पञ्चमोऽध्यायः

सुव्रत- उवाच


इङ्गितज्ञो हरेस्ते तु तद्दत्तनयनश्रुती । उत्तमागमनात्प्राग्वै बुबुधाते तदीहितम्।। १

हरिदास्येन साफल्यं जानत्यौ निजजन्मनः । अतिहर्षर्भृतोरस्के भगिन्यौ ते बभूवतुः।। २

तावदागत्य सोऽप्याह यथावद्वचनं प्रभोः । योषितां मध्यगे स्वस्य स्वसारौ नृपनन्दनः।। ३

क्रियतामिति वाक्श्रुतिस्तदा पृथुहर्षं हि तयोः सुचेतसोः ।हृदि जातममान्तमन्तरे बहिरस्त्रावयदस्रकैतवात्।। ४

अथ ते झटिति स्वकेतनं प्रभुमानम्य मुदा समेत्य च ।लघु साधयितुं चतुर्विधं प्रयतेते स्म सदन्नमञ्जसा।। ५

प्रथमं शुभशालिकण्डनं सितगोधूमसुसूक्ष्मपेषणम् ।बहुभिर्वनिताभिरादराद्धरिभक्ताभिरकार्यत द्रुतम् ।। ६

नितरामभवन्महोत्सवो हरिनिध्नीकृतहृद्धनात्मनाम् ।परिचारकयोषितां तदा सततं निष्कपटान्तरात्मनाम् ।। ७

पुरि तत्र गृहे गृहेऽभवद्वनितानां दलनादिकर्मसु ।दिवसेषु निशासु चाच्युतो हरिगीतध्वनिरेव मङ्गलम् ।। ८

चतुरा ललितानिदेशतः शुचयो ब्राह्मणयोषितस्तदा ।वटिकाः सितसूक्ष्मसेविकाः पृथुलान् पर्पटकांश्व चक्रिरे ।। ९

वटिकागुलिका निधाय काचिज्जपमालामणिसङ्खयया तदानीम् ।
विदधेऽन्यतदालिभिः स्वकीयं जपमालाविधिमेव नैत्यकं च ।। १०

सितनिर्मलकांस्यपात्रपृष्ठे विदधाना पृथुपर्पटं च काचित् ।
सहसा स्फुरितं हरिं समीक्ष्य प्रहसन्त्युद्धृतवेल्लणैव तस्थौ ।। ११

हरिमेव जले स्थले च काचित्परिपश्यन्त्यथ सेविकाविधाने ।
स्फुरितं तमवेक्ष्य तैलमर्दं विदधानेव बभौ गतस्मृतिः सा ।। १२

तितऔ विनिधाय भूरि पिष्टं विदधाना लघु चालनं कराभ्याम् ।
हसिता हरिणा पुरा भृशं तद्धृदि संस्मृत्य मुहुर्जहास काचित् ।। १३

कलमानवहन्तुमिच्छती हरिमालोक्य च कण्डनीमुखे ।
स्फुरितं सहसाभवत्स्थिरा मुसलं दोषणि कापि बिभ्रती ।। १४

सकला अपि योषितस्तदैवं निजभावानुसृतेः समीक्षमाणाः ।
सकलास्वपि ताः क्रियासु साक्षाद्धरिमासन्नधिकाः समाधिभाग्भ्यः ।। १५

इति तासु सहर्षमुद्यतासु प्रभुसम्प्रीणनमेतदित्यवेत्य ।
घृतपूर्णकुतूः सिताढयपेटाः शतशो ह्यानयति स्म चोत्तमोऽपि ।। १६

अनयञ्छतशोऽम्बरीषकन्दून्विततस्थालकटाहदीर्घदर्वीः ।
कलशीर्मणिकाञ्छरावकुम्भान्नृपपद्गाः पिठरांश्च कुण्डतर्दून् ।। १७

रजनीं मरिचानि जीरकं च त्वचकुस्तुम्बुरुश्रृङ्गवेरचिञ्चाः ।
लवणं दधितक्रराजिकादीन्नृपपत्न्यौ मुदिते स्म साधयेते ।। १८

शुचिवासस आहरंस्तदानीं करकक्षान्तरगर्गरीघटाश्च ।
सधवा विधवाश्च विप्रयोषा व्रतशुष्यत्तनवोऽपि गाङ्गमम्भः ।। १९

तपःक्रियाभिः कृशशुष्कगात्रा अपि श्रमं भूरि दिवा च रात्रौ ।
ताः कुर्वतीः स्त्रीस्तु समीक्ष्य धात्रा तदाबलानामधृता ललज्जे ।। २०

अथ द्विजान् कान्दविकांश्च पृा तत्सूदशालामुचितामचीकरत् ।
नृपः स्वसृप्रेरित आशु शाकान्याहारयामास पुरान्तराच्च ।। २१

आस्तां शुमे तत्र महानसे द्वे स्त्रीणां च पुंसां पृथगेकमेकम् ।
पुंसां प्रभाशङ्कर आस मुख्यो गङ्गा च योषास्विह पाककार्ये ।। २२

ये पाचकास्तत्र पुमांस आसंस्तान्मानजित्कृष्णजिदम्बरामाः ।
शाकान्नकाष्ठानयनादिकृत्यैरनुक्षणं पर्यचरंस्तथाऽन्ये ।। २३

शाकेन्धनाद्याहरणे तु योषाः स्त्रीभ्यः प्रसक्ता हरिरत्नवत्यौ ।
रामाऽन्यगङ्गा रजनी च नाथी वीज्या च कल्लूप्रमुखा बभूवुः ।। २४

सम्भारसंसाधन एव पुंसु सक्तेषु हर्षाद्वनितासु चेशः ।
आकारणाय त्वरितं मुनीनां दूतानटाटयान् दिश आदिदेश ।। २५

ते गत्वा तत्र तत्राशु मुनीनाहुर्निजप्रभोः । आज्ञा धनत्रयोदश्यां स्वेक्षणस्यास्ति वः किल ।। २६

इत्युक्तास्ते तु मुनयो भगवद्दर्शनोत्सुकाः । नत्वा हृदा प्रभुं सद्यो निर्ययुर्दुर्गपत्तनम् ।। २७

पुस्तकादीन्यपि स्वानि यत्र तत्र निधाय च । ग्राम्यान् पौरानपि जनाननापृच्छयैव निर्ययुः ।। २८

यथालब्धं क्वचिद्बैक्षं फलपत्रादि वा क्वचित् । भुक्त्वाप्युपोष्य वा क्वापि ते चलन्ति स्म वर्त्मनि ।। २९

तत्र तत्र हरेर्भक्ताः पुरुषा योषितोऽपि च । दर्शनावसराभिज्ञा ययुः सद्यः सहर्षिभिः ।। ३०

पाश्चात्यपञ्चालजना मुनियूथानि सर्वतः । देशान्तरीयलोकांश्च साश्चर्यं ददृशुर्बहून् ।। ३१

दृा ते सत्वरगतीनागच्छत ऋषीञ्जनान् । प्रतिक्षणं यूथशस्तान्बहुधैव व्यतर्कयन् ।। ३२

निभृता मुनिभिः किन्नु महानौका उपागताः । उद्वेलः किमभूदेष ,समुद्रो वा जनात्मकः ।। ३३

आश्चर्यमित्थं लोकानामतत्तत्वविदां पथि । जनयन्त उपाजग्मुर्मुनयो दुर्गपत्तनम् ।। ३४

यथा यथा हरेर्धामसान्निध्यं पथि लेभिरे । तथा तथातिवेगास्ते बभूवुरश्रमा इव ।। ३५

न ते दैह्यं सुखं दुःखमनुसन्दधुरध्वनि । धावदश्वाधिरुढं स्वं पश्यन्तः प्रभुमग्रतः ।। ३६

दिग्भ्योऽष्टभ्यः समायाता मुनयः साङ्खययोगिनः । साधवो वर्णिनश्चासन्नभितो दुर्गपत्तनम् ।। ३७

दूरदेशस्थिता ये च मुनयो गृहिणस्तथा । बोधन्यागमना वर्षे तेऽपि तत्राययुस्तदा ।। ३८

स्वस्वयूथैः सहैवैते त्यागिनो गृहिभिः सह । शाखापुराण्युपाश्रित्य तस्थुर्वै द्वादशीदिने ।। ३९

ते दुर्गपुरदत्ताक्षाः सर्वे भक्तजना नृप! । दर्शनोत्का अपि हरेर्वाग्रुद्धास्तत्र संस्थिताः ।। ४०

सङ्कुलानि जनैः शाखानगराणि हरिप्रियैः । उद्वेलसागराभानि बभूवुर्द्वादशीनिशि ।। ४१

स्मरन्त एते हृदि भक्तिनन्दनं सङ्कीर्तयन्तश्च गुणांस्तदाश्रितान् ।
स्वास्थ्यं न तत्र प्रतिपेदिरे हरेः प्रत्यक्षवीक्षाहृतमानसत्वतः।।४२


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे अन्नकूटोत्सवे मुनिमण्डलाकरणनामा पञ्चमोऽध्यायः ।।५।।