प्रथमः अध्यायः

सुव्रत उवाच -

इत्थं निजान् दुर्गपुराधिवासान् देशान्तरस्थांश्च नरांश्च नारीः ।
अत्यर्थमानन्दयतो हि तस्य तत्र व्यतीयुः शरदोऽष्ट पुर्याम् । १

सम्पूर्णसर्वस्वमनोरथोऽथ जरन्नृपो भौतिकदेहमूर्जेः ।
विहाय दिव्यं प्रतिपद्य देहं तद्धाम गोलोकमवाप भूप ! ।। २

तस्यात्मजः सन्मतिनरौर्ध्वदैहिकक्रियाविधौ साधुजनांश्च सर्वशः ।
श्रीकृष्णभक्तान्बहुशश्च वाडवानतर्पयत्स्वादुविचित्रभोजनैः ।। ३

नृपासनस्थोऽपि स दास्यमेव स्वयं हरेश्चास्य सतां मुदैव ।
प्रीत्या चकारानुदिनं विनीतः श्रीकृष्णनिघ्नीकृतराज्यभारः । ४

स साधुसेवादिगुणैश्च भक्तया हरेश्च बुद्धया नृप ! विद्ययापि ।
ज्ञानेन धर्मेण तथा विरक्तया कीर्त्या च तातादधिको बभूव ।। ५

हरेः प्रसादाद्धनधान्यऋद्धिस्तस्याभवत्सर्वनृपाधिकैव ।
वासाद्धरेस्तत्र च पौरलोका आढया बभूवुः किल सर्वशोऽपि ।। ६

तस्य स्वसारो जननीद्वयं च स्त्रियौ तथा द्वे कुमुदा जुहूश्च ।
दासीशता अप्यनुकालमीशं सिषेविरे दास्य इव स्वयं ताः ।। ७

तदर्थमेता दलनं च कण्डनं चक्रुर्जलस्याहरणं च नित्यदा ।
तन्मन्दिरे मार्जनलेपनादि च प्रक्षालनं तत्परिधानवाससाम् ।। ८

इत्थं नृपस्यास्य च बान्धवानां श्रद्धां च भक्तिं दृढतां स्वधर्मे ।
मानक्रुधीर्ष्यादिविहीनतां च दृा तुतोषेश उदारतां च ।। ९

तेभ्योऽर्चनायानुदिनं स राधाकृष्णस्य मूर्तिं स्वसमाश्रितेभ्यः ।
पृथक् पृथक् च प्रददौ स्वदोष्णा तेऽप्याददुस्तां विनयेन नत्वा ।। १०

प्राप्यापि साक्षाद्बगवत्करात्तां मनांसि तेषां तुतुषुर्न भूप! ।
तल्लग्नसर्वेन्द्रियवृतिभाजां तमेव तस्यामपि पश्यतां वै ।। ११

स्वपूर्वरूपादपि वर्णिरूपे स्वस्मिंस्तु भावातिशयं तदीयम् ।
विबुध्य भूयोऽपि ददौ स तेभ्यो मूर्ति निजां चापि पृथक्पृथग् वै ।। १२

ततः प्रहृष्टः स्वसृभिः सहैव नृपः पुपूजानुदिनं हरिं तम् ।
तत्पूर्वरूपेण सहैव भक्तया भेदं तयोस्त्वात्मनि न व्यजानात् ।। १३

प्रत्यक्षकृष्णं प्रतिवासरं ते संसेवमाना अपि तस्य राजन्! ।
यथार्हमानर्चुरुदारभावा मूर्तिद्वयं तस्य निदेशतो वै ।। १४

तत्रापि नित्यं निरुपाधिभक्तया सर्वेभ्य आसील्ललिताऽधिकैव ।
तस्यै प्रसन्नः क्वचिदाह कृष्णो भद्रे! वृणु त्वं वरमीप्सितं मत् ।। १५

सम्पूज्य कृष्णं प्रतिवासरं प्राक् राधावयस्या हि यथा तथैव ।
पाकेन सम्भोजयितुं समुत्का कृतेन सा स्वेन जगाद किञ्चित् ।। १६

स्वामिन्विवक्षास्ति चिरं मनःस्था तथापि शक्नोमि न वक्तुमेव ।
वर्णाश्रमाचारधृतिस्तवाद्य रुणद्धि वाचं मम दिव्यमूर्तेः ।। १७

तदा हरिः प्राह हसञ्छुभास्ये! बुद्धो मया ते हि मनोभिलाषः ।
मन्मूर्तियुग्मार्चनकाल एव मनोरथः सेत्स्यति वै तवैषः ।। १८

इत्थं हरेः प्राप्तवराऽतिहृष्टा सा पूजयन्ती प्रतिमां तदीयाम् ।
प्रत्यक्षमेवाऽददतं स्वदतान्पूजोपहारांस्तमवैक्षताहो ! ।। १९

प्रमोदफुल्लान्तरवक्त्रपद्मा साऽथान्वहं चारु विधाय पाकम् ।
न्यवेदयत्स्वप्रभुमर्चयन्ती तत्प्रीतयेऽसौ बुभुजे च राजन् ! ।। २०

दिनानि जग्मुः कतिचिच्च तस्याः सुखं हरेरित्थमवाप्नुवत्याः ।
जनश्रुतिश्चास हरिर्हि भुङ्क्ते नैवेद्यमीशो ललितोपक्लृप्तम् ।। २१

आश्चर्यमेतच्च निशम्य हर्षात्तस्या हरेः पूजनकाल एत्य ।
जयादयस्तां निकषैव तस्थुः स्त्रियस्तदीक्षास्थिरदीर्घनेत्राः ।। २२

नैवैद्यकालेऽथ चतुर्विधान्नं ताः स्वामिभुक्तं ददृशुः सचित्रम् ।
भोक्तारमीशं तु न नीलकण्ठं प्रशस्य तां ताश्च ततोऽपसस्रुः ।। २३

भावं स्वकीयं भगवत्यवेत्य न्यूनं हि तस्यास्तत आप्ततापाः ।
तथाविधत्वाप्तय एव यत्ता निर्वासनत्वे मनसो बभूवुः ।। २४

अनन्यभावा ललितावदेव कालेन चाल्पेन हि ता बभूवुः ।
राजापि तादृक्त्वमवाप राजन्वर्णीन्द्रदास्यप्रसितत्वयोगात् ।। २५

मनोरथं पूरयितुं हि तेषां हरिः स्वकीयप्रतिमात्मनैव ।
तद्दत्तपूजोपहृतीः प्रहर्षात्क्वचित्क्वचित्स्वीकुरुते स्म साक्षात् ।। २६

ततोऽतिहर्षेण निरन्तरं तं सिषेविरे ते हि तदेकचित्ताः ।
तद्बक्तयधीनोऽथ न तांस्तु हित्वा गन्तुं शशाक प्रभुरन्यतो वै ।। २७

उवास तत्रैव सुखं ततोऽसौ देशान्तरीयैर्बहुभिर्नृपाद्यैः ।
स्वग्रामपुर्यागमनाय भक्तया सम्प्रार्थ्यमानोऽपि मुहुः स्वभक्तैः ।। २८

व्रजे यथोवास पुरा स कृष्णः प्रीत्यै यशोदाव्रजराजयोश्च ।
स्वभक्तगोपालकगोपिकानां तथाऽवसत्तत्र च तत्प्रियार्थम् ।। २९

स्नेहोऽभवद्बूरितरो हरेश्च तस्मिन्नृपे भक्तिमति क्षितीश ! ।
गेहं तदीयं तु स मन्यते स्म स्वकीयमेवेति च भक्तिवश्यः ।। ३०

यो हरिं भजति दम्भवर्जितस्तं भजत्यपि हरिर्निरन्तरम् ।
भक्तदत्तमणुमात्रमप्यसौ वस्तु मेरुमिव मन्यते तथा ।। ३१

इति श्रीसत्सङ्गीजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे उत्तमादिभक्तयुत्कर्षनिरूपणनामा प्रथमोऽध्यायः।। १ ।।