राजोवाच-
ब्रह्मन् ! कृष्णस्य चरितं मनःश्रवणयोः प्रियम् । शृण्वतोऽपि न मे तृप्तिर्जायते तत्र सर्वथा ।। १
निजभक्तापदां हर्तुः श्रीहरेः परमात्मनः । चरितं श्रोतुमिच्छामि नूतनं हि पदे पदे ।। २
सेवायामनिशं तस्य समवर्तन्त ये नराः । तेषां कः कश्च कां कां च सेवां चक्रेऽस्य तद्वद ।। ३
वसन् दुर्गपुरे तत्र यद्यच्चरितमीश्वरः । चकार तत्तदखिलं वक्तुं चार्हसि मे मुने ! ।। ४
सुव्रत उवाच-
सेवां तदीयां सकलां प्रायशो वर्णिराड् नृप ! । मुकुन्दानन्दनामैव चकारानुसवं शुचिः ।। ५
विशेषतोऽस्य स्न्पनं पादसंवाहनं तथा । शयनास्तरण चैष चकार जितमन्मथः ।। ६
आजहारोदकं तस्मै शुचिर्ज्येष्ठा नृपस्वसा । जया तपस्विनी प्रीत्या प्रातः सायं च गालितम् ।। ७
वर्णी नारायणानन्दस्तदीयाम्बुकमण्डलुम् । सोपपात्रं रक्षति स्म यथाकालं च तद्ददौ ।। ८
कृष्णपूजनपात्राणां मञ्जनं प्रतिवासरम् । चकार वर्णी गोपालानन्दनामा हरेर्नृप ! ।। ९
वासुदेवानन्दनामा वर्णी चन्दनघर्षणम् । चकार कृष्णपूजार्थं नियतं तस्य नैष्ठिकः ।। १०
नानाविधानि पुष्पाणि तुलसीं चानुवासरम् । उमाभयो नाथजिच्च भक्तावाजह्रतुर्वनात् ।। ११
पुजोपहारान् सकलान् यथाकालं समाहितः । अखण्डानन्द आनीय तस्मै दन्ते स्म सत्वरम् ।। १२
अन्नं तस्मै च सघृतं तैलं दुग्धं सितादि च । ददौ विशोध्यानुदिनं ललिता नृपतेः स्वसा ।। १३
चकार तस्य पाञ्चाली पाकभूमेश्च लेपनम् । गृहसम्मार्जनं चक्रे नानी तस्योत्तमस्वसा ।। १४
नृपतेर्मातरौ तस्य सोमादेवीसुरप्रभे । गौरमग्दोमयाभ्यां च चक्राते गृहलेपनम् ।। १५
दयानन्दश्च गोविन्दानन्द एतौ हि वर्णिनौ । आजहृतुर्वनात्तस्मै समिधश्च कुशाञ्छुभान् ।। १६
वाटयाः शाकांश्च पत्राणि तस्मै हरजिदुत्करौ । आजह्तुश्च काष्ठानि मयजित् पाकसिद्धये ।। १७
रत्नजित् पाकपात्राणां चकार परिमञ्जनम् । हम्मीरजित्तदर्थं च मृत्तिकामानयच्छुभाम् ।। १८
उपाहरद्दन्तकाष्ठं तस्मै च गुरुमानजित् । शिवरामः पादुके च तस्यारक्षद्विजोत्तमः ।। १९
वाससां रक्षणं तस्य मयारामश्चकार च । यथाकालं ददाति स्म तानि तस्मै स शुद्धधीः ।। २०
प्रक्षालनं तद्वस्त्राणां प्रतिवासरमादरात् । जयानन्दाभिधश्चके नैष्ठिको ब्रह्मचर्यवान् ।। २१
द्रव्यादानप्रदाने च लब्धाख्यो हरजित्तथा। नृपामात्यावुभावेतौ चक्रतुस्तस्य सन्मती ।। २२
गृहस्थानां तु सर्वेषां स्वधर्मस्थापनादिषु । हेमन्तसिंहो ववृते हरिशुश्रूषणे रतः ।। २३
उत्तमोऽपि स्वयं तस्य निर्मानो दासवत्सदा । यथावकाशं सकलामपि सेवां चकार च ।। २४
सर्वेषां सेवकानां च तत्तत्सेवाप्रवर्तनम् । रामदासो यथाकालं चक्रे भक्ताग्रणीर्हरेः ।। २५
इतिहासपुराणानि धर्मशास्त्रं च तत्पुरः । पौराणिको ह्यचकथद्बुजेरन्ते प्रयागजित् ।। २६
निशि भागवतं गीतां कार्ष्णीं नाम सहस्रकम् । विष्णोश्च वासुदेवीयं नित्यानन्दस्त्ववाचयत् ।। २७
शुकानन्दोऽकरोत् पत्रलेखं पुस्तकरक्षणम् । हरे रतश्च सेवायां सदा सहचरो मुनिः ।। २८
हरिणा लेखितान्यष्ट सच्छास्त्राणि तदग्रतः ।शतानन्दो महाबुद्धिः शोधयामास चाञ्जसा ।। २९
य इदं विदधे प्रीत्या हरिलीलोपबृंहितम् । सत्सङ्गिजीवनं रम्यं जीवातुं हरिसेविनाम् ।। ३०
सर्वेषामपि साधूनां धर्मसंस्थापनादिषु । गोपालानन्द आसीच्च सेवमानो हरिं सदा ।। ३१
मुक्तानन्दस्तथा ब्रह्मानन्द एतौ महामती । अधीतशास्त्रौ कुशलौ गायने च कवी उभौ ।। ३२
छन्दःप्रबन्धान्विविधान्प्राकृतांश्चक्रतुश्च तौ । तस्यैव प्रीतये राजंस्तन्माहात्म्यप्रकाशकान् ।। ३३
प्रेमानन्दो गानकलापटुर्वाद्ये चतुर्विधे । निपुणः प्राकृतांश्चके प्रबन्धांस्तग्दुणाश्रयान् ।। ३४
चकार निष्कुलानन्दः प्रबन्धान्प्राकृतान्कविः । ध्यानानन्दस्तथाऽन्ये च भक्ताः सुन्दरजिन्मुखाः ।। ३५
दीनानाथो व्यरचयत्संस्कृतान्यस्य सत्पतेः । तुष्टयै विचित्रवृत्तानि श्रीहरेरष्टकानि च ।। ३६
गोविन्दानन्दनामा चाभेदानन्दश्च बुद्धिमान् । गुणातीतानन्दऋषिः शिवानन्दश्च सन्मतिः ।। ३७
प्रज्ञानन्दश्च पञ्चैते हरेरग्रत आदरात् । कृष्णकीर्तनपद्यानि कीर्तयन्ति स्म भूपते! ।। ३८
महानुभावानन्दश्चात्मानन्दः कृशविग्रहः । स्वयम्प्रकाशानन्दश्च त्रयः कार्यविशारदाः ।। ३९
तदीक्षाया उपेतानां भक्तानां सर्वशो नृणाम् । मुनीनां चाचरन्नेते ह्यातिथ्यादि यथोचितम् ।। ४०
निरञ्जनानन्दऋषिर्व्यापकानन्द आत्मवित् । सुखानन्दश्च परमचैतन्यानन्दनामकः ।। ४१
गोविन्दानन्दनामान्यः कृपानन्दस्तथात्मदृक् । चैतन्यानन्दनामैते ऋषयः सप्त सद्धियः ।। ४२
देशान्तराभ्युपेतानां जनानामग्रतोऽन्वहम् । विदधुर्भगवद्वार्तास्तत्प्रीत्यै परमादरात् ।। ४३
आनन्दानन्द ईशस्य भक्तिरीतिं प्रदर्शयन् । दृढान्यकारयत्कृष्णमन्दिराणि महामतिः ।। ४४
देवरामस्तथा नारायणो हीरश्च शिल्पिराट् । आधारानन्द इत्येते चित्रप्रतिकृतीर्व्यधुः ।। ४५
देशान्तरागताभ्यश्च स्त्रीभ्यो वासस्थलादि च । माहेश्वरो ददौ दामोदरदासस्तथोचितम् ।। ४६
तासामग्रे कृष्णवार्ता रमा चक्रे तपस्विनी । स्वधर्मज्ञानवैराग्यसम्पन्ना बालयोगिनी ।। ४७
कृष्णदासो राजदास इत्युभौ नापितोत्तमौ । दीपिकाधारणं तस्य पुरतो निशि चक्रतुः ।। ४८
करिमो द्वारपालत्वं वृद्धस्तस्याकरोत्प्रभोः । तद्दिदृक्षागतान्भक्तान्मुहुस्तस्मै निवेदयन् ।। ४९
सोमः सूरश्च भृगुजिन्मानसिंहश्च केसरी । वीरोऽलयो लक्षजाल्मौ रवजिन्मानजित्कमः ।। ५०
इत्याद्याः क्षत्रियाः शूरास्तद्बक्ताः शस्रपाणयः । अन्ववर्तन्त तं नित्यं सर्वत्र द्वे शते नृप ! ।। ५१
संसेवनेन हि हरेर्निजमानुषत्वसाफल्यमेव हृदयेषु विदन्त एते ।
इत्थं तदीयमनिशं विदधुः प्रहृष्टा दास्यं यदस्ति ननु दुर्लभमेव मुक्तेः ।। ५२
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयकरणे हरिसेवनव्यवस्थानिरूपणनामा द्वितीयोऽध्यायः ।।२।।