सुव्रत उवाच
स्वीयवासविधये गतेष्वथो सर्वशो गृहिजनेषु तत्र ते ।
त्यागिनो मुनय आज्ञाया हरेरग्रतः खलु निषेदुरुन्मुदः ।। १
स्वागातादिवचनेन तोषितास्तेन ते तु मुनयः प्रहर्षिताः ।
पत्रपुष्पफलवल्कलादिभिस्तं पुपूजुरखिलाश्च तापसाः ।। २
भक्तया हरेः पूजनकर्म तेषु कुर्वत्सु हर्षेण मुनीश्वरेषु ।
तं गालवोऽभ्येत्त्य जगाद वाक्यं पाकस्य सिद्धिर्भगवन्नभूद्वै ।। ३
श्रुत्वेति वाक्यं भगवान् मुनींस्तानाज्ञापयामास तदैव भोक्तुम् ।
ततश्च ते शुद्धिविधिं विधाय भोक्तुं निषेदुः कृतपङ्क्तिबन्धाः ।। ४
तान्भोजयित्वा विविधैः सुभोज्यैः सिताज्ययुक्पायसपूरिकाद्यैः ।
आज्ञापयामास ततः स तृप्तान्महाकुटीं गन्तुमृषीनृषीशः ।। ५
कृत्वाथ पाकं स्वगृहे निवेद्य कृष्णाय भुक्त्वोपविवेश यावत् ।
सत्सङ्गिनस्तत्र च तावदायन्ननेकदेशेभ्य उदारभावाः ।। ६
प्राच्योदीच्याश्च पाश्चात्या दाक्षिणात्याः सहस्रशः । मध्यदेशीयलोकाश्च तत्राजग्मुरनेकशः ।। ७
आग्नेया नैऋताश्चापि वायव्या अपि भूरिशः । भक्तास्तत्राययुर्हृष्टा ऐशानाश्च सहस्रशः ।। ८
वृद्धाश्च तरुणा बालाः सधवाः विधवाः स्त्रियः । पतिव्रताधर्मरता भक्तिमत्यश्च धर्मजे ।। ९
वाद्यघोषं प्रकुर्वन्त उच्चैर्गीतध्वनिं तथा । ध्वनिं च तालिकानां ते पौरांश्चक्रुः ससम्भ्रमान् ।। १०
उच्चैर्घाषं तमाश्रुत्य भगवान्निजमन्दिरात् । बहिर्वेद्यामुपेत्यैव तस्थौ भक्तजनप्रियः ।। ११
अत्युत्कण्ठास्तदीक्षायां ते तं प्राप्य निजं प्रभुम् । प्रणेमुः प्रेमविवशा बद्धाञ्जलिपुटा जनाः ।। १२
औत्सुक्यसम्भ्रमात्केचित्कराभ्यां तं ववन्दिरे । केचिच्च प्रेमविवशा निपत्य भुवि दण्डवत् ।। १३
नमनं केऽपि विस्मृत्य तन्मूर्तिं ददृशुश्चिरम् । यो योऽपश्यद्यद्यदङ्गं तत्र तत्र स सोऽलगत् ।। १४
केचित्पादाङ्गुलीर्वीक्ष्य निमेषोन्मेषवर्जिताः । सद्यस्तत्र निरुद्धाक्षिवृत्तयः स्तम्भवद्बभुः ।। १५
केचिग्दुल्फौ हरेर्वीक्ष्य रुद्धदृग्वृत्तयोऽभवन् । केचिज्जङ्घे समीक्ष्यैवं जानुनी वीक्ष्य केचन ।। १६
ऊरु दृा प्रभोः केचिदुदरं च कटिं तथा । दृा तत्रैव चित्तस्य निरोधं प्रतिपेदिरे ।। १७
विशालं हृदयं तस्य केचिद्वीक्ष्य स्तनावपि । श्रीवत्सचिह्नमालोक्य समाधिं प्रापुरात्मनः ।। १८
आजानुबाहुयुगलं केचित्केचित्कराङ्गुलीः । प्रभोरालोक्य तत्रैव सद्यः प्रापुः स्थितिं जनाः ।। १९
केचिद्बगवतो वीक्ष्य प्रसन्नं मुखपङ्कजम् । केचिद्विशाले नेत्रे च तत्र लीनहृदोऽभवन् ।। २०
केचित्तु नासिकां तस्य कपोलौ श्रवसी नृप! । ललाटं भ्रुकुटिं केचिद्वीक्ष्य तत्र स्थितिं ययुः ।। २१
केचिद्धरेः शिरो वीक्ष्य नानाशेखरराजितम् । तत्रैव नेत्रवृत्तीनां निरोधं प्रतिपेदिरे ।। २२
सोऽपि नारायणमुनिस्तदानीं करुणानिधिः । स्वमूर्तेर्दिव्यतैश्वर्ये सौन्दंर्य चाप्यदीदृशत् ।। २३
अतः पश्यजनाः सर्वे तत्तदङ्गेऽस्य लेभिरे । सद्य एव निरोधं वै निजप्राणेन्द्रियात्मनाम् ।। २४
स्वदृष्टाङ्गेतरत्वङ्गमशक्ता द्रष्टुमीशितुः । ते तदा चित्रलिखिता इवाऽसन्नचला जनाः ।। २५
निर्विकल्पसमाधिं ते प्राप्ताः केऽप्यपतन्भुवि । केचित्तथैव तस्थुश्च निषेदुः केऽपि भूतले ।। २६
इत्थं तदानीमाश्चर्यं महदासीज्जनागमे । देवाः सुविस्मिताश्चक्रुः पुष्पवृष्टिं मुदा हरौ ।। २७
स्त्रियश्च पुरुषास्तेऽपि स्वहृत्सु स्फुरितं ततः । तेजःपुञ्जं समद्राक्षुः कोटिसूर्यसमप्रभम् ।। २८
तमेव भगवन्तं च स्फुरन्तं तत्र वीक्ष्य ते । परिषस्वजिरे गाढं प्रापुश्चालौकिकं सुखम् ।। २९
इच्छयैव हरेस्तेऽथ पुनर्लब्धबहिर्दृशः । तमेव वेद्यामासीनं ददृशुः प्रभुमादरात् ।। ३०
आनन्दं लेभिरेऽत्यन्तं ते सर्वे हरिदर्शनात् । सद्योगतश्रमा आसन्हर्षापूर्णहृदो जनाः ।। ३१
तेषामासंश्च कतिचित्पञ्चमासाध्वगा जनाः । चातुर्मास्याध्वगाः केचित्केचित्रैमासिकाध्वगाः ।। ३२
मासद्वयाध्वगाः केचित्केचिन्मासाध्वगा अपि । ते सर्वेऽपि हरिं प्राप्य लेभिरे परमां मुदम् ।। ३३
हरिश्च तान् गृहसुखं त्यक्त्वा कष्टेन भूयसा । स्वदर्शनार्थमायातान्मानयामास सादरम् ।। ३४
स्वागतं कुशलं पृा स तान्वासार्थमादिशत् । वासस्थानानि तान्निन्युर्हरजित्प्रमुखास्ततः ।। ३५
तस्मिन् दिने तु भक्तानां मुहुरागच्छतां प्रभुः । स्वदर्शनप्रदानार्थं तत्रैव न्यवसच्चिरम् ।। ३६
तत्रागतानां नारीणां सन्मानं च यथोचितम् । जयारमादयश्चक्रुर्ललिता तु विशेषतः ।। ३७
तत्रागतेभ्यो विप्रेभ्यो भिक्षुकेभ्यश्च सर्वशः । अध्वक्षीणधनेभ्यश्च हरिरन्नाद्यदापयत् ।। ३८
पञ्चानां दिवसानां च तदैवामान्नमीश्वरः । घृतं सितां च काष्ठादि तेभ्योऽशेषमदापयत् ।। ३९
क्षत्रवैश्याश्च शूद्राश्च सूतमागधबन्दिनः । वादकाद्याश्च ये तांस्तु नृपतेर्गृह आशयत् ।। ४०
अश्वमारुह्य रात्रौ च भटैः कतिपयैर्वृतः । निवासान् सर्वभक्तानां स जगाम पृथक् पृथक् ।। ४१
तेषां स्वास्थ्यं समापृच्छय यन्न्यूनं तददापयत् । वर्तितव्यं सावधानैरिति सर्वानशिक्षयत् ।। ४२
अज्ञातः पुरुषः स्त्री वा निष्कास्यः स्वस्ववासतः । इति सर्वानुपादिश्य निजमन्दिरमाययौ ।। ४३
दूरदेशागतानां च जनानां स्वार्पितात्मनाम् । मुमुक्षां प्रशशंसासौ सोमादीनां पुरः प्रभुः ।। ४४
सम्भावनं कुर्वत एव नृणामागच्छतां सङ्घश आशु तस्य ।
निशस्तृतीयप्रहरान्त आसीत्संलक्षितः कुक्वुटकूजितेन ।। ४५
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे अन्नकूटोत्सवे देशान्तरागतभक्तसन्मानननामा नवमोऽध्यायः।।९।।