सप्तत्रिंशोऽध्यायः

श्रीनारायणमुनिरुवाच :-


सधवा विधवा वापि नारी या स्याद्रजस्वला । त्रिरात्रं न स्पृशेत्सा तु स्त्रियं वा पुरुषं क्वचित् ।।१।।

इन्द्रेण ब्रह्महत्यायाः स्त्रीभ्यो भागस्तुरीयकः । दत्तोऽस्ति स रजोरूपो मासि मासि प्रदृश्यते ।।२।।

प्रथमेऽहनि चण्डाली द्वितीये ब्रह्मघातिनी । तृतीये रजकी प्रोक्ता चतुर्थेऽहनि शूद्रवत् ।।३।।

दैवे कर्मणि पैत्र्ये च पञ्चमेऽहनि शुद्ध्यति । उपवासेनाऽपदि तु तृतीयेऽह्नयेव शुद्ध्यति ।।४।।

नैतत्सङ्गोपयेन्नारी महापापं कदाचन । गोपिते ब्रह्महत्याया मुच्यते नैव सा यतः ।।५।।

रजस्वला स्पृशेदन्यामुदक्यां वा परां स्त्रियम् । अन्यां वैनां स्पृशेद्बुद्धया यदि तर्हि भवेदधम् ।।६।।

धर्मशास्त्रेष्विह प्रोक्ता कृच्छ्रेणैव हि निष्कृतिः । कलौ सा सर्वनारीभिः कर्तुं शक्या न दृश्यते ।।७।।

अतोऽहं निष्कृतिं वच्मि सर्वासां सुकरामिह । या स्त्री ज्ञात्वा स्पृशेत्सा तु कुर्यादेकमुपोषणम् ।।८।।

अज्ञानतः क्वचित्स्पर्शो यदि स्यात्तर्हि सत्वरम् । स्नत्वा सचैलं कुर्वीत नारी नामस्मृतिं हरेः ।।९।।

स्पर्शे त्वापदि बुद्धयापि जाते स्ननेन शुद्धयति । स्पर्शे पुंसोऽप्युदक्याया एवमेव हि निर्गुणः ।।१०

न गोपनीयं हि रज इति प्राहुर्महर्षयः । सदाचारश्च साध्वीनामेवमेव प्रवर्तते ।।११।।

अगोपने ब्रह्महत्यादोषः स्त्रीणां विनश्यति । परपुंसो गर्भशङ्का स्वजनानां च नश्यति ।।१२।।

तस्मात्स्त्रीभिः पालनीया मर्यादैषा पुरातनी । चातुर्वर्ण्यस्थिताभिर्वै धर्मसिद्धिमभीप्सुभिः ।।१३।।

ब्रह्मचर्यव्रतं नारी पालयेद्वापि यः पुमान् । तयोस्तच्छलवाल्यैर्या भनक्ति स्त्री व्रतं भुवि ।।१४।।

क्रोधाकुणेक्षणा याम्या दूतास्तामग्निवर्णकैः । लोहदण्डैर्दाहयन्ति क्रोशन्तीमुच्चकैर्भृशम् ।।१५।।

कुम्भीपाके तप्ततैले रन्धयन्ति ततश्च ताम् । रक्तविट्पूयकुण्डे तां निक्षिपन्ति ततश्च ते ।।१६।।

स्वरोमसङ्खयवर्षाणि भुक्त्वा सा यमयातनाः । अरण्ये निर्जले देशे पिशाची जायते ततः ।।१७।।

निष्कामव्रतभङ्गं यः कामुकः पुरुषः स्त्रियाः ।पुरुषस्यापि वा कुर्यात्स मृत्वा नरकान्व्रजेत् ।।१८।।

कुम्भीपाके पच्यतेऽसौ मुहुः सर्पैश्च दश्यते । उच्चैः करोत्यार्तनादान्स याम्यैः परिताडितः ।।१९।।

निष्कामव्रतिनां पुंसां नारीणां च व्रतावनम् । ये करिष्यन्ति ते तेषां गतिं प्राप्स्यन्ति निश्चितम् ।।२०

इति ते ब्राह्मणश्रेष्ठ ! स्त्रीणां धर्मा मयोदिताः । सतीगीताभिधास्तासां सर्वासां हितकारकाः ।।२१।।

सतीगीतामिमां नारी या श्रोष्यति पठिष्यति । उभे ते प्राप्स्यतो नूनं स्ववाञ्छितफलं किल ।।२२।।

नित्यं या नियमेनैतां योषिदत्र पठिष्यति । लप्स्यते साऽत्र महतीं कीर्तिं चान्ते हरेः पदम् ।।२३।।

इति द्वितीयाश्रमिणां वृषास्ते पुंसां तथैषामपि योषितां च ।
उदीरितास्ते द्विज ! तैश्च ताभिः श्रव्याश्च पाठयाः सततं च पाल्याः ।।२४।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे धर्मोपदेशे स्त्रीसाधारणधर्मनिरूपणनामा सप्तत्रिंशोऽध्यायः ।।३७।।