य विप्रा नैष्ठिका ब्रह्मचारिणः ।। १२

गायकाः शतशस्तत्र शतशो वाद्यवादकाः । आगत्य च नटा मल्लास्तस्थुः सूताश्च बन्दिनः ।। १३

सर्वेऽपि ते समागत्य हरेरागमनं बहिः । प्रतीक्षमाणास्तस्थुर्वै तावत्तत्रागमत्प्रभुः ।। १४

तं विलोक्य जनाः सर्वे हर्षोत्फुल्लाननाशयाः । जयेति घोषं तुमुलं प्रणम्य नृप! चक्रिरे ।। १५

आनन्दयन् भक्तजनान् हरिर्निम्बतरोरधः । वेघां सिंहासनवरे निषसाद तदैव सः ।। १६

सितातपत्रमर्काभं सोमस्तच्छीर्ष्ण्यधारयत् । भगवन्मुखकान्त्या तन्नितरां शुशुभे तदा ।। १७

भृगुजिच्चालयश्चोभौ रत्नदण्डे मनोहरे । गृहीत्वा चामरे तत्र वीजयामासतुः प्रभुम् ।। १८

सूरो नाथश्च भगवत्पार्श्वयोः संस्थितावुभौ । प्रभुं तं तालवृन्ताभ्यां वीजयामासतुस्तदा ।। १९

उशीरव्यजनं रम्यं गृहीत्वा हेमदण्डकम् । उत्तमः पार्श्वसंस्थश्च वीजयामास तं प्रभुम् ।। २०

मुकुन्दो वर्णिराट् तस्य समीपे नक्तकं दधत् । तस्थौ प्रतीक्षमाणश्च निदेशं तस्य किञ्चन ।। २१

दौवारिकः स्वर्णयष्टिर्जयेत्युच्चैर्वदन् प्रभोः । अग्रे कुबेरसिंहाख्यस्तस्थौ कार्यनिवेदकः ।। २२

पार्षदप्रवराश्चान्ये क्षत्रवीरा महाभटाः । आज्ञाकराः प्रभोस्तस्थुः परितः शतशस्तदा ।। २३

ततोऽपश्यज्जनानेव भगवान् परितः स्थितान् । उद्वेलं सागरमिव सोत्कण्ठान्निजदर्शने ।। २४

अन्योन्येषामुपरि तान् पततो धनसंस्थितीन् । नृपतेरङ्गणेऽपश्यदसंख्याताञ्जनान् हरिः ।। २५

बहिःशालासु च जनान् गर्भागारेषु च स्थितान् । छदिष्षु च चतुष्केषु बहिर्वेदिषु चैक्षत ।। २६

वलभीषु तथाट्टेषु चन्द्रशालासु च स्थितान् । मन्दुरासु च चैत्येषु प्राकारे गोपुरोपरि ।। २७

आरुह्य च द्रुमानुच्चान्मूलादग्रावधि स्थितान् ।पुरश्च पार्श्वयोः पश्चाज्जनान्वीक्ष्य जहास सः ।। २८

तालिकां वादयित्वाथ हरिः स्थापनमुद्रया । उपावीविशदात्मीयान्सर्वांस्तांल्लक्षशो जनान् ।। २९

कृतमौनास्तत्क्षणं ते निषेदुश्च व्यवस्थया । स्त्रियः स्त्रीमण्डलेष्वेव पुमांसः पुरुषेषु च ।। ३०

निषेदुर्मुनयस्तत्र मुनीनां मण्डलेषु च । ब्राह्मणा ब्राह्मणेष्वेव वर्णिनो वर्णिमण्डले ।। ३१

गृहस्थेषु गृहस्थाश्च वृद्धा वृद्धेषु सर्वशः । विद्वद्यूथेषु विद्धांसः शिल्पज्ञाः शिल्पवित्सु च ।। ३२

तूष्णीं तेषूपविष्टेषु निजभक्तेषु स प्रभुः । आजिज्ञापद्वादकांश्च सज्जीभूय चिरस्थितान् ।। ३३

ते च तासादिवाद्येषु यद्यत्स्वकरकौशलम् । तदानीं दर्शयामासुस्तत्तत्सर्वमशेषतः ।। ३४

प्रशशंस हरिस्तांश्च दृा तत्करलाघवम् । ततोऽपश्यत्सभासंस्थान्नैकदेशागताञ्जनान् ।। ३५

तेषां ये ये येषु येषु मुख्या देशेषु तान्प्रभुः । तत्तद्देशीयवृत्तान्तं प्रष्टुमाह्वास्त संसदि ।। ३६

ते सद्य उत्थाय सहर्षमेव क्षमापते! तं समया समेत्य ।
प्रणम्य च प्राञ्जलयः पुरस्तात्तस्थुस्तदीयाननचन्द्रनेत्राः ।। ३७


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे अन्नकूटोत्सवे सभोपवेशनवर्णननामा दशमोऽध्यायः।।१०।।