षष्टोऽध्यायः

सुव्रत उवाच 


दुर्गे पुरेऽथ निजभक्तमनोभिरामो नारायणः कपटमानवनाटयधारी ।
पक्वान्नपुञ्जमपि कारयति स्म युक्तया भक्तान् स्तुवन्प्रतिदिनं द्विगुणाभिवृद्धया ।। १

पाकक्रियाभिरततामनुवेलमीशः स्त्रीणां नृणां च समबुध्यत गुप्तदूतैः ।
तेषामविश्रममहर्निशमुद्यमं तं ज्ञात्वाऽप विस्मयमसौ परमां मुदं च ।। २

स्त्रीभ्यश्च पाचकनरेभ्य उतेशवाक्यं चत्वार एव गदितुं ह्यनुवेलमासन् ।
खट्वाङ्ग आदिम उमाभयनाचिकेतौ तुर्यश्च तत्र मयराम इमे ह्यकामाः ।। ३

तत्रापि निष्कपटभावविशुद्धचित्तो दीर्घारवोर्ध्वेकरदर्शितकार्यशैघ्रयः ।
खट्वाङ्ग आत्मपरमात्मयथार्थरुपवेत्ता कृतात्मवसतिर्हरिपार्श्व आसीत् ।। ४

निर्मानवृत्तिपरिपोषितवासुदेवौ धीरौ यथोक्तवचनस्य निवेदकौ च ।
आस्तां महानस उमाभयनाचिकेतौ पार्श्वे विभोश्च हरिभक्तजनानुकूलौ ।। ५

वार्धक्यबद्धकटिदत्तकरो नतांसः कल्याणमस्त्विति वचोर्थनहासितेशः ।
सद्यःक्रियो जवनिवेदितकार्यभारस्तत्रानिशं हरिपुरो मयराम आसीत् ।। ६

पक्वान्नसिद्धिमथ वीक्षितुमच्युतोऽपि स द्वादशीनिशि वृतः परिमेयपद्गैः ।
कृष्णाख्यनापितपुरोधृतदीपिकाभाद्यो तत्तनुद्युतिरियाय च पाकशालाम् ।। ७

दोष्णैककेन स दधत्तनुवेत्रयष्टिमालम्बमान इतरेण कटिं च दोष्णा ।
तूर्णाञ्चनप्रचलदुत्तमहारराजिर्व्यालोलदीर्घनयनेक्षितभक्तसङ्गः ।। ८

आन्दोलयन्निजजनार्पितशेखरालिं तूर्णक्रमाच्चटचटायितपादुकाङ्घ्रिः ।
धावत्पदातिगणसंश्रितपृष्ठदेशः प्रापत्सिताम्बरधरश्च महानसं सः ।। ९

तेज आकस्मिकं विक्ष्य ज्ञात्वा भगवदागमम् । त्यक्तान्यवाचस्तत्रत्याः प्रणेमुस्तं द्विजोत्तमाः ।। १०

प्रभाशङ्करशर्माथ दयारामश्च पाकवित् । दाजिद्वयं बर्हिचरो रामचन्द्रश्च लालजित् ।। ११

नन्दुस्तथा नन्दलालो गङ्गादत्तो नरोत्तमः । लक्ष्मीदत्तो दयारामः कृपाशङ्कर ईश्वरः ।। १२

काशीरामश्च तुलजारामश्च शिवयाज्ञिाकः । देवरामस्तथा जीवो विप्रो लीलाधरस्तथा ।। १३

पीताम्बरोऽनूपरामो रेवाशङ्करनामकः । बालो विजयरामश्च द्वावम्बारामसंज्ञिातौ ।। १४

तथा नारायणजयप्रमुखास्ते ससंभ्रमम् । प्रणम्य तं प्राञ्जलयस्तस्थुः सर्वे तदग्रतः ।। १५

लौहान् पृथून्कटाहांस्तु रिक्तान् दृाथ तत्र सः । हरिः कान्दविकान् प्राह युष्माभिः कियतेऽत्र किम् ।। १६

तमाहुस्ते वयं स्वामिन्नद्यैव निखिलान्यपि । न्यदीधपाम पेटासु पक्वान्नानि विधाय वै ।। १७

चुल्लीभ्योऽप्यधुनैवैते कटाहा भुवि सत्पते! । उत्तारिताः सन्त्यस्माभिरन्यच्चेत्कार्यमुच्यताम् ।। १८

भक्ष्यकारवचः श्रुत्वा ज्ञात्वा तत्करलाघवम् । सविस्मयं तान्संस्तुत्य प्राह चान्धसिकान्प्रभुः ।। १९

आगमिष्यन्ति हि प्रातर्मुनियूथानि सर्वतः । तस्मादोदनसूपादिसाधने सन्तु तत्पराः ।। २०

आज्ञाप्य पाचकानित्थं योषारसवतीगृहम् । जगाम भगवानेकः संस्थाप्य स्वानुगान्बहिः ।। २१

दृा तमागतं नाथं सद्य उत्थाय योषितः । आसनर्थं ददुस्तस्मै पट्टकं हेमभूषितम् ।। २२

बद्धाञ्जलिपुटा नत्वा तं तस्थुस्तत्र योषितः । गङ्गा रेवा च यमुना यतिनी लहरी तथा ।। २३

मौना रुपा दुर्लभा च नाथी रामाऽमृताऽमरी । गुलाला पुत्तली लाडुर्जीवा मिट्विश्च जाह्नवी ।। २४

मान्योदयकुमारी च काशी जयकुमारिका । उमा कुमारी कुशला हेतुर्वाणी सुखा तथा ।। २५

एता अन्याश्च बहवो विप्रयोषा दिवानिशम् । पाककर्मप्रसक्तास्ता हरिः प्राह हसन्वचः ।। २६

पच्यते साम्प्रतं किन्नु? भवतीभिर्महाव्रताः! । इत्युक्तवन्तं तं प्राह ललितैत्य प्रणम्य च ।। २७

खाजकादीनि पुर्वेऽह्नि कृतान्यद्य तु फेणिकाः ।कृत्वा श्वो भक्ष्यभोज्यानि कुर्वन्त्येताः सतां प्रभो! ।। २८

वयं च क्षत्रियादीनां त्वद्दर्शन उपैष्यताम् । भक्तानां तु कृते कुर्मः पाकमस्मद्गृहे पृथक् ।। २९

जया रमा च पाञ्चाली नानी फुल्लजया रतिः । अमरी चामला क्षेमा यमी देव्यजवा तथा ।। ३०

अदिती रेवती सातिर्मेना मल्ली च जाह्नवी । इत्याद्याः कुर्वते पाकं तत्र क्षत्रस्त्रियो हरे! ।। ३१

इति तस्या वचः श्रुत्वा हरिः सञ्जातविस्मयः । पुम्भ्योऽधिकं श्रमं जानन्नस्तौत्ता धूनयञ्छिरः ।। ३२

आत्मना कथनीयं यत्तत्तु ताभिः स्वयं कृतम् । इति तूष्णीं प्रभुः प्रायात्प्रसन्नः स्वस्य मन्दिरम् ।। ३३

निष्कुलानन्दमाहूय मुनिं तत्र ततो नृप! । लब्धाख्यं च नृपामात्यमूचे हरजितं च सः ।। ३४

आयास्यन्त्यत्र मुनयः प्रातःकाले सहस्त्रशः । देशान्तरीयश्च नरा योषितश्च महाव्रताः ।। ३५

वासस्थानानि सर्वेषां तेषामद्य पृथक्पृथक् । यथोचितं कारयन्तु भवन्तो ह्यत्र पत्तने ।। ३६

इत्याज्ञाप्तास्रयस्ते तु गत्वा पुरि यथोचितम् । स्थानानि कारयामासुहरेराज्ञानुसारतः ।। ३७

स्वीयभक्तहितमेव चिन्तयन् सोऽप्यशेत दशमक्षणे निशः ।
तस्य तर्ह्यपि तु योगनिद्रया प्रापि नैव नृप! सेवनक्षणः ।। ३८


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे अन्नकूटोत्सवे भगवत्कृतपाकशालावलोकननाम षष्टोऽध्यायः ।।६।।