सुव्रत उवाच-
शाखानगरसंस्थानां मुनीनां सा तु शर्वरी । आसीत्कल्पसमा राजंस्तद्दिदृक्षातुरात्मनाम् ।। १
कथञ्चिद्रजनीं नीत्वा भगवत्कीर्तनादिभिः । प्रातर्दुर्गपुरं तेऽथ सर्व एव समाययुः ।। २
सत्वरं चलतां तेषां वर्त्मान्यासन् हि सर्वतः ।न कर्करान्न पाषाणान्न वृतीस्ते त्वजीगणन् ।। ३
कृपानन्दः स्वयूथेन साकं तूर्णमुपाययौ । त्यागानन्दस्तथैवाऽयान्निर्लोभानन्दयोर्द्वयम् ।। ४
आत्मानन्दः सयूथश्च कृष्णानन्द उपाययौ । स्वयूथेनाथ परमहंसानन्दो मुनिस्तथा ।। ५
तथैव चिन्मयानन्दो वैराग्यानन्द आययौ । अद्बुतानन्दयुगलं स्वस्वयूथसमन्वितम् ।। ६
अक्षरानन्दजिज्ञासानन्दौ स्वैर्मुनिभिः सह । स्वयं प्रकाशकानन्दः कैवल्यानन्द आययौ ।। ७
विरक्तानन्दचिद्रूपानन्दौ स्वस्वर्षिभिर्वृतौ । नरनारायणानन्दः स्वयूथेन च संवृतः ।। ८
तथा श्रीगुरुचरणरतानन्दो ह्युपागमत् । निजयूथेन पतितपावनानन्द आययौ ।। ९
सह स्वयूथेन महापुरुषानन्द आगमत् । धीरानन्दशिवानन्दावाधारानन्द एव च ।। १०
वासुदेवानन्द आयात्स्वयूथेन समन्वितः । तथा परमचैतन्यानन्द आयाच्च सत्वरम् ।। ११
विश्वात्मानन्द आयाच्च वैष्णवानन्दयोर्द्वयम् । निर्गुणानन्द आयाच्च सूर्यानन्दः स्वयूथयुक् ।। १२
राघवानन्दयुगलं कल्याणानन्द आययौ । स्वयूथयुक् पुरुषोत्तमानन्द उपाययौ ।। १३
तथा भागेश्वरानन्दोऽरूपानन्दः स्वयूथयुक् । अपारानन्द आयाच्चामूर्तानन्दोऽपि सत्वरम् ।। १४
गोपेष्टवरानन्दपद्मधरानन्दावुपेयतुः । लक्ष्मीनारायणानन्दो राधेशानन्द आययौ ।। १५
नरानन्दश्च परमपुरुषानन्द आययौ । आयाच्च श्वेतवैकुण्ठानन्दः स्वैर्मुनिभिः सह ।। १६
महानन्दो जगत्पावनानन्दश्च स्वयूथयुक् । भक्तेशानन्दयूथं च देवेशानन्द आययौ ।। १७
हरिप्रकाशानन्दश्च तत्रागाच्छत्स्वयूथयुक् । हरिप्रसादानन्दश्च सुधार्मानन्द आययौ ।। १८
राधेश्वरानन्द आयान्निजयूथसमन्वितः । सुखप्रकाशानन्दश्च निर्विघ्नानन्द आययौ ।। १९
आययावक्षरनिवासानन्दश्च स्वयूथयुक् । धर्मप्रकाशानन्दश्च निर्दोषानन्द आययौ ।। २०
सुखरुपानन्दविश्वनाथानन्दौ समीयतुः । तथा परमसन्तोषानन्द आयात्स्वयूथयुकू ।। २१
शुद्धज्ञानानन्द आयान्निजयूथसमन्वितः । विजयात्मानन्दमुनिः सयूथश्चाययौ द्रुतम् ।। २२
आयाच्च बदरीनाथानन्दः स्वमुनिभिः सह । तथैव परमज्ञानानन्द आयात्स्वयूथयुक् ।। २३
निवृत्यानन्द आयाच्च सदानन्दः स्वयूथयुक् । तथा त्रिविक्रमानन्दश्चिदानन्दोऽभ्युपाययौ ।। २४
नयानन्दः सस्वयूथो ध्यानानन्दस्तथैव च । भजनानन्द आयाच्च परमानन्द आगमत् ।। २५
गोविन्दानन्द आयाच्च स्वयूथेन शमानन्दः सुखानन्दश्चाद्वैतानन्द आययौ ।। २३
सयूथश्चाच्युतानन्दोऽनन्तानन्दः स्वयूथयुक् । अचिन्त्यानन्द आगच्छदमोघानन्द आशु च ।। २७
अरिहन्त्रानन्द आयाग्दवेन्द्रानन्द आत्मनः ।यूथेनानुभवानन्द आदित्यानन्द आययौ ।। २८
स्वयूथेनाचलानन्दोऽथाजन्मानन्द आययौ । अखिलानन्द आकाशानन्द आयात्समण्डलः ।। २९
स्वयूथेनाखिलब्रह्याण्डेश्वरानन्द आगमत् । ओंकारानन्द आयाच्च वीर्यानन्दः समण्डलः ।। ३०
विश्वरुपानन्द आयात्प्रज्ञानन्दः स्वयूथयुक् । परमात्मानन्द आयाद्वेदान्तानन्द आययौ ।। ३१
वैकुण्ठानन्दयूथं च ज्ञानानन्दस्य मण्डलम् । आयाद्बगवदानन्दस्तत्वानन्दः स्वयूथयुक् ।। ३२
निजबोधानन्द आयात्सच्चिदानन्द आययौ । मुकुन्दानन्द आयाच्च क्षमानन्दः स्वयूथयुक् ।। ३३
पुण्डरीकाक्षानन्दश्च विधात्रानन्द आययौ । अनादिनिधनानन्द उत्तमानन्द आगमत् ।। ३४
अग्राह्यानन्द आयाच्च शाश्वतानन्द आत्मनः । यूथेनायाद्धुवानन्दोऽप्रमेयानन्द आययौ ।। ३५
पवित्रानन्द आयाच्च स्थविष्ठानन्द आशु च । हृषीकेशानन्द आयात्प्रभूतानन्द आययौ ।। ३६
सयूथो नियमानन्दो निर्मानानन्द आययौ । निष्कामानन्द आगच्छन्निःस्वादानन्दमण्डलम् ।। ३७
निःस्नेहानन्द आयाच्च कौशिकानन्द आशुच ।अष्टावक्रानन्द आयाद्युक्तानन्दः स्वयूथयुक् ।। ३८
जगदीशानन्द आयन्निजयूथसमन्वितः । पीताम्बरानन्द आयात्पूर्णानन्दः समण्डलः ।। ३९
परमेश्वरानन्दश्च दयानन्दः समण्डलः । सर्वेश्वरानन्द आयादीश्वरानन्द आययौ ।। ४०
सुरेश्वरानन्द आयाद्धर्मानन्दश्च यूथयुक् । मुनीश्वरानन्द आयान्नृहर्यानन्द आशु च ।। ४१
बलभद्रानन्द आयात्प्रकाशानन्द आत्मनः । यूथेन सिद्धानन्दश्च शङ्करानन्द आययौ ।। ४२
विश्रामानन्द आगच्छत्केशवानन्दमण्डलम् । कपिलेश्वरानन्दश्च स्ववशानन्द आययौ ।। ४३
द्रष्ट्टप्रकाशानन्दश्च स्वयूथेन सहागमत् । सज्जनानन्द आयाच्च माधवानन्द आययौ ।। ४४
साङ्खयानन्दः प्रभानन्दो भास्करानन्द आययौ । ऋषभानन्द आगच्छत्सगुणानन्द आशु च ।। ४५
रमेश्वरानन्द आयान्नृसिंहानन्द आगमत् । निर्द्वन्द्वानन्द आगच्छद्विदेहानन्द आययौ ।। ४६
निरालम्बानन्द आयाद्विज्ञानानन्द आययौ । निःसन्देहानन्द आयाद्विश्वासानन्द आययौ ।। ४७
निर्विकारानन्द आयाद्दीप्तानन्दः समण्डलः । निरपेक्षानन्द आयाद्देवानन्दस्तथाययौ ।। ४८
निरन्नानन्द आगच्छल्लक्ष्मणानन्द आशु च । सत्तानन्दो नीलकण्ठानन्दस्तत्राययौ द्रुतम् ।। ४९
निर्मोहानन्द आगच्छद्बूधरानन्द आययौ । योगानन्दस्य यूथं च भद्रानन्दस्य मण्डलम् ।। ५०
अविनाशानन्दयूथमच्छेद्यानन्दमण्डलम् । मायातीतानन्दयूथं मानदानन्दमण्डलम् ।। ५१
हंसानन्दः समागच्छत्प्रद्युम्नानन्द आययौ । मञ्जुकेशानन्दयूथं प्रतोषानन्द आगमत् ।। ५२
हरिभजनानन्दश्च निर्मलानन्दमण्डलम् । हयग्रीवानन्द आयाच्छान्तानन्दश्च यूथयुक् ।। ५३
नरोत्तमानन्दयूथं प्रशान्तानन्दमण्डलम् । नारायणानन्द आयाद्धन्यानन्दश्च यूथयुक् ।। ५४
सवित्रानन्द आयाच्च सुज्ञानानन्द आययौ । धरणीधरानन्दश्च सत्कर्त्रानन्द आययौ ।। ५५
सत्येश्वरानन्द आयाज्ज्योतिषानन्द आगमत् । प्रबोधानन्द आयाच्च प्रभ्वानन्दः समण्डलः ।। ५६
रामचन्द्रानन्दयूथं सर्वज्ञानन्दमण्डलम् । पद्मनाभानन्दयूथं तापसानन्द आययौ ।। ५७
शून्यातीतानन्दयूथं तुरीयानन्द आगमत् । स्वस्वरूपानन्दयूथं वामनानन्दमण्डलम् ।। ५८
जगन्निवासानन्दश्च विवेकानन्द आययौ । अक्षयरूपानन्दश्च मङ्गलानन्द आगमत् ।। ५९
श्वेतद्वीपानन्दयूथमव्ययानन्दमण्डलम् । गोलोकेश्वरानन्दश्च सुव्रतानन्द आययौ ।। ६०
तुरीयातीतानन्दश्च ह्यभेदानन्द आगमत् । दृढव्रतानन्द आयाद्विचारानन्द आशु च ।। ६१
निर्विशेषानन्दयूथं क्षेमानन्दस्य मण्डलम् । अनिरुद्धानन्दयूथं जिष्ण्वानन्दश्च यूथयूक् ।। ६२
मधुसूदनानन्दश्च विष्ण्वानन्दः समभ्यगात् । अव्ययात्मानन्दयूथं मुक्तिदानन्द आययौ ।। ६३
संशितव्रतानन्दश्च वरदानन्द आशु च । ज्ञानवल्लभानन्दश्च सुपर्णानन्द आगमत् ।। ६४
विश्वाधारानन्दयूथं दुर्लभानन्दमण्डलम् । घनश्यामानन्दयूथं प्रसादानन्द आगमत् ।। ६५
दहरानन्द आयाच्चाप्यैश्वर्यानन्दमण्डलम् । अवदातानन्दयूथमलिङ्गानन्दमण्डलम् ।। ६६
राधाकृष्णानन्दयूथं धर्मात्मानन्दमण्डलम् । आयाद्धरिहयानन्दो व्रजेशानन्दमण्डलम् ।। ६७
बालमुकुन्दानन्दश्चोपशमानन्द आययौ । सङ्कर्षणानन्दयूथं श्रीधरानन्दमण्डलम् ।। ६८
जनार्दनानन्दयूथममृतानन्दमण्डलम् । यज्ञोश्वरानन्दयूथं भूतात्मानन्द आगमत् ।। ६९
पूतात्मानन्दयूथं च पुरुषानन्दमण्डलम् । आयात्प्रधानपुरुषेश्वरानन्दः समण्डलः ।। ७०
हिरण्यगर्भानन्दश्च भावनानन्द आययौ । दुराधर्षानन्द आयात्प्रभवानन्द आशु च ।। ७१
ईशानानन्द आयाच्च भूगर्भानन्द आगमत् । प्राणदानन्द आगच्छत्कृतज्ञानन्द आययौ ।। ७२
संवत्सरानन्दयूथं सुरेशानन्दमण्डलम् । त्रिगुणातीतानन्दश्च बुद्धानन्दस्तथाययौ ।। ७३
वृषाकप्यानन्दयूथं वस्वानन्दस्य मण्डलम् । वृषकर्मानन्द आयात्समात्मानन्द आगमत् ।। ७४
सहस्रशीर्षानन्दश्च सर्वगानन्द आययौ । सर्वविदानन्दयूथं सामगानन्द आगमत् ।। ७५
विष्वक्सेनानन्दयूथं वेदानन्दस्य मण्डलम् । धर्माध्यक्षानन्द आयाद्वेदाङ्गानन्द आययौ ।। ७६
लोकाध्यक्षानन्दयूथं भ्राजिष्ण्वानन्दमण्डलम् । चतुर्व्यूहानन्दयूथं सहिष्ण्वानन्द आगमत् ।। ७७
चतुरात्मानन्दआयादनघानन्द आययौ । चतुर्भुजानन्दयूथं विजयानन्द आगमत् ।। ७८
ऊर्जितानन्दयूथं च कारणानन्दमण्डलम् । उपेन्द्रानन्द आयाच्च धृतात्मानन्द आययौ ।। ७९
अतीन्द्रियानन्द आयात्सत्त्वस्थानन्द आगमत् । महावीर्यानन्दयूथं तत्राऽगच्छच्च सत्वरम् ।। ८०
अयोनिजानन्द आयात्सात्त्वतानन्द आशु च । महोत्साहानन्दयूथं विश्रुतानन्दमण्डलम् ।। ८१
अनिर्देश्यानन्दयूथं निमेषानन्दमण्डलम् । महेष्वासानन्दयूथमुदारानन्द आययौ ।। ८२
महाशक्तयानन्दयूथं विश्वानन्दस्तथागमत् । दुर्मर्षणानन्द आयाद्धामानन्दः स्वयूथयुक् ।। ८३
गुरूत्तमानन्दयूथं भूषणानन्दमण्डलम् । सहस्राक्षानन्दयूथमनिलानन्द आययौ ।। ८४
तत्राययौ सत्यपराक्रमानन्दस्य मण्डलम् । निवृत्तात्मानन्द आयात्संवृतानन्दमण्डलम् ।। ८५
सत्कृतानन्दयूथं चासङ्खयेयानन्दमण्डलम् । विशिष्टानन्दयूथं च सिद्धार्थानन्दमण्डलम् ।। ८६
सिद्धसङ्कल्पानन्दश्च सिद्धिदानन्द आययौ । वर्धनानन्द आगच्छद्विविक्तानन्द आशु च ।। ८७
श्रुतिसागरानन्दश्च महेन्द्रानन्द आगमत् । बृहद्रूपानन्द आयाद्वसुदानन्द आशु च ।। ८८
जगन्नाथानन्दयूथं सन्न्यासानन्दमण्डलम् । प्रकाशात्मानन्दयूथं प्रतापानन्द आययौ ।। ८९
अव्यक्तरुपानन्दश्च पावनानन्द आययौ । तथाऽनन्तजिदानन्दः क्रोधहानन्द आगमत् ।। ९०
रामानुजानन्दयूथं प्रथितानन्दमण्डलम् । आयादशोकानन्दश्च सयूथस्तत्र सत्वरम् ।। ९१
दामोदरानन्द आयादकामानन्दमण्डलम् । अनुकूलानन्दयूथमतुलानन्द आययौ ।। ९२
आदिदेवानन्दयूथं श्रीगर्भानन्दमण्डलम् । महाभागानन्द आयान्निर्वाणानन्द आगमत् ।। ९३
व्यवसायानन्द आयात्सन्तोषानन्द आययौ । नन्दानन्दः स्थिरानन्दो विरामानन्द आगमत् ।। ९४
निर्मत्सरानन्द आयाच्छत्रुघ्नानन्दमण्डलम् । सुदर्शनानन्दयूथं विशालानन्द आययौ ।। ९५
परमेष्ठयानन्द आयाद्दक्षानन्दश्च यूथयुक् । धर्मयूपानन्दयूथमिज्यानन्दस्य मण्डलम् ।। ९६
महामखानन्दयूथं विमुक्तानन्दमण्डलम् । सुमुखानन्द आयाच्च सूक्ष्मानन्दश्च यूथयुक् ।। ९७
जितक्रोधानन्द आयाद्ब्रह्मण्यानन्दमण्डलम् । मनोहरानन्दयूथं दर्पहानन्द आययौ ।। ९८
भक्तवत्सलानन्दश्च शुभाङ्गानन्द आगमत् । ज्ञानगम्यानन्द आयाच्छान्तिदानन्द आययौ ।। ९९
पुरातनानन्दयूथं सत्कीर्त्यानन्द आगमत् । सत्यसन्धानन्द आयाद्विशोकानन्द आययौ ।। १००
प्रमोदनानन्द आयान्नन्दनानन्द आशु च । सत्यधर्मानन्द आयात् सग्दत्यानन्द आययौ ।। १०१
गदाधरानन्दयूथं पुण्यानन्दः स्वयूथयुक् । आयाच्चक्रधरानन्दो दुर्जयानन्दमण्डलम् ।। १०२
सनातनानन्दयूथं कुमुदानन्द आगमत् । तुर्णं तत्राऽगमच्छिन्नसंशयानन्दमण्डलम् ।। १०३
विशुद्धात्मानन्दयूथमक्षोभ्यानन्दमण्डलम् । त्रिलोकेशानन्द आयात्सुलभानन्द आशु च ।। १०४
त्रिलोकात्मानन्द आयाद्योगीशानन्द आगमत् । आदित्यवर्णानन्दश्च विशुद्धानन्द आययौ ।। १०५
धनञ्जयानन्दयूथं शुद्धानन्दश्च यूथयुक् । पुण्यकीर्त्यानन्द आयात्सुनेत्रानन्द आययौ ।। १०६
भूतावासानन्दयूथं सद्बूत्यानन्दमण्डलम् । शूद्धात्मानन्दयूथं च विद्यानन्दस्तथाययौ ।। १०७
दिव्यमूर्त्यानन्द आयाच्छरण्यानन्द आशु च । लोकनाथानन्द आयात्साक्ष्यानन्दश्च सत्वरम् ।। १०८
महाकर्मानन्दयूथं सुहृदानन्दमण्डलम् । चतुर्वेदानन्दयूथं सत्त्वानन्दस्तथागमत् ।। १०९
तथेश्वरेश्वरानन्द उद्बवानन्द आययौ । महाभूतानन्दयूथं तत्रागच्छच्च सत्वरम् ।। ११०
आनन्दानन्दयूथं च यज्ञानन्दस्य मण्डलम् । तत्राऽगच्छच्च परमप्रकाशानन्दमण्डलम् ।। १११
योगेश्वरानन्द आयाद्धर्यानन्दश्च यूथयुक् । विश्वचैतन्यानन्दश्च क्षेत्रज्ञानन्द आययौ ।। ११२
तद्रूपानन्द आगच्छत्सत्यानन्दस्य मण्डलम् । अखण्डानन्दयूथं च चैतन्यानन्दमण्डलम् ।। ११३
श्रीनिवासानन्द आयात्सद्धर्मानन्द आशु च । तथा भक्तेश्वरानन्द ईशानन्दश्च यूथयुक् ।। ११४
रासेश्वरानन्दयूथं भावानन्दस्य मण्डलम् । हिरण्मयानन्दयूथं भूमानन्दस्तथाययौ ।। ११५
एवं ते मुनयः सर्वे स्वस्वयूथसमन्विताः । अन्ये च पुरुषा योषा आययुर्दुर्गपत्तनम् ।। ११६
शकुनानतिमङ्गलावहांस्तैर्बहुशो वर्त्मनि भूप! जायमानान् ।
प्रसमीक्ष्य हरीक्षणक्षणः स्वान् झटति प्राप्त इति स्म मन्यते वै ।। ११७
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे अन्नकूटोत्सवे मुनिमण्डलागमननामा सप्तमोऽध्यायः।।७।।