अथ सप्तचत्वारिंशोऽध्यायः

सुव्रत उवाच-


अस्ति वृत्तालयं नाम गुर्जरेषु पुरं महत् । चत्वारोऽपि हि यत्रत्या भेजुर्वर्णा हरिं मुदा ।। १

तेऽचीकमन्त सर्वेऽपि जनाः स्वनगरे हरिम् । आनीय दुर्गपुरतः कर्तुं दोलोत्सवं नृप ! ।। २

कुबेरो यौवनाश्वश्च तत्र द्वावधिकारिणौ । तौ तैः सह विनिश्चित्य सम्भारांश्चक्रतुर्बहून् ।। ३

भ्रातरं प्रेषयामास यौवनाश्वो निजं ततः । नारायणमुनेः पार्श्वं सोऽपि माघ्यामुपाययौ ।। ४

स तं प्राप्य प्रभुं नत्वा भक्तमण्डलमध्यगम् ।प्रार्थयामास बहुधा पुरं नः पावयेति च ।। ५

ततः प्रसन्नो भगवान् भक्तवत्सल ईश्वरः । अनन्यभक्तांस्तान् जानंस्तत्राजिगमिषत्पुरे ।। ६

प्राहाथ सुन्दराख्यं तं दूतं हरिरुदारधीः । गच्छाधुनाऽगमिष्यामि त्वत्पुरं मासि फाल्गुने ।। ७

इत्युक्तः स प्रहृष्टात्मा तूर्णं स्वपुरमेत्य तत् । पौरानूचेऽथ ते हृष्टास्तं प्रतीक्ष्यावतस्थिरे ।। ८

उद्धोषः सुमहानासीद्बुवि दिक्षु विदिक्षु च । स्वामिनारायणो वृत्तालयमायास्यतीति ह ।। ९

पत्रदूतैश्च मुन्यादीन्नानादेशस्थितान् स च । स्वभक्तान् ज्ञापयामास वृतान्तमिममीश्वरः ।। १०

सौराष्ट्रादिषु देशेषु ये भक्ता मुनयश्च ते । सहैव हरिणा गन्तुमाययुर्दुर्गपत्तनम् ।। ११

तस्मिन् विकृतवर्षेऽथ सम्प्राप्ते फाल्गुने हरिः । वृत्तालयपुरं गन्तुं ततः षष्ठयां विनिर्ययौ ।। १२

तद्देशे धर्मरक्षार्थमुत्तमं नृपतिं हरिः ।आयास्यामो वयं शीघ्रमित्युक्त्वाऽस्थाप्य तं ययौ ।। १३

जया च ललिताद्याश्च योषितोऽपि सहस्रशः । तमन्वीयुर्वाहनस्थाः पौरा लोकाश्च सर्वशः ।। १४

सहस्रशो मुनिगणैर्वर्णिभिश्च सहस्रशः । सहस्रशो गृहस्थैश्च सहैव भगवान् ययौ ।। १५

सौराष्ट्रीयादिभिर्भक्तैरनुयातः सहस्रशः । सहस्रशोऽश्ववारैश्च वेष्टितश्च पदातिभिः ।। १६

अश्वां माणिक्यवर्णां द्रुततरगमनां सोऽधिरुढोऽर्ककान्तिः ।
पीतं भाले विशाले तिलकमथ दधत्कैसरं स्मेरवक्त्रः ।।
चञ्चत्कुन्तप्रवेष्टैर्निजचरणरतैरश्ववारैः परीतो ।
वल्गां दोष्णा दधानः सितवसनधरो नन्दयन्स्वाञ्जगाम ।। १७

यात्रायां मङ्गलार्थं द्विजवररचितं साक्षतं कौङ्कुमं स्वे ।
बिभ्रच्छोणं ललाटे मुनिहृदयहरं चन्द्रकं चारुनेत्रः ।।
शृण्वन्बन्द्योघवाचं निजगुणरचनां चित्रवादित्रघोषैः ।
सम्बद्धामूर्ध्वहस्तैर्जयजयवचनैर्भक्तसङ्घैर्नुतश्रीः ।। १८

नानाग्रामागतैः स्वैरनुपदमभितः सङ्गतैः पूज्यमानो ।
दृष्ठयैवानन्दवृष्टया स च पथि सुखयंस्तान् ययौ पूर्णकामः ।।
देवैराकाशसंस्थैः सितकुसुमचयैश्चाभिवृष्टः सहासं ।
पस्पर्शाभ्यस्ततूर्णाञ्चननिजवडवां पार्ष्णिना किञ्चिदेव ।। १९
सहमाना न तत्स्पर्शमात्रमप्यतिवेगिनी ।
गत्या जितमरुत्तूर्णं पुप्लुवे तार्क्ष्यवत्तु सा ।। २०

पशुजातेरपि स्वस्याः प्रभोः स्पर्शाद्धि भाविनीम् ।
दर्शयन्तीवोर्ध्वगतिमूर्ध्वं दुद्राव सा जवात् ।। २१

धावन्त्या अतिवेगेन पादन्यासं न भूतले ।
तस्यास्तदा जनः पश्यन् विस्मयं प्राप सर्वशः ।। २२

दष्टाधराः पादहताश्वतुन्दाः कशाभिरश्वानतिवेगिनोऽपि ।
घ्नन्तोऽश्ववारा हरिपृष्ठबद्धदृशोऽन्वधावंश्च सहस्रशोऽथ ।। २३

प्रान्तैश्चलद्बिः पृथुवेष्टनानां तद्धय्यनुद्रावितवाजिलोलाः ।
अदृश्यरूपैर्बभुरादितेयैः संवीज्यमाना इव चामरैस्ते ।। २४

श्रमेण स्विन्नगात्राश्च श्रमफेनमुखान्हयान् । ताडयन्तोऽपि न प्रापुरश्वारुढं प्रभुं तु ते ।। २५

अश्वैः सहातिस्विन्नांस्तानथ विश्रामयन्प्रभुः । स्वाश्वां नियम्य प्रसभं स प्रत्यैक्षत वर्त्मनि ।। २६

अथापश्यन्दूराच्चपलतुरगीकेसरकरं करेणैकेनोर्ध्वां दधतमुरुपुष्पाम्रलतिकाम् ।
हसन्तं दृा स्वादृढपरिकरं चारुनयनं श्रमस्विन्नाङ्गास्ते पथि गतरजोधूसरपटम् ।। २७

विलोक्य तं प्रभुं साश्वं तूर्णं सम्प्राप्य सादिनः । ते सर्वे जहृषुर्भक्तास्तद्दर्शनगतश्रमाः ।। २८

तानाश्वास्याथ भगवान्साकं तैश्च शनैः शनैः । चचाल मार्गे मधुरैर्वाक्यैः स्वान्हासयन् हसन् ।। २९

हरिरागच्छतीत्येवमुद्धोषः सुमहान्भुवि । पूःषु ग्रामेषु खेटेषु खर्वटेष्वप्यभूत्तदा ।। ३०

अनेकेभ्यश्च देशेभ्यो भगवद्दर्शनोत्सुकाः । ईयुर्वृत्तालयं लोका वृद्धबालपुरःसराः ।। ३१

कोसलाः काशिदेशीया मैथिलाश्च सहस्रशः । तथैव गौडदेशीया लोकाः किलकिलाश्रिताः ।। ३२

पुरुषोत्तमपूर्जाता वङ्गदेशोद्बवास्तथा । गयन्तीनगरस्थाश्च प्रयागप्रान्तवासिनः ।। ३३

शोणभद्रतटस्थाश्च वृन्दावननिवासिनः । माथुराः शूरसेनाश्च तत्रावन्त्या उपागमन् ।। ३४

एते चान्येऽपि बहवः पूर्वदेशात्समागमन् । तथा काश्मीरदेशीया हरिद्वारनिवासिनः ।। ३५

कुरुक्षेत्रगता ये च पुष्करप्रान्तवासिनः । मरुधन्वोद्बवा लोका अर्बुदाचलसम्भवाः ।। ३६

जनाः सिद्धपदस्थाश्च शतशोऽथ सहस्रशः । वृत्तालयमुपाजग्मुरुदीच्या एत आदृताः ।। ३७

तथाऽययुः पश्चिमतः सैन्धवाः कच्छदेशजाः । सौराष्ट्रा अपि पाञ्चालाः सौवीराश्च सहस्रशः ।। ३८

तथा दक्षिणतस्तत्र लोकाश्चायन्सहस्रशः । सेतुबन्धोपकण्ठस्था वेङ्कटाचलजास्तथा ।। ३९

श्रीरङ्गप्रान्तसञ्जाताः काच्चीपुरनिवासिनः । दण्डकारण्यवासाश्च मलयाद्रिभवास्तथा ।। ४०

विन्ध्याचलसमुद्बूतास्तापीतटनिवासिनः । नर्मदातीरवासाश्च गौर्जराश्च सहस्रशः ।। ४१

भगवद्दर्शनोत्कण्ठैः स्त्रीबालस्थविरैः सह । शकटाभृतसंभारास्तत्राजग्मुर्जनास्तु ते ।। ४२

यातुं शक्तिर्यदि स्यात्पथि चलत तदेत्येवमुक्ताः सुतैः प्राग्गेहे
ये जीर्णदेहा हरिचरणयुगं द्रष्टुमुत्कण्ठचित्ताः।
धृत्वा यष्टीश्चलन्तः सह तरुणजनैः श्वासफुल्लारदास्यैर्नामान्युच्चैर्वदन्तो
द्रुततरमगमंस्तत्र कृष्णस्य तेऽपि ।। ४३

पालयन्त्योऽथ मर्यादां योषाश्च भगवत्कृताम् । पुंसोऽस्पृशन्त्यो मार्गेऽपि तत्राजग्मुस्त्वरान्विताः ।। ४४

अहं पूर्वमहं पूर्वं द्रक्ष्यामि श्रीहरिं त्विति । पुरश्चरन्तो धावन्तः शिशवोऽप्याययुर्द्रुतम् ।। ४५

नानादेशसमायातैर्जनैस्तैरतिसङ्कुलम् । महीसाभ्रमतीवेत्रवतीनामन्तरं ह्यभूत् ।। ४६

तावान् स भुवि देशोऽपि वर्ततेऽप्रतिमो नृप ! । येनोपमा भवेत्तस्य देशोऽन्यो नास्ति तादृशः ।। ४७

रसाला सकला भूमिः सर्वर्तुषु सुखप्रदा । वर्तते यत्र देशे च कर्षकाणां मनःप्रिया ।। ४८

मृष्टोदका निर्विकारा वाप्यः कूपाः सरांसिच । वर्ततेऽनुपदं यत्र ग्रामे ग्रामे वने वने ।। ४९

आम्राणां क्षीरिकाणां च यत्र सङ्खया न विद्यते । अन्येऽपि बहवः सन्ति वृक्षा यत्र सुखप्रदाः ।। ५०

उदुम्बराः कपित्थाश्च वटाः प्लक्षाश्च पीलवः । अम्लिकाश्वत्थगुन्द्राश्च नालिकेरास्तृणद्रुमाः ।। ५१

बीजपूरकनारङ्गजम्बीराम्रातकास्तथा । नागकेसरपुन्नागबकुलाशोकपाटलाः ।। ५२

सुवर्णकेतकीजातीशतपत्र्यश्च मल्लिकाः । पञ्चकाः करवीराश्च शमीबिल्वद्रुमोत्पलाः ।। ५३

बदर्यः किंशुकाः पूगाः कदम्बाश्च कुरण्टकाः । पनसाश्च कदल्यश्च बन्धुजीवकयूथिकाः ।। ५४

निम्बजम्बूमधूकाद्याः पत्रपुष्पफलादिभिः । सुखयन्तो जनान्सर्वे वर्तन्ते तत्र सर्वतः ।। ५५

वनेऽपि यत्र पान्थानां गृहाकारद्रुमान्विते । छायाफलोदकप्राप्त्या ग्रामकार्यं न शिष्यते ।। ५६

तावान्देशः पूण्यभूमिर्वृन्दावनमिवोत्तमः । साधवो भगवद्बक्ताः प्रायशो विचरन्ति यत् ।। ५७

ईदृशे तत्र देशे ते निवासांश्चक्रिरे जनाः । वृत्तालयं वेष्टयित्वा सर्वतो हृष्टमानसाः ।। ५८

तटेषु सरसां केचिन्नदीनां पुलिनेषु च । केचित्कूपोपकण्ठेषु न्यवसन्कतिचिज्जनाः ।। ५९

गृहाकारान् द्रुमानेव न्यूषुराश्रित्य केचन । ग्रामेषु केचिन्न्यवसन् यथासुखमतन्द्रिताः ।। ६०

कृतावासाश्च ते सर्वे दशम्यां यत्र सङ्गताः । भुक्त्वा पीत्वा सुखासीनाः प्रत्यैक्षन्तागमं हरेः ।। ६१

पञ्चालदेशं समतीत्य भद्रां तीर्त्वा व्यतिक्रम्य च भाल्लदेशम् ।
तीर्त्वा ततः साभ्रमतीं हरिश्च प्रापत्तुरीयेऽह्नि चरोत्तरं सः ।। ६२


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे वृत्तालयदोलोत्सवे भगवत्प्रयाणदेशान्तरीयजनसङ्घागमननिरूपणनामा सप्तचत्वारिंशोऽध्यायः।।४७।।