सुव्रत उवाच-
पुरे नृपैवं सकलानचीकरत्कृष्णोत्सवानुत्तमसद्मनि प्रभुः । वदामि तत्रैकतमं समासतस्ततोऽनुमेया इतरे तथैव हि ।। १
इषाख्यमासे विजयादशम्यां स सर्वधारिण्यथ वत्सरेऽस्य । मनोरथं पूरयितुं नृपस्य महोत्सवं रम्यमचीकरच्च ।। २
मुख्याऽभवत्तत्र जयोत्तमस्य स्वसैव पाकादिविधापने च । सम्भावने सर्वश एव नानादेशागतानां वनिताव्रजानाम् ।। ३
देशान्तरेभ्यो बहवः समीयुस्तत्रोत्सवे भक्तजनाः सहर्षम् । वर्णिव्रजास्त्यागिगणा नराश्च नार्यश्च नारायणदर्शनोत्काः ।। ४
ते चन्दनेनाथ सुगन्धिपुष्पैर्वस्त्रैरनर्घ्यैश्च विभूषणैश्च । तं पूजयामासुरुदारभावाः श्रीवासुदेवं नरमूर्तिमीशम् ।। ५
स त्यागिनां तत्र नृपश्च भक्त्या वृन्दानि पक्वान्नविचित्रशाकैः । सम्प्रीणयामास जनांस्तथान्यान् यथोचितं सर्वश एव सुज्ञाः ।। ६
एकान्तिकं धर्ममथानुशास्य तेभ्यः सुखं स्वस्य दिनानि सप्त । दत्वा हरिस्तान् परितोष्य भक्तान् प्रस्थापयामास पुनः स्वदेशान् ।। ७
मार्गे प्रशंसन्त ऋषिप्रवीरास्तथा गृहस्थाः पुरुषाश्च नार्यः । बुद्धिं नृपस्यास्य शुभं स्वभावं हरौ च भक्तिं प्रययुः स्वदेशान् ।। ८
व्रजत्सु तेषूत्तम आदरेण विप्रान्प्रभाशङ्करदाजिमुख्यान् । विप्राश्च गङ्गाप्रमुखाः स्वगेहे न्यवासयत्कर्तुमिहान्नकूटम् ।। ९
पाकक्रियादौ निपुणाश्च ते ताः प्रीत्यै हरेस्तस्य च भक्तिभाजाम् । तत्रावसंस्तत्परिचर्ययैव स्वजन्मसाफल्यविदो नरेश ! ।। १०
विसर्जयित्वाथ स तत्र सर्वशः समागतान्भक्तजनान्निजाङ्गणे । वितर्दिकायां परिमेयपार्षदैर्वृतो हरिः पीठ उपाविशत्स्वके ।। ११
तस्मिन् दिने च ललिताऽभयराजकन्या भक्तौ हरेश्च निपुणा व्यवहारकार्ये । प्रष्टुं जयां किमपि सा वयसा वरिष्ठां सम्मानयन्त्युपययौ मुखमन्दहासा ।। १२
तत्रोपविश्य च जगौ भगिनि ! त्वयाऽघ सन्तोषितो हि भगवानुरुसेवनेन । इच्छामि सम्प्रति तथाविधमन्नकूटे कर्तुं हि सेवनमहं तव सम्मतेन ।। १३
इत्युक्ता सा जया प्राह भगिनीं तां कनीयसीम् । तोषितो हि त्वया भद्रे! जन्माष्टम्यां हरिर्भृशम् ।। १४
हरेः सम्प्रीतये तत्र त्वया सेवा कृता भृशम् । दीपोत्सवे पुनः कुर्याः कृष्णपक्षागते शुभे! ।। १५
अन्नकूटोत्सवे सेवां शुक्लपक्ष उपागते । करिष्याम्यहमित्थं हि मर्यादा हरिणा कृता ।। १६
इति श्रुत्वा जयावाक्यं प्राह सा सस्मितानना । युक्तिवाक्येषु निपुणा ललिता ललितं वचः ।। १७
ललितोवाच-
ज्येष्ठे ! भगिनि ! सत्यं हि त्वया प्रोक्तमिदं वचः । आवाभ्यां पालनियाऽत्र मर्यादा भगवत्कृता ।। १८
दीपोत्सवान्तर्गतोऽसावन्नाकूटो न वै पृथक् । अयि ! त्वया नारदोक्तिर्व्रतखण्डे श्रुता न किम् ।। १९
संलग्नमेव कर्तव्यं दीपावल्या दिनत्रयम् । पृथक्वृतौ महान्दोष इति तत्र श्रुता मया ।। २०
अत एव यथायुक्तं त्वमाज्ञापय मां स्वसः ! । आज्ञायामेव ते नित्यं वर्तितव्यं मया किल ।। २१
रुचिश्चेत्तव तर्ह्यद्य गृहाणाज्ञां महाप्रभोः । सम्भारांश्च ततः कर्तुं त्वमाज्ञापय सेवकान् ।। २२
युक्तियुक्तमिदं वाक्यं ललिताया निशम्य सा । ऋजुबुद्धिर्जया प्राह त्वमेव कुरु तच्छुभे! ।। २३
अथोत्तमं समाहूय जया प्राह शुभं वचः । अन्नकूटोत्सवायाज्ञां गृहाण भ्रातरीशितुः ।। २४
इत्युक्तः सोऽतिहर्षेण जगाम हरिसन्निधौ । तिष्ठतः स्म च दूरे ते उभे सदसि योषिताम् ।। २५
उत्तमश्च हरिं नत्वा बद्धाञ्जलिपुटस्ततः । तस्थौ तदग्रेऽवसरं प्रतीक्ष्य स्वस्य भाषणे ।। २६
तं विवक्षुं हरिर्ज्ञात्वा प्रोवाच प्रहसन्वचः । किं कार्यमस्ति भो राजन्नित्युक्तः सोऽब्रवीत्प्रभुम् ।। २७
विज्ञाप्यमस्ति भगवन्मम किञ्चिदेव सम्प्रीणनाय तव तत्कृपया श्रृणु त्वम् ।
आज्ञा भवेद्यदि तव प्रियभक्त! तर्हि प्रीत्याऽन्नकूटमहसम्भृतिमाहरेम ।। २८
निश्छद्मवाक्यमिति तस्य निशम्य हृष्टो नारायणो निजजनप्रियकृज्जगाद ।
आलोकयन्निजवचःश्रुति दत्तकर्णे दूरस्थबद्धकरसम्पुटतद्बगिन्यौ ।। २९
श्रीभगवानुवाच-
भूरिव्ययः कृतोऽस्त्येव युष्माभिर्नृप! दुष्करः । जन्माष्टम्यां च विजयादशम्यां द्वादशीषु च ।। ३०
आगतो नातिदूरे च प्रबोधन्या महोत्सवः । भवतां धनसम्पत्तिर्नाविज्ञाताऽस्ति मे किल ।। ३१
द्रव्यसम्बन्धि यत्कार्ये तद्द्रव्येणैव साध्यते । न तु ज्ञानेन भक्तया वा न नामस्मरणादिभिः ।। ३२
आनीयेतस्ततो द्रव्यं ये धर्ममपि कुर्वते । उत्तमर्णोपद्रवेण क्लिश्यन्ति ज्ञानिनोऽपि ते ।। ३३
अर्थानथोपदेशेन न भक्तया बोधनेन वा । उत्तमर्णो गृहाद्यति विना द्रव्यं हि कर्हिचित् ।। ३४
प्राणापदं विना क्वापि ऋणं कार्यं न कुत्रचित् । नोत्तमर्णसमं दुःखमन्यत्किञ्चन विद्यते ।। ३५
पञ्चमेऽहनि षष्ठे वा शाकपत्राशनं वरम् । नतूत्तमर्णकदनं नृपतेरपि कर्हिचित् ।। ३६
प्रीयते भावशुद्धयैव भगवान्न तु भूयसा । धनेनेति स एवाह गीतायामर्जुनं प्रति ।। ३७
पत्रं पुष्पं फलं तोयं यो मे भक्तया प्रयच्छति । तदहं भक्तयुपहृतमश्नामि प्रयतात्मनः ।। ३८
भक्तयैकान्तिकया हीनो यः करोत्यच्युतार्चनम् । महद्बिरुपचारैस्तत्प्रीत्या गृाति न प्रभुः ।। ३९
बहुद्रव्यार्थयत्नोऽतः पूजार्थमपि सत्पतेः । न कार्यः कार्य एकान्तभक्तयाप्त्यै तस्य सर्वथा ।। ४०
एकान्तिकेषु भक्तेषु यादृशोऽकिञ्चनेष्वपि । आदरो दृश्यते तादृगृद्धाभक्तेषु न प्रभोः ।। ४१
यस्यान्यवासनायुक्तं भक्तस्यापि भवेन्मनः । तस्मान्निर्वासने भक्ते प्रीतिरस्त्याधिका हरेः ।। ४२
समृद्धयैश्वर्यसम्पन्ना देवा इन्द्रादयो हरिम् । महोपचारैरर्चन्ति भक्तया नित्यमतन्द्रिताः ।। ४३
किन्त्वन्यवासनायुक्तं मनस्तेषां हि वर्तते । अत एकान्तिभक्तेषु लभन्ते गणनां न ते ।। ४४
न्यूनैश्वर्या अपि ततो विरक्ताः सनकादयः । सन्त्येकान्त्यग्रगण्या वै हृत्स्थहर्येकवासनाः ।। ४५
पत्रपुष्पादिभिस्ते च कुर्वन्तोऽप्यच्युतार्चनम् । प्रीणयन्त्येव नितरां राधिकारमणं प्रभुम् ।। ४६
तस्माग्दृहस्थैर्मद्बक्तैधर्मोऽपि स्वीयशक्तितः । कर्तव्यो न त्वृणं कृत्वा केनचिन्नृप! कर्हिचित् ।। ४७
अन्नकूटोत्सवस्तस्माद्यथाशक्तयेव साम्प्रतम् । क्रियतां न तिथिः शून्या भवेद्बगवतो यतः ।। ४८
नारायणो वासुदेवो गोलोकाधिपतिस्तु यः । वसुदेवगृहे जातः स कृष्णो व्रजमागतः ।। ४९
तेन प्रवर्तितोऽस्त्येष गोवर्धनमहोत्सवः । अतस्तदीयैरस्माभिः कर्तव्योऽसाविति ध्रुवम् ।। ५०
सुव्रत- उवाच
आज्ञाप्त एवं हरिणा स तूर्णं प्रणम्य तं पार्श्वमगाद्बगिन्योः ।
श्रीकृष्णसेवारहितः क्षणोऽपि ययोर्न चित्ते क्व च रोचते वै ।। ५१
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे अन्नकूटोत्सवे भगवदाज्ञाग्रहणनामा चतुर्थोऽध्यायः ।।४।।