तृतीयोऽध्यायः

सुव्रत उवाच-

अथ राजोत्तमो धीमान् पित्रुद्देशेन वाडवान् । साधूंश्च भोजयामास प्रतिमासं सहस्रशः ।। १

संवत्सरे व्यतीतेऽसौ वासितस्य स्ववेश्मनि । प्रीत्यै हरेः स्वपितृवदचिकीर्षन्महोत्सवान् ।। २

जयाललितयोः पार्श्वमेत्य ते मानयन्स च । उवाच विनयानम्रः कार्याकार्यविचक्षणः ।। ३


उत्तम उवाच-

युवां भगिन्यौ ! निपुणे हरेर्भक्तौ च लौकिके । व्यवहारेऽपि भवथस्ततः प्राप्तोऽस्म्यहं हि वाम् ।। ४

हरिः स्वाम्यत्र कृपया स्थितोऽस्त्यस्मासु पत्तने ।तस्यैव च प्रसादान्नः सम्पदेषाऽस्ति लम्भिता ।। ५

अतस्तदर्थमेवैषा व्ययं नेया न चान्यथा । पित्रापि नः कृतं हीत्थं तथाहं कर्तुमुत्सहे ।। ६

जन्माष्टमीमुखान्सर्वानुत्सवान्वार्षिकानहम् । पितृवत्कर्तुमिच्छामि यथाकालं पृथक् पृथक् ।। ७

साहाय्यं तत्र मे कार्यं भवतीभ्यां महाव्रते ! । उह्याऽस्त्येषावश्यमेव युवाभ्यामेव धर्मधूः ।। ८

सम्पदेषा च दासाद्या भवतीसान्मया कृताः । आहारयिष्याम्यखिलान् पदार्थान्वामपेक्षितान् ।। ९

पाकक्रियाव्यवस्थात्र भवतीभ्यां यथोचितम् । कार्या देशान्तरायातस्त्रीणां सम्भावना तथा ।। १०


सुव्रत उवाच -

इत्युक्ते ते तु संहृष्टे कृष्णसम्प्रीणनोत्सुके । ऊचतुर्भ्रातरं राजन्प्रशंसन्त्यौ महामती ।। ११

जयाललिते ऊचतुःसम्यगेतत्त्वया भ्रातर्हृदि व्यवसितं निजे ।
विधेहि त्वं यथावित्त हरिप्रीत्यै महोत्सवान् ।। १२

पित्राश्रिते हि सन्मार्गे स्थेयं पुत्रेण धीमता ।
 कृपापात्रं भगवतस्त्वं तु तद्वेत्सि सन्मतिः ।। १३

त्वमानयस्व सम्भारानावां पाकादिकाः क्रियाः । 
यथावत्कारयिष्यावस्तच्चिन्तां त्यज सर्वथा ।। १४


सुव्रत उवाच -

स्वसृभ्यामेवमुक्तोऽसौ प्रहृष्टो हरिमेत्य तत् । कथयामास नृपतिः स्वचिकीर्षितमानतः ।। १५

तमाह भगवान् प्रीतो धन्योऽसि नृपते! यतः । भक्तावेव हि कृष्णस्य मतिस्ते दृढतां गता ।। १६

तपस्विन्यौ भगिन्यौ ते कार्येऽस्मिन् स्तो विचक्षणे । तदुक्तरित्याऽतः सर्वान्कुरु कृष्णामहोत्सवान् । १७

तत्र स्वसारौ मुख्ये ते साम्प्रतं भवता कृते । उचितं तत्कृतं नूनं तदर्हे स्तो यतो हि ते ।। १८

तथापि मुख्यतैकस्मिन्नुत्सवे नोचिता द्वयोः । एकस्मिन्मुख्यतैकस्या भवेदिष्टफलप्रदा ।। १९

इत्युक्त्वा तं ततस्ते द्वे आहूयाऽह हरिः स्वयम् । श्रृणुतं मद्वचो भद्रे! श्रुत्वा तत्कुरुतं तथा ।। २०

उत्सवाः शुक्लपक्षीया ये स्युः कृष्णस्य तेषु तु ।जये! तवैव मुख्यत्वं पाकादीनां विधापने ।। २१

कृष्णपक्षीयोत्सवेषु ललिते ! तव मुख्यता । युवाभ्यां ते विधातव्या देशकालानुसारतः ।। २२

भवत्योः कृष्णसेवायामुत्साहो वर्तते महान् । देवीनामपि दुष्प्रापः सफलः स भविष्यति ।। २३

इत्युक्ते ते भगवता शीर्ष्णाऽदाय च तद्वचः । प्रणम्य तं निजस्थानं जग्मतुर्जगतीपते ! ।। २४

कृष्णपूजोत्सवं चक्रे सर्वास्वेकादशीष्वथ । उत्तमः सर्वशः साधून्प्रतिद्वादश्यभोजयत् ।। २५

जन्माष्टम्यां महान्तं हरिरखिलगुरुः कारयामास तेन ।क्षोणीपालेन राजन्महमखिलनृपैर्दुष्करं मुख्यकल्पम् ।। 
मुख्या पाकक्रियादौ प्रभुमिह ललिता सेवयाऽतोषयत्तं ।नानादेशीयभक्तैः पृथुमहसुखितैर्वर्ण्यमानातिभक्तिः ।। २६


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे उत्सवेषु जयाललितयोर्मुख्यत्वस्थापननामा तृतीयोऽध्यायः ।।३।।