सुव्रत उवाच :-
इत्थं धर्मान्प्रवदतः कुर्वतोऽसंशयान् स्वकान् । सद्वार्ताश्च प्रतिदिनं सार्धं वर्षमगाद्धरेः ।।१।।
वासन्तमुत्सवं कृत्वा दुर्गपत्तन एव सः । ययौ श्रीनगरं राजन् ! सहितो निजसेवकैः ।।२।।
सम्भारेणैव महता पुष्पदोलोत्सवं हरिः । कृत्वा महान्तं तत्राथ वृत्तालयमुपागमत् ।।३।।
तत्र रामनवम्यां च स तु कृत्वा महोत्सवम् । पुनर्दुर्गपुरं प्रायाच्चैत्र्यामेव सहानुगैः ।।४।।
द्वितीयायां सुवासीनं कृष्णायामथ तं नृपः । उत्तमः प्राञ्जलिर्नत्वा प्रोवाच विनयान्वितः ।।५।।
सर्वे मनोरथाः स्वामिन्नस्माकं कृपया त्वया । प्रपूरिताः सेवकानां प्रभुणा दीनबन्धुना ।।६।।
इच्छा त्वेकास्ति हृदये मम स्वस्रोश्च सत्पते ! । पौराणां चापि सर्वेषां तां पूरयितुमर्हसि ।।७।।
कृष्णमन्दिरमत्रापि कारणीयं त्वयेति नः । प्रार्थितं भवति स्वामिन्नवश्यं कार्यमेव तत् ।।८।।
सुव्रत उवाच :-
इति सम्प्रार्थितो राज्ञा प्रसन्नो हरिराह तम् । यादृशीच्छास्ति वो राजन्करिष्यामि तथा त्वहम् ।।९।।
इत्युक्त्वा तं स च मुनिं विरक्तानन्दमुचिवान् । मुने त्वयाऽत्र कृष्णस्य कारणीयं सुमन्दिरम् ।।१०।।
अपेक्षितानि द्रव्याणि तत्रायं भूप उत्तमः । त्वदाज्ञायां वर्तमानः सर्वाण्याहारयिष्यति ।।११।।
अहं च प्रायशोऽत्रैव स्थितोऽस्मीति कदाचन । प्रष्टव्यं यदि किञ्चित्स्यात्तदा पृच्छेश्च मामपि ।।१२।।
इत्युक्तः स तथेत्याह मुनिर्वचनकृद्धरेः । आनन्दं प्राप नृपतिस्तत्स्वसारौ च नागराः ।।१३।।
आहूय शिल्पिनः सुज्ञान्स मुनिर्मन्दिरं ततः । आररम्भन्नृपस्तत्र द्रव्याण्याहारयच्च सः ।।१४।।
हरिश्च प्रायशो नित्यं तत्रैत्योपाविशन्नृप ! । प्रशंसन् शिल्पिनां दाक्ष्यं भक्तांश्चानन्दयन्निजान् ।।१५।।
आरम्भिते भगवता मन्दिरे तत्र शोभने । अनूपसिंह आगच्छत्तं नेतुं जीर्णदुर्गतः ।।१६।।
भगवन्तं समेत्यासौ प्रणम्य प्राञ्जलिः स्थितः । उवाच भगवन् ! जातं जीर्णदुर्गे हि मन्दिरम् ।।१७।।
साकं मुनिगणैस्तत्र त्वमागत्य सपार्षदः । कुरु प्रतिष्ठां कृष्णस्य यथाकालं यथाविधि ।।१८।।
इति तस्य हरिर्वाक्यं श्रुत्वा हृष्टो द्विजोत्तमान् । पप्रच्छाऽहूय कृष्णस्य प्रतिष्ठायाः क्षणं शुभम् ।।१९
राधाकृष्णद्वितीयायां गुरुवारे शुभो हि सः । इति मौहूर्तिकाः प्रोचुस्तेभ्योऽदाद्दक्षिणां हरिः ।।२०।।
ततः समेतो निजपार्षदाग्रयैः स्वभ्रातृपुत्रैर्मुनिवर्णिभिश्च ।
ययौ हरी राधसिते दशम्यां प्रापज्जयायामथ जीर्णदुर्गम् ।।२१।।
आयान्तमाश्रुत्य च तं प्रहृष्टा हेमष्टा हेमन्तसिंहादय आशु पौराः ।
निर्यान्ति प्रत्युग्दमनाय पुर्या यावद्धरिस्तावदवाप तां सः ।।२२।।
प्रणम्य तं तेन च मानितास्ते निवेशनं तस्य सहानुगस्य ।
यथोचितं वेश्मसु कारयित्वा चक्रुर्मुदातिथ्यमतिप्रसन्नाः ।।२३।।
ततो हरिर्मन्दिरमेत्य तच्च समन्ततो वीक्ष्य बभूव हृष्टः ।
मुहुः स सर्वान्प्रशशंस शिल्पिवर्यांश्च भूपं च मुनिं स्वकीयम् ।।२४।।
हेमन्तसिंहस्य निकेतनेऽथ स्वावासमागत्य स राजकीयैः ।
आहारयामास महोपहारान् देवप्रतिष्ठाविहितान् यथार्हम् ।।२५।।
पौरैर्द्विजेन्द्रैर्निगमागमज्ञौः प्रोक्तेन चासौ विधिना चकार ।
दिनद्वयेन प्रतिमाप्रतिष्ठां कृष्णस्य कृष्णः स्वमेव राजन् ।।२६।।
वेदाष्टवस्वेकमिताब्दराधकृष्णद्वितीयादिवसादिमार्धे ।
स मन्दिरे स्थाप्यति स्म साक्षाच्छ्रीद्वारिकेशं नृप ! ।।२७।।
श्रीद्वारिकाधीश्वरदक्षभागे ततश्च राधारमणस्य मूर्तिम् ।
स स्थापयामास सुमन्दिरेऽसौ यद्दर्शनात्तीर्थफलं त्विह स्यात् ।।२८।।
कृष्णस्य वामेऽथ च मन्दिरेऽसौ सिद्धेश्वरं शङ्करमम्बिकां च ।
विनायकं चापि सुदर्शनीयं यथाविधि स्थापयति स्म दैविः ।।२९।।
वृत्तालयेऽसौ च यथैव लक्ष्मीनारायणस्थापन उत्सवं प्राक् ।
चक्रे तथेहापि महान्तमेव कृष्णप्रतिष्ठोत्सवमाचचार ।।३०।।
यथाविधीत्थं त्रिषु मन्दिरेषु देवप्रतिष्ठां स विधाय राजन् ! ।
गोभूहिरण्यानि तिलान् द्विजेभ्यो नूत्नानि वासांसि बहूनि चादात् ।।३१।।
विप्रान्समग्रान् पुरवासिनोऽथ ग्रामान्तरेभ्योऽपि समागतान्सः ।
सन्तर्पयामास तदिष्टभोज्यैर्यथोचितं रौप्यकदक्षिणाभिः ।।३२।।
सौराष्ट्रदेशाधिपतिश्च तस्य बह्वादरो वीक्ष्य महाप्रतापम् ।
साश्चर्यमागत्य तदीयपार्श्वं प्रणम्य तस्थौ नृप ! दासवच्च ।।३३।।
तं मानयामास हरिस्ततोऽस्मै तन्मन्दिरक्ष्मातलधर्मपत्रम् ।
कृत्वा ददौ स्वे विषये च तस्य धान्यानयादेरपशुल्कतां सः ।।३४।।
मदर्हकार्यं भवतां भवेद्यत्तत्सर्वथा मे कथनीयमेव ।
इत्यर्थयित्वा स महीपतिस्तं तदाज्ञाया स्वं निलयं जगाम ।।३५।।
सोऽथार्चितो भक्तजनैः सुगन्धपुष्पांशुकस्वर्णविभूषणाद्यैः ।
तद्देवसेवोत्सवसुव्यवस्थां चकार भूमा दशमीनिशायाम् ।।३६।।
एकादश्यामुत्सवं तत्र कृत्वा प्रातः कृत्वा पारणां चापरेद्युः ।
भक्तैः साकं निर्ययौ स्वानुयातैः पुर्यास्तस्याः स्तूयमानो जनौघैः ।।३७।।
सन्निवर्त्य पुरवासिनो हरिः स्वाननुव्रजत आस्रवद्दृशः ।
सानुगः पथि निजांश्च रञ्जयन् दर्श आप नृप ! दुर्गपत्तनम् ।।३८।।
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे जीर्णदुर्गे श्रीद्वारिकेशादिप्रतिष्ठानिरूपणनामैकोनपञ्चाशत्तमोऽध्यायः ।।४९।।