चतुर्पंञ्चाशत्तमोऽध्यायः

श्रीनारायणमुनिरुवाच :- 


अथाह्निकं प्रवक्ष्यामि कर्मास्य ब्रह्मचारिणः । अनुक्रमेण सेपात्कार्यमावश्यकं हि यत् ।।१।।

ब्राह्मे मुहूर्त उत्थाय नरनारायणं हृदि । ध्यात्वा तं तस्य भक्तांश्च कीर्तयन् प्रणमेच्च तान् ।।२।।

गृहीतोदकपात्रोऽथ कर्तुं शौचविधिं बहिः । ग्रामाग्दच्छेन्नैऋर्तीं वा दक्षिणां दिशमेकलः ।।३।।

अन्तर्धाय तृणैर्भूमिं शिरः प्रावृत्य वाससा । कुर्यान्मूत्रपूरीषे तु शुचौ देशे च निर्जने ।।४।।

दिवासन्ध्यासु कर्णस्थब्रह्मसूत्र उदङ्मुखः । कुर्यान्मूत्रपुरीषे तु रात्रौ चेद्दक्षिणामुखः ।।५।।

छायायामन्धारे वा रात्रावहनि वा द्विजः । यथासुखमुखः कुर्यात्प्राणबाधाभयेषु च ।।६।।

बहिर्ग्रामान्न गन्तव्यं निशि तूत्सर्गकर्मणे । कार्यं मठसमीपादौ तथैवापदि तेन तत् ।।७।।

न तिष्ठन्नाप्सु नो विप्रगोवह्न्यर्केन्दुसन्मुखः । न फालकृष्टभूभागे न मार्गे न नदीतटे ।।८।।

गवां मध्ये धान्यमध्ये जीर्णदेवालये क्वचित् । विण्मूत्रष्ठीवनं नैव कुर्यात्स्त्रीसन्मुखस्तथा ।।९।।

शतहस्तं परित्यज्य मूत्रं कुर्याज्जलाशयात् । शतद्वयं पुरीषे तु तीर्थे चैतच्चतुर्गुणम् ।।१०।।

शौचं कृत्वा मृदम्बुभ्यां गच्छेच्छुद्धं जलाशयम् । प्रक्षालयेत्करौ पादौ तत्र मृत्तिकयाम्बुभिः ।।११।।

सजन्तुर्मृत्तिका नैव ग्राह्या शौचविधौ क्वचित् । अशुचिस्थानगा चैव शौचशिष्टा च नाकुजा ।।१२।।

एका लिङ्गे गुदे तिस्रो दश वामकरे मृदः । दोष्णोर्द्वयोः सप्त देयास्तिस्रस्तिस्रश्च पादयोः ।।१३।।

एका लिङ्गे तु मृद्देया तिस्रो वामकरे तथा । उभयोः करयोर्द्वे च मूत्रशौचं प्रकीर्तितम् ।।१४।।

कुर्याद्द्वादश गण्डूषान् पुरीषोत्सर्जने द्विजः । मूत्रोत्सर्गे तु षट् कुर्याच्चतुरो वापि धर्मवित् ।।१५।।

पीतशेषं शौचशेषं नाचामेदुदकं द्विज ! । पात्रान्तरस्याभावे तत्किञ्चित्त्यक्त्वा तदाचरेत् ।।१६।।

एतच्छौचं गृहस्थस्य प्रोक्तमस्ति द्विजन्मनः । वर्ण्येतद् द्विगुणं कुर्यान्निशि त्वर्धं तथाध्वनि ।।१७।।

आर्तः कुर्याद्यथाशक्ति शक्तः कुर्याद्यथोदितम् । शौचमेतत्प्रयत्नेन देशकालानुसारतः ।।१८।।

कृते मूत्रपुरीषेऽपि यदि नैवोदकं भवेत् । तदा यर्ह्युदकाप्तिः स्यात्तदा स्नयात्सचैलकः ।।१९।।

अरण्येऽनुदके रात्रौ चौरव्याघ्राकुले पथि । कृत्वा मूत्रपुरूषं च द्रव्यहस्तो न दुष्यति ।।२०।।

अन्तर्बहिर्मज्जनेन शौचपात्रं च शोधयेत् । तुम्बी त्रिः क्षालनाच्छुद्धयेद्धातुपात्रं मृदम्बुभिः ।।२१।।

इत्थं शौचविधिं कृत्वा कुर्वीत मुखशोधनम् । न तस्य काष्ठेन मतं दन्तानामतिघर्षणम् ।।२२।।

आर्द्रद्रुमच्छेददोषात्तन्निषेधोऽस्य यत्ततः । यथालब्धेन काष्ठेन जिह्वाशुद्धिं समाचरेत् ।।२३।।

न तिष्ठन्न चलन्मार्गे न च प्रत्यङ्मुखस्तथा । भाषमाणो न चान्येन स कुर्याद्दन्तधावनम् ।।२४।।

व्रतोपवासदिवसे श्राद्धसङ्क्रान्तिपर्वसु । अपां द्वादशगण्डूषैस्तत्कार्यं न तु दारुणा ।।२५।।

नद्यां तडागे कूपे वा ततः स्ननं समाचरेत् । उष्णोदकेनाऽपदि तु मानसं वा तदाचरेत् ।।२६।।

ध्यात्वा हरिं स्वहृदये तन्नामोच्चारपूर्वकम् । मनसा कल्पितैस्तोयैर्यत्स्ननं तत्तु मानसम् ।।२७।।

स्ननकाले स्मरेग्दङ्गां विष्णुपादोदकीं शिवाम् । भगीरथतपःसिद्धिं महापातकनाशनीम् ।।२८।।

उदङ्गमुखः प्राङ्गमुखो वा स्नत्वा स्ननाङ्गतर्पणम् । कृत्वाऽगच्छेत्साम्बुपात्र आर्द्रवासा निजाश्रमम् ।२९

यद्यानुकूल्यं तत्र स्यात्तर्हि सन्ध्यां जलाशये । आर्द्रवासाः स कुर्वीत कृत्वा तिलकमम्बुना ।।३०।।

आर्द्रवासा जले कुर्याद्ब्राह्मणस्तर्पणादि च । गायत्रीं वह्निवक्त्रां तु बहिरेव जलाज्जपेत् ।।३१।।

अवमृज्यान्न च स्नतो गात्राण्यम्बरपाणिभिः । न च निर्धूनयेत्केशान्वासश्चैव न नर्तयेत् ।।३२।।

तिस्रः कोटयोऽर्धकोटिश्च सन्ति रोमाणि मानुषे । तावन्ति सन्ति तीर्थानि तस्मान्न परिमार्जयेत् ।३३

देवाः पिबन्ति शिरसो मुखतः पितरस्तथा । वक्षसोऽपि च गन्धर्वो अधस्तात्सर्वजन्तवः ।।३४।।

निजाश्रममुपेत्याथ प्रक्षाल्य चरणौ करौ । वसीत धौते वसने स्पर्शदुष्टे न चेत्तदा ।।३५।।

सकृद्धौतं स्त्रिया धौतं शूद्रधौतं तथैव च । अधौतं तद्विजानीयाच्छुष्कं दक्षिणपल्लवैः ।।३६।।

न द्विजस्पर्शदोषोऽस्ति धौतकौशेयवाससः । शाणस्यौर्णस्य तारण्स्य त्वक्पत्रादेश्च वाससः ।।३७।।

एकवासा भवेन्नैव सन्ध्याहोमजपादिषु । क्रियासु ब्राह्मणः क्वापि कर्मण्यपि च पैतृके ।।३८।।

उत्तरीयं न चेत्तर्हि परिधानार्धकेन तम् । कुर्याद्वा वस्त्रखण्डेन ब्रह्मसूत्रान्तरेण वा ।।३९।।

नग्नः स्यान्मलद्वासा नग्नः कौपीनकेवलः । अकच्छोऽनुत्तरीयश्च मुक्तकच्छश्च नग्नकः ।।४०।।

गृह आर्द्रपटो नग्न एककच्छस्तथाविधः । कटिकच्छविहीनश्च द्विकच्छो नग्न उच्यते ।।४१।।

परिधानाद्बहिः कच्छा निबद्धा ह्यासुरी मता । धर्मकर्मणि विद्वद्बिर्वर्जनीया प्रयत्नतः ।।४२।।

दैवं पित्र्यं च वा कर्म सन्ध्योपास्त्यादि नैत्यकम् । शूद्राहृतेन तोयेन विप्रो नैव समाचरेत् ।।४३।।

समित्पुष्पकुशादीनि ब्राह्मणः स्वयमाहरेत् । शूद्रानीतैः क्रयक्रीतैः पूजयेन्न रमापतिम् ।।४४।।

पूजाद्रव्याणि सम्भृत्य यथालब्धानि सत्वरम् । कम्बलाद्यासने शुद्धे शुचौ देश उपाविशेत् ।।४५।।

उदङ्मुखः प्राङ्मुखो वा स्वस्तिकासनमास्थितः । आचम्य प्राणानायम्य वर्णी पुण्ड्रं समाचरेत् ।४६

स्नत्वा पुण्ड्रं मृदा कुर्याद्धृत्वा वह्नौ तु भस्मना । देवानभ्यर्च्य गन्धेन जलमध्ये जलेन च ।।४७।।

पञ्चकं तूर्ध्वपुण्ड्राणां सगोपीचन्दनाख्यया । मुदा विशुद्धया कुर्याग्दायत्रीं वैष्णवीं पठन् ।।४८।।

ललाटकण्ठहृद्बाहौ तान्यंगुल्या समाचरेत् । अलाभे तु मृदः कुर्यादग्निहोत्रस्य भस्मना ।।४९।।

प्रातःसन्ध्यामुपासीनो गायत्रीं शक्तितो जपेत् । अष्टोत्तरं सहस्रं वा शतं वापि दशाऽपदि ।।५०।।

नित्यहोमं ततः कृत्वा भूतशुद्धिं विधाय च । प्राणप्रतिष्ठां कुर्वीत मातृकान्यासपूर्वकम् ।।५१।।

ब्रह्मभूतः परं ब्रह्म श्रीविष्णुं हृदयाम्बुजे । ध्यात्वादौ मनसाभ्यर्च्य बाह्यपूजनमाचरेत् ।।५२।।

शालग्रामशिलायां तु कार्यं नावाहनं हरेः । तथा स्थिरप्रतिकृतावन्यत्र तु तदाचरेत् ।।५३।।

पूजापद्धत्युक्तरीत्या मूलमन्त्रेण चार्चनम् । कुर्यात्पुरुषसूक्तेन यथालब्धोपचारकैः ।।५४।।

पञ्चास्याऽवृत्तयः सन्ति सूक्तस्यात्रेति सग्दुरोः । ज्ञात्वार्चनविधिं सर्वं तेनैव स समाचरेत् ।।५५।।

पुष्पधूपाद्यलाभे तद्दद्यान्मन्त्रेण मानसम् । प्रीत्या परमया नित्यं तन्मनाः प्रयतोऽर्चयेत् ।।५६।।

सङ्कल्प्य देहे देवे च कृत्वा न्यासविधिं ततः । कलशार्चां शङ्खघण्टापूजां तन्मनुनाचरेत् ।।५७।।

पूजाद्रव्याणि सम्प्रोक्ष्य ध्यानमावाहनासने । पाद्यमर्घ्यं चाचमनं स्ननं पञ्चामृतेन च ।।५८।।

लघुपूजां चाभिषेकं कृत्वा वासः समर्पयेत् । उपवीतं चन्दनं च पुष्पाणि विविधानि च ।।५९।।

तुलसीपत्रसौभाग्यद्रव्यधूपांस्ततोऽर्पयेत् । दीपं फलादिनैवेद्यं जलं च करशोधनम् ।।६०।।

मुखप्रक्षालनं दद्यात्ताम्बूलफलदक्षिणाः । नीराजयित्वाऽथ हरिं दद्यात्पुष्पाञ्जलिं च सः ।।६१।।

प्रदक्षिणां स्तुतिं कृत्वा नमस्कृत्य क्षमापयेत् । कृष्णमन्त्रं च गायत्रीं वैष्णवीं शक्तितो जपेत् ।।६२।।

तुलसीकाष्ठजा श्रेष्ठा पद्मबीजोद्बवाऽथवा । धात्रीकाष्ठोद्बवा वापि जपमाला शुभावहा ।।६३।।

ऋजुरेकाग्रदृष्टिश्च स्वस्तिकासनमास्थितः । वस्त्राच्छादितमालश्च जपेन्मौनव्रतः स्थिरः ।।६४।।

वेदं पुराणं शक्त्याऽथ भारतं वा हरेः स्तवम् । जपित्वाऽनम्य तं कुर्याग्दुरूणामभिवन्दनम् ।।६५।।

याचित्वाऽथ द्विजाञ्छुद्धानपक्वान्नं कृताप्लवः । पाकं कुर्याच्च मध्याह्नसन्ध्यां च पितृतर्पणम् ।।६६

अर्पयित्वा भगवते महानैवेद्यमादरात् । आवाहितां हरेर्मूर्तिंहृदये धारयेत्पुनः ।।६७।

नागालितं घृतं क्षीरं नैवेद्यं चाम्बु विष्णवे । केशादिदुष्टमन्नं च दग्धं दुर्गन्धि चाशुचि ।।६८।।

वैश्वदेवं ततः कुर्यादथ चेत्कोऽपि याचकः । याचेत्स्वं तर्हि विभजेत्तस्मा अन्नं मुदान्वितः ।।६९।।

हुतदत्तावशिष्टान्नपात्रं वर्णी स मण्डले । चतुरस्रे भुवि कृते निधाय प्रोक्षयेत्ततः ।।७०।।

अपोशानविधिं कृत्वा स प्राणाहुतिपूर्वकम् । अद्यात्प्रागाननः कृष्णप्रसादान्नं च मौनवान् ।।७१।।

विप्रः कश्चित्पवित्रः स्वं भिक्षायै चेन्निमन्त्रयेत् । न याचितुं तर्हि गच्छेग्दच्छेद्बोक्तुं तदालये ।।७२।।

स्वविष्णोस्तत्र नैवेद्यं कृत्वा भुञ्जीत पूर्ववत् । न स्यात्स्वव्रतभङ्गश्चेच्छ्राद्धे भुञ्जीत तर्हि सः ।।७३।।

आचम्य चुलुकं कृत्वा पात्रशुद्धिं विधाय सः । वेदसच्छास्त्रपाठाद्यैर्दिवाशेषं समापयेत् ।।७४।।

सायं स्नत्वोपास्य सन्ध्यां होमकर्म समाचरेत् । कृष्णमन्त्रं यथाशक्ति जपेत् कुर्याद्धरेः कथाम् ।।७५

व्यतीते प्रथमे यामे निशो ध्यायन् हरिं हृदि । शयनं भुवि कुर्वीत मण्डले ब्रह्मचारिणाम् ।।७६।।

इति सेपतः प्रोक्तो वर्णिनो नैत्यको विधिः । ज्ञात्व्यो विस्तरस्त्वस्य निखिलो धर्मशास्त्रतः ।।७७।

सन्ध्यापूजावैश्वदेवहोमादीनां च यो विधिः । तत्तत्पद्धतितो ज्ञोयः स तु नैष्ठिकवर्णिना ।।७८।।

एतान्धर्मान्निषेवेत यो वर्णी नैष्ठिको भुवि । प्राप्नुयात्स्वेप्सितामेव मुक्तिमेकान्तिकीं हि सः ।।७९।।

य एताञ्छृणुयाद्धर्मान् यश्च प्रीत्यानुकीर्तयेत् । प्राप्नुयातां देवलोकं तौ विमुच्याघसङ्घतः ।।८०।।

भूमौ ये नैष्ठिकाः स्युर्निजहितनिरता वर्णिनस्त्यक्तगेहा,र्
वैराग्यं तीव्रमाप्ता हरिमुरुतपसाऽराधितुं चोत्कचित्तां ।
तैरेते पालनीयाः सततमिह वृषाः श्रेयसे स्वस्य तेन,
प्रीतस्तेभ्यो ददाति प्रभुरखिलमपि प्रार्थितं वर्णिराज ! ।।८१।।


सुव्रत उवाच :-

इति निशम्य जगग्दुरुणा वृषान्निगदितान् हरिणा स्वहिताय सः ।परमतुष्टिमवाप्य मुदा च तं नरपते ! प्रणुनाव सतां पतिम् ।।८२।।


मुकुन्दानन्द उवाच :-

कल्याणहेतुगुणरत्नविभूषिताङ्घ्रे ! कारुण्यपूर्णनयनाम्बुजदीनबन्धो ! ।
नानाविधाघनिचयप्रशमाभिधान ! नित्यं नमोऽस्तु हरये गुरुराज ! तुभ्यम् ।।८३।।

अज्ञानसन्तमसनाशकभास्करस्त्वं स्वाङ्घ्रिश्रिताखिलजनेप्सितकल्पवृक्षः ।
सद्धर्मवर्त्मपरिपालनशीलशालिन्नित्यं नमोऽस्तु हरये गुरुराज ! तुभ्यम् ।।८४।।

त्वं ब्रह्मरन्ध्र इह योगकलाप्रवीणैर्ध्येयः सहस्रदलपङ्कज ईश्वरोऽसि ।
त्वं वेदकल्पतरुसम्भवहेतुरेको नित्यं नमोऽस्तु हरये गुरुराज ! तुभ्यम् ।।८५।।

त्वं वै सुरापललमैथुनसक्तपुंसामेकोऽसि दण्डधर ईश ! हिताय तेषाम् ।
धर्मं सनातनमहिंसमखं च पासि नित्यं नमोऽस्तु हरये गुरुराज ! तुभ्यम् ।।८६।।

त्वं कामलोभरसमानमुखांश्च दैत्यानण्डस्थसर्वजनताजयजातदर्पान् ।
निघ्नन्निहेश ! भवसि प्रकटप्रतापो नित्यं नमोऽस्तु हरये गुरुराज ! तुभ्यम् ।।८७।।

त्वय्येव सग्दुरुपदं जगतीह सार्थं वर्वर्ति धर्मपथि वर्तयति स्वशिष्यान् ।
धर्मं स्वयं दृढमनुष्ठितवत्यशेषं नित्यं नमोऽस्तु हरये गुरुराज ! तुभ्यम् ।।८८।।

त्वत्कीर्तिरेव गुरुनामतया प्रसिद्धान्नारीरसद्रविणलोलुपमन्दबुद्धीन् ।
सङ्कोचयत्यनुदिनं भुवि धूर्तपुंसो नित्यं नमोऽस्तु हरये गुरुराज ! तुभ्यम् ।।८९।।

एकस्त्वमेव भुवि मुक्तिपथाब्जभास्वानास्से मुमुक्षुभिरतो मुनिभिः श्रितोऽसि ।
भक्तिर्ममाप्रतिहताऽस्तु तवाङ्घ्रिपद्मे नित्यं नमोऽस्तु हरये गुरुराज ! तुभ्यम् ।।९०।।


सुव्रत उवाच :-

इत्थं स संस्तूय हरिं महात्मा ननाम वर्णीन्द्र उदारबुद्धिः ।
तद्धर्मसंस्थोऽनुदिनं सिषेवे तमेव भक्त्या परया नरेन्द्र ! ।।९१।।


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे पञ्चमप्रकरणे नैष्ठिकधर्मेषु ब्रह्मचारिणामाह्निकविधिनिरूपणनामा चतुःपञ्चाशत्तमोऽध्यायः ।।५४।।