अष्टमोऽध्यायः

सुव्रत उवाच 


ब्राह्मे मुहूर्त उत्थाय भगवानथ सर्वदृक् । कृत्वा शौचविधिं स्नत्वा नित्यकर्म समाचरत् ।। १

स्वपीठेऽथ बहिर्वेद्यां स्वास्तृते निजपार्षदैः । उपाविशत्स्वभक्तानां नयनानन्दवर्धनः ।। २

त्यागिभिर्गृहिभिश्चासौ प्रणतश्च पदातिभिः । योषाभिश्च दधौ हस्ते कृष्णस्मरणमालिकाम् ।। ३

कृतनित्यविधिस्तावन्नृपतिः समुपेत्य तम् ।चन्दनाक्षतपुष्पाद्यैरुपचारैः पुपूज ह ।। ४

वर्णिराट्र पार्श्वसंस्थस्तं गृहीतसितचामरः । मुकुन्दो विजयामास व्यजनेन स चोत्तमः ।। ५

मालिकः स्थविरो वाटया हरनाथ उपेत्य तम् । धारयामास भक्तयैव पौष्पान्हारांश्च शेखरान् ।। ६

तावत्तत्रागमत्तूंर्ण ललिताप्रेषिता रतिः । वासःपोटलिकां कक्षे दधानाऽच्छाद्य वाससा ।। ७

प्रणम्य दूरे तिष्ठन्तीं तामवेक्ष्य हरिर्हसन् । किमेतदस्तीत्यप्राक्षीत्तदिङ्गितविदीश्वरः ।। ८

सोमाद्याः प्राहुरनया नूतनान्यंशुकानि ते । धनत्रयोदशीत्यद्याऽनीतानि स्वीकुरु प्रभो! ।। ९

तानाह सोऽद्य तु दिने कृष्णभूषामृजोत्सवः । क्रियतां नूत्नवासांसि धास्येऽहं प्रतिपद्दिने ।। १०

इत्थं वदत्येव हरौ मुनींस्तान् क्रोशार्थदूरे पथि वीक्ष्य योधः ।
उपागतान् गोप उपेत्य दुर्गे दौवारिकं तत्त्वरितं जगाद ।। ११

स्नत्वा व्रजन्नच्युतसन्निधानं कृतोर्ध्वपुण्ड्रो जलपात्रहस्तः ।
शुश्राव मुन्यागमनं तदैव ससम्भ्रमं तन्मयरामभट्टः ।। १२

अथद्रवन्प्रस्खलदङ्घ्रिराशु समुच्छ्वसन्बद्धकटिः सहासः ।
बद्धाञ्जलिः प्राह हरिं समेत्य स चिन्तयन्तं हृदि तत्तदेव।। १३

प्रभो! मुनीनामुपशल्य एव वृन्दानि सङ्घा अपि गौर्जराद्याः ।
समागताः सन्ति महोत्सवोऽद्य त्वद्दर्शनेनास्तु तदीक्षणानाम्।। १४

श्रुत्वा स्वभक्तनिचयागमनस्य वार्तामुत्फुल्लवक्त्रनयनाम्बुरुहोऽतिहर्षात् ।
प्रत्युग्दमोत्सुकमनाः सहसोदतिष्ठत्पीठोत्तमान्निजजनप्रियकृन्मुनीशः ।। १५

तावद्धयं चपलचारिणमानिनाय भुपाज्ञाया भृगुजिदाशु पुरोऽच्युतस्य ।
प्रावारशुभ्रपटबद्धकटिः स्वयं तं सोऽध्यारुरोह झटिति प्लुतिलाघवेन ।। १६

वल्गापकर्षणनिरुद्धजवेन तेन स्वीयाग्रपार्श्वगसमीक्षकलोकसङ्घात् ।
तत्पत्तनात्करविदूरितमार्गलोको भूरित्वरोऽपि शनकैः किल निर्ययौ सः ।। १७

शीघ्रोपबन्धशिथिलत्वचलायमानपर्याणतूर्णगतिवाजिवराधिरुढाः ।
सोमादयस्तमनुजग्मुरुदात्तकुन्ताः पग्दाश्च ताननूययुस्तरवारिहस्ताः ।। १८

सहस्रशोऽन्येऽपि नराश्च नार्यस्तानन्वयुस्त्यक्तसमस्तकृत्याः ।
हरिश्च पुर्या बहिरेत्य पार्ष्णिस्पर्शेन सोऽद्रावयदाशु वाहम् ।। १९

दूरे गतं तं सहसावलोक्य तेऽप्यश्ववाराः पदधाविताश्वाः ।
अन्वद्रवंस्ताननु भक्तसङ्घाः सर्वेऽप्यधावन्हरिमीक्षमाणाः ।। २०

उग्दच्छन्ति धरातलात्किमु दिवं किं वाम्बराद्बूतलं हंसाः ।
सन्निपतन्ति किन्नु गरुडाः किं मूर्तिमन्तोऽनिलाः ।। 

इत्याश्चर्यवशात्समीक्षकजनैस्ते तर्क्यमाणा मुनीन् ।
गीतध्वाननिनादिताखिलदिशश्चैक्षन्त नारीर्नरान् ।। २१

तेऽत्येकं मुनयो मनोजवहयारुढं तमक्षिप्रियं ।
दूराद्वीक्ष्य च लक्षणैर्हरिरसौ वेगोच्छलच्छेखरः ।। 

इत्यात्मान्यनुमाय हृष्टतनवस्तत्पृष्ठधावद्दया- ।
रुढान्वीक्ष्य तु सत्वरं सहजनैस्तं दुद्रुवुर्यूथशः ।। २२

सन्तप्ता वनवह्निनेव करिणो गङ्गाप्रवाहं हिमं ।
दूराद्वीक्ष्य तमुद्रावन्ति च यथा हंसाः सरो मानसम् ।। 

दातारं च दरिद्रभिक्षुकजनाः सद्यो यथा ते तथा ।
धावन्ति स्म तमात्मवल्लभममी भक्तास्तदेकाश्रयाः।।२३

सर्वे ते मुनयस्तदा जविहयारुढप्रभोर्वीक्षणात्स्वीयं ।
दिव्यमवाप्य भावमभवंस्तद्देहभानोज्झिताः ।।

व्यासं वीक्ष्य शुको यथा गतवपुर्भानोऽतिदूराद्द्रवं ।
श्चापोन्मुक्तशरा इवाशुगतयस्तं लेभिरे तत्क्षणम् ।। २४

तान्प्राप्य प्रभुरश्वमाशुजविनं सोऽतिष्ठिपत्तत्क्षणं ।
तेऽपि प्रेमदृगश्रवः स्वपरमप्रेष्ठं प्रभुं दण्डवत् ।।

नेमुः क्षोणितले निपत्य मुनयश्चान्ये पुमांसस्तथा ।
योषा अप्युपविश्य भूनिहितदोर्दत्तोत्तमाङ्गा मुदा।।२५।।

सोमाद्या हरिपार्षदा अथ तदा वाजिभ्य उत्तीर्य तान्नत्वा दण्डवदाशु ते स्वतुरगानध्यारुहन्नुत्प्लवैः ।
नत्वा ते मुनयोऽतिहर्षविवशा उत्थाय फुल्लाक्षिभिः ।
सानन्दं च ससम्भ्रमं स्मितमुखाः स्वप्रेष्ठमैक्षन्त तम्।।२६।।

व्यावल्गच्चपळाश्वरोधनहठादाकृष्य वल्गां दधद्दोष्णैकेन परेण चोत्तमकशां शीर्षेल्लसच्छेखरः।
भक्ते क्षारभसादकञ्चुकधृतेः संलक्ष्यवक्षःस्थले ।
हारालिं च दधत्स पीततिलकस्तैरैक्षि शुक्लाम्बरः।।२७।।

तं वीक्ष्याक्षिमनःप्रियं मधुरया स्वानीक्षमाणं दृशा नातृप्यन्मुनयश्च ते हरिजना बद्धाञ्जलीन्संस्थिताः ।
तान्सम्भाव्य यथोचितं स भगवान्प्रायात्पुरं सादिभिः
साकं तैर्मुनिभिर्जनैश्च शनकैरानन्दयन् स्वान् पथि।।२८।।

श्रृण्वञ्छ्रीनगरागतैः कृतमसौ तासादिवाद्यध्वनिं नानादुन्दुभिश्रृङ्गझर्झररवं सद्बन्धुकीधूष्कृतीः ।
यौषाभिर्निजभक्षपात्रवसनग्रन्थीः शिरःस्वात्मनां ।
धृत्वोच्चारितगीतिकाध्वनिमपि प्रायात्समाकर्णयन्।।२९।।

पुर्यां तत्र नृपालयाङ्गणमुपेत्याश्वात्समुत्तीर्य तानावासाय यथोचितं स भगवानाज्ञाप्य सर्वांस्ततः ।
वेद्याः निम्बतरोरधो मणिमये पीठे निषीदन् स्वयं
पाकं शीघ्रमकारयन्मुनिकृते भक्तान्समुत्साहयन्।।३०।।

भूरिकालतृषितैर्विलोचनैस्तन्मुखाम्बुजसुधां सदीक्षिताम्।
सन्निपीय बहुधापि तर्पणं प्रापि नैव नृप! तर्हि सन्नृणाम्।।३१।।


सुव्रत उवाच

ब्राह्मे मुहूर्त उत्थाय भगवानथ सर्वदृक्

कृत्वा शौचविधिं स्नत्वा नित्यकर्म समाचरत् ।।

स्वपीठेऽथ बहिर्वेद्यां स्वास्तृते निजपार्षदैः

उपाविशत्स्वभक्तानां नयनानन्दवर्धनः ।।

त्यागिभिर्गृहिभिश्चासौ प्रणतश्च पदातिभिः

योषाभिश्च दधौ हस्ते कृष्णस्मरणमालिकाम् ।।

कृतनित्यविधिस्तावन्नृपतिः समुपेत्य तम्

 चन्दनाक्षतपुष्पाद्यैरुपचारैः पुपूज ।।

वर्णिराट्र पार्श्वसंस्थस्तं गृहीतसितचामरः

मुकुन्दो विजयामास व्यजनेन चोत्तमः ।।

मालिकः स्थविरो वाटया हरनाथ उपेत्य तम्

धारयामास भक्तयैव पौष्पान्हारांश्च शेखरान् ।।

तावत्तत्रागमत्तूंर्ण ललिताप्रेषिता रतिः

वासःपोटलिकां कक्षे दधानाऽच्छाद्य वाससा ।।

प्रणम्य दूरे तिष्ठन्तीं तामवेक्ष्य हरिर्हसन्

किमेतदस्तीत्यप्राक्षीत्तदिङ्गितविदीश्वरः ।।

सोमाद्याः प्राहुरनया नूतनान्यंशुकानि ते

धनत्रयोदशीत्यद्याऽनीतानि स्वीकुरु प्रभो! ।।

तानाह सोऽद्य तु दिने कृष्णभूषामृजोत्सवः

क्रियतां नूत्नवासांसि धास्येऽहं प्रतिपद्दिने ।। १०

इत्थं वदत्येव हरौ मुनींस्तान् क्रोशार्थदूरे पथि वीक्ष्य योधः

उपागतान् गोप उपेत्य दुर्गे दौवारिकं तत्त्वरितं जगाद ।। ११

स्नत्वा व्रजन्नच्युतसन्निधानं कृतोर्ध्वपुण्ड्रो जलपात्रहस्तः

शुश्राव मुन्यागमनं तदैव ससम्भ्रमं तन्मयरामभट्टः ।। १२

अथद्रवन्प्रस्खलदङ्घ्रिराशु समुच्छ्वसन्बद्धकटिः सहासः

बद्धाञ्जलिः प्राह हरिं समेत्य चिन्तयन्तं हृदि तत्तदेव।। १३

प्रभो! मुनीनामुपशल्य एव वृन्दानि सङ्घा अपि गौर्जराद्याः

समागताः सन्ति महोत्सवोऽद्य त्वद्दर्शनेनास्तु तदीक्षणानाम्।। १४

श्रुत्वा स्वभक्तनिचयागमनस्य वार्तामुत्फुल्लवक्त्रनयनाम्बुरुहोऽतिहर्षात्

प्रत्युग्दमोत्सुकमनाः सहसोदतिष्ठत्पीठोत्तमान्निजजनप्रियकृन्मुनीशः ।। १५

तावद्धयं चपलचारिणमानिनाय भुपाज्ञाया भृगुजिदाशु पुरोऽच्युतस्य

प्रावारशुभ्रपटबद्धकटिः स्वयं तं सोऽध्यारुरोह झटिति प्लुतिलाघवेन ।। १६

वल्गापकर्षणनिरुद्धजवेन तेन स्वीयाग्रपार्श्वगसमीक्षकलोकसङ्घात्

तत्पत्तनात्करविदूरितमार्गलोको भूरित्वरोऽपि शनकैः किल निर्ययौ सः ।। १७

शीघ्रोपबन्धशिथिलत्वचलायमानपर्याणतूर्णगतिवाजिवराधिरुढाः

सोमादयस्तमनुजग्मुरुदात्तकुन्ताः पग्दाश्च ताननूययुस्तरवारिहस्ताः ।। १८

सहस्रशोऽन्येऽपि नराश्च नार्यस्तानन्वयुस्त्यक्तसमस्तकृत्याः

हरिश्च पुर्या बहिरेत्य पार्ष्णिस्पर्शेन सोऽद्रावयदाशु वाहम् ।। १९

दूरे गतं तं सहसावलोक्य तेऽप्यश्ववाराः पदधाविताश्वाः

अन्वद्रवंस्ताननु भक्तसङ्घाः सर्वेऽप्यधावन्हरिमीक्षमाणाः ।। २०

उग्दच्छन्ति धरातलात्किमु दिवं किं वाम्बराद्बूतलं हंसाः

सन्निपतन्ति किन्नु गरुडाः किं मूर्तिमन्तोऽनिलाः ।।

इत्याश्चर्यवशात्समीक्षकजनैस्ते तर्क्यमाणा मुनीन्

गीतध्वाननिनादिताखिलदिशश्चैक्षन्त नारीर्नरान् ।। २१

तेऽत्येकं मुनयो मनोजवहयारुढं तमक्षिप्रियं  

दूराद्वीक्ष्य लक्षणैर्हरिरसौ वेगोच्छलच्छेखरः ।। 

इत्यात्मान्यनुमाय  हृष्टतनवस्तत्पृष्ठधावद्दया-  

रुढान्वीक्ष्य तु सत्वरं सहजनैस्तं दुद्रुवुर्यूथशः ।। २२

सन्तप्ता वनवह्निनेव करिणो गङ्गाप्रवाहं हिमं  

दूराद्वीक्ष्य तमुद्रावन्ति यथा हंसाः सरो मानसम् ।।  

दातारं दरिद्रभिक्षुकजनाः सद्यो यथा ते तथा  

धावन्ति स्म तमात्मवल्लभममी भक्तास्तदेकाश्रयाः।।२३

सर्वे ते मुनयस्तदा जविहयारुढप्रभोर्वीक्षणात्स्वीयं

दिव्यमवाप्य भावमभवंस्तद्देहभानोज्झिताः ।।

व्यासं वीक्ष्य शुको यथा गतवपुर्भानोऽतिदूराद्द्रवं

श्चापोन्मुक्तशरा इवाशुगतयस्तं लेभिरे तत्क्षणम् ।। २४

तान्प्राप्य प्रभुरश्वमाशुजविनं सोऽतिष्ठिपत्तत्क्षणं

तेऽपि प्रेमदृगश्रवः स्वपरमप्रेष्ठं प्रभुं दण्डवत् ।।

नेमुः क्षोणितले निपत्य मुनयश्चान्ये पुमांसस्तथा

योषा अप्युपविश्य भूनिहितदोर्दत्तोत्तमाङ्गा मुदा।।२५।।

सोमाद्या हरिपार्षदा अथ तदा वाजिभ्य उत्तीर्य तान्नत्वा दण्डवदाशु ते स्वतुरगानध्यारुहन्नुत्प्लवैः

नत्वा ते मुनयोऽतिहर्षविवशा उत्थाय फुल्लाक्षिभिः

सानन्दं ससम्भ्रमं स्मितमुखाः स्वप्रेष्ठमैक्षन्त तम्।।२६।।

व्यावल्गच्चपळाश्वरोधनहठादाकृष्य वल्गां दधद्दोष्णैकेन परेण चोत्तमकशां शीर्षेल्लसच्छेखरः।

भक्ते क्षारभसादकञ्चुकधृतेः संलक्ष्यवक्षःस्थले

हारालिं दधत्स पीततिलकस्तैरैक्षि शुक्लाम्बरः।।२७।।

तं वीक्ष्याक्षिमनःप्रियं मधुरया स्वानीक्षमाणं दृशा नातृप्यन्मुनयश्च ते हरिजना बद्धाञ्जलीन्संस्थिताः

तान्सम्भाव्य यथोचितं भगवान्प्रायात्पुरं सादिभिः

साकं तैर्मुनिभिर्जनैश्च शनकैरानन्दयन् स्वान् पथि।।२८।।

श्रृण्वञ्छ्रीनगरागतैः कृतमसौ तासादिवाद्यध्वनिं नानादुन्दुभिश्रृङ्गझर्झररवं सद्बन्धुकीधूष्कृतीः

यौषाभिर्निजभक्षपात्रवसनग्रन्थीः शिरःस्वात्मनां

धृत्वोच्चारितगीतिकाध्वनिमपि प्रायात्समाकर्णयन्।।२९।।

पुर्यां तत्र नृपालयाङ्गणमुपेत्याश्वात्समुत्तीर्य तानावासाय यथोचितं भगवानाज्ञाप्य सर्वांस्ततः

वेद्याः निम्बतरोरधो मणिमये पीठे निषीदन् स्वयं

पाकं शीघ्रमकारयन्मुनिकृते भक्तान्समुत्साहयन्।।३०।।

भूरिकालतृषितैर्विलोचनैस्तन्मुखाम्बुजसुधां सदीक्षिताम्।

सन्निपीय बहुधापि तर्पणं प्रापि नैव नृप! तर्हि सन्नृणाम्।।३१।।

इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे अन्नकूटोत्सवे मुनिसन्मुखागातभगवद्दर्शनानन्दनामाष्टमोऽध्यायः।।८।।