सुव्रत उवाच-
तं देशं च रसालादीन् प्रशंसन्बहुधा द्रुमान् ।
पञ्चमेऽहनि मध्याह्ने पिप्पलावनमागमत् ।। १
तत्र तत्र च तत्रत्यैः फलपुष्पादिभिर्नृप ! ।
उपायनैर्बहुविधैः पूजितः सादरं जनैः ।। २
अनुगृंश्च मधुरैर्वाक्यैस्तान्दशमीदिने ।
सायं वृत्तालयं प्राप जनानानन्दयन्प्रभुः ।। ३
प्रतीच्यां दिशि लोकाश्च ते सर्वे बद्धदृष्टयः । श्रु
त्वागमं हरेर्हृष्टाः सद्य उत्तस्थुरादरात् ।। ४
प्राणागमे यथाङ्गानि प्रोत्थितास्तेऽथ तत्क्षणम् ।
प्रत्युज्जग्मुः प्रहर्षेण तं प्रभुं लक्षशो जनाः ।। ५
तत्पूर्निवासिनः सर्वे ब्राह्मणाः क्षत्रिया विशः ।
शूद्राः कोलाश्च शतशो हरिभक्तास्तथा स्त्रियः ।। ६
श्रुत्वा हरिमुपायातं तद्दर्शनमहोत्सवाः ।
प्रत्युग्दन्तुं तमुत्तस्थुः पौराः सर्वे ससम्भ्रमम् ।। ७
श्रुत्वा हरेरागमनं प्रेमविह्वलचेतसः ।
प्रीता बभूवुः सकलास्तदानीं पौरयोषितः ।। ८
वाससां भूषणानां च तदानीमतिसम्भ्रमात् ।
बभूव व्यत्ययस्तासां हर्षाश्रुप्लुतचक्षुषाम् ।। ९
यथातथाधृताभूषा यत्तद्विधृतवाससः ।
उत्कास्तदैव तं द्रष्टुं गृहेभ्यस्ता विनिर्ययुः ।। १०
मार्जयन्त्यो गृहान्काश्चिल्लिम्पन्त्यश्चापराः स्त्रियः ।
स्नन्त्यः काश्चित्स्त्रियः सद्यस्त्यक्त्वा तत्सत्वरं ययुः ।।
काश्चित्पाकं प्रकुर्वत्यः काश्चिग्दोदोहनं तथा ।
सुतान् पयः पाययन्त्यस्त्यक्त्वा तत्काश्चनागमन् ।। १२
ध्यायन्त्यः काश्चन हरिं काश्चित्तत्पदकार्चनम् ।
कुर्वत्यस्तद्विहायैव साक्षात्तं ययुरीक्षितुम् ।। १३
काश्चित्समाधौ पश्यन्त्यो हरिं सद्यस्तिरोहितम् ।
ससम्भ्रमं समुत्थाय ययुरुन्मत्तवत्स्त्रियः ।। १४
प्रत्युज्जग्मुर्हरिं प्रीत्या गीतवाद्यपुरःसरम् ।
जयध्वनिं प्रकुर्वन्तस्तदा पौराः सयोषितः ।। १५
सत्वरं ते चलन्तोऽपि वाद्यघोषं हरेः पुरः ।
श्रुत्वा दूराज्जायमानमधावन्दर्शनोत्सुकाः ।। १६
हरेः पुरःसरांस्तावच्छतशश्च सहस्रशः ।
दृा मुनीन्प्रणम्याथ साक्षादैक्षन्त ते प्रभुम् ।। १७
अश्वाधिरुढं धृतचारुवल्गं सहासवक्त्राम्बुजमब्जनेत्रम् ।
मार्गे जनैश्चन्दनपुष्पहारैः सम्पूजितं भक्तमनोभिरामम् ।। १८
चञ्चलत्प्रान्तसितांशुकेन तूर्णं दृढाबद्धकटिं कटाक्षैः ।
संवीक्ष्य भक्तानभि धावतः स्वं हसन्तमाश्चर्यवशादिवोच्चैः ।। १९
करेण चैकेन समाव्रजद्भ्यो भक्तव्रजेभ्यो ह्यभयं ददानम् ।
तमश्ववारैर्वृतमाशु दृा ववन्दिरे येऽग्रगतास्त आदौ ।। २०
कुबेरमुख्याः सकलाश्च पौरा भक्ताः पुमांसो द्रुतमेत्य तत्र ।
तं भूरिहर्षस्रवदश्रुनेत्राः प्रीत्या प्रभुं दण्डवदाशु नेमुः ।। २१
स्त्रीणां च वृन्दानि सहस्रशोऽथ द्रष्टुं तमुत्कण्ठितमानसानि ।
तदावलोक्य प्रभुमाशु हर्षान्निधाय शीर्षाणि भुवि प्रणेमुः ।। २२
दृा तमात्मपरमप्रियमम्बुजाक्षं नार्यः प्रहर्षमतुलं समवाप्य तूर्णम् ।
दृग्भिर्निधाय हृदयेषु हरिं मनोभिरालिङ्गय ताः पुलकिताङ्गरुहा बभूवुः ।। २३
देशान्तरीयः सर्वोऽपि जनो हरिसहागतान् ।
परिरेभे ब्रुवन् हर्षाज्जय श्रीकृष्ण इत्यसौ ।। २४
देशान्तरीया नार्योऽथ प्रभुणा सह चागताः ।
पाश्चात्या योषितो दृा परिरब्धुं विदुद्रुवुः ।। २५
स्तनोपपीडमौत्सुक्याद्धर्षेण महता वृताः ।
जय श्रीकृष्ण इत्येवं वदन्त्यः परिरेभिरे ।। २६
देशान्तरेभ्य आगत्य स्थिताः कुञ्जेष्वितस्ततः ।
त्यागिनो भगवद्बक्तास्तत्राजग्मुः सहस्रशः ।। २७
यथान्तरिक्षगा हंसा लक्ष्यीकृत्यैव मानसम् ।
सरस्तथा हरिं ते च दूरादभ्यपतन् द्रुतम् ।। २८
तत्रागत्य हरिं नत्वा दण्डवत्तेऽथ संस्थिताः ।
तानालोक्य जनास्ते तु प्रणेमुः समुपेत्य च ।। २९
कुर्वन्तश्च जय स्वामिन्नारायण इति ध्वनिम् ।
जानन्तस्तान्हरेः प्रेष्ठान् हर्षेण विलुलोकिरे ।। ३०
तानागतान् यथायोग्यं मानयामास स प्रभुः ।
प्रणतानात्मनो भक्तान्सर्वान्सन्तोषयन्नृप! ।। ३१
करस्पर्शेन कांश्चिच्च कांश्चित्सम्भाषणेन च ।
कांश्चिच्चाभयदानेन कांश्चित्सस्मितवीक्षणैः ।। ३२
सम्भाव्येति जनान् सर्वान्स्त्रियश्च भगवांस्ततः ।
जयध्वानैः स्तूयमानः सह तैः पुरमाययौ ।। ३३
कुबेरो यौवनाश्वश्च गृहीत्वा चामरे उभौ ।
वीजयामासतुर्भक्तौ तं तत्पार्श्वचरौ तदा ।। ३४
सहस्रशो दीपिकानां महता तेजसा तदा ।
चन्द्रकान्त्या च तिमिरं सर्वदिश्यं व्यलीयत ।। ३५
शङ्खभेरीमृदङ्गानां झर्झराणां सहस्रशः ।
कांस्यानां डिण्डिमानां च तत्र ध्वानो महानभूत् ।। ३६
तस्मिंस्तु तुमुले घोषे कोऽपि केनचिदीरितम् ।
वाक्यं न किञ्चिच्छुश्राव करसंज्ञाऽभवत्तदा ।। ३७
बहिराम्रवणे पुर्याः स्वावासस्थानमीश्वरः ।
अकारयच्चोद्धरिष्यन्स जन्तून्स्थावरानपि ।। ३८
जनौघवेष्टितः स्थानं तत्प्रापत्स शनैः शनैः ।
पुर्या उदग्दिशि श्रेष्ठं सर्वलोकमनोहरम् ।। ३९
तत्रोत्तरत्यथ विभौ तुरङ्गयाः पार्श्विकः पुमान् ।
यावत्करं धारयति तावत्तस्थौ स भूतले ।। ४०
स्वदर्शनं भवेदेव सर्वेषामिति स प्रभुः ।
उच्चं पीठं चतुष्पादं तस्थावारुह्य शोभनम् ।। ४१
सहागतानां सर्वेषां स्थानान्यथ यथोचितम् ।
दापयामास भगवान्निषसादासने ततः ।। ४२
किञ्चित्तत्र च विश्रम्य पीत्वा वारि ततो जनान् ।
नानादेशसमायातानवैक्षत समन्ततः ।। ४३
तत्रासन् प्रायशो भक्ताः प्रेक्षका अपि केचन ।
तत्र स्थितिभिया केचित्स्वीयान्नेतुमुपागताः ।। ४४
यत्र यत्रैक्षत विभुस्तत्र तत्र सुसङ्कुलान् ।
जनानेव स्थितान्स्वस्मिन्बद्धदृष्टीनवैक्षत ।। ४५
पुरःस्थिताश्च यावन्तस्तावन्तः पार्श्वयोरपि ।
स्वपृष्ठतोऽपि तावन्तो दृष्टा भगवता जनाः ।। ४६
दुर्गे क्षेत्रेषु सर्वेषु सरोवरतटेषु च ।
जनान्कूपोपकण्ठेषु शकटादिषु चैक्षत ।। ४७
प्रतिवृक्षं च शाखासु ह्युपर्युपरि संस्थितान् ।
पुरे प्रतिच्छदिस्तद्वल्लोकानेव समैक्षत ।। ४८
पश्यन्नेवं स उत्थाय दिशासु विदिशासु च ।
जनानेव समीक्ष्यैव जहास च भृशं प्रभुः ।। ४९
सविस्मयं शिरः स्वं च धूनयन्सोऽप्यहो अहो ।
वदन्निति पुनः पीठे निषसाद हसन्नृप ! ।। ५०
ऊर्ध्वौ कृत्वा भुजौ स्वस्य ततः स्थापनमुद्रया ।
उपावीविशदीशोऽसौ तिष्ठतः सकलाञ्जनान् ।। ५१
आज्ञाकराश्च ते सर्वे लोकास्तत्करसंज्ञाया ।
निषेदुर्बोधिताः सद्यो लक्षशोऽप्येकचेतसः ।। ५२
उपविष्टांश्च तान्भूयो भगवान्मौनमुद्रया ।
चकार संयतगिरस्तालिकावाद्यपूर्वकम् ।। ५३
तूष्णीं तेषूपविष्टेषु भगवान्भक्तवत्सलः ।
सर्वेषां स्वागतं तेषां सुखावासं च पृष्टवान् ।। ५४
एकैकदेशमुख्यांश्च द्वित्रान्द्वित्रान्निजान्तिके ।
आहूय तत्तद्देशीयं वृत्तान्तं समपृच्छत ।। ५५
तस्कराद्यप्रवेशार्थं ततस्तानन्वशात्प्रभुः ।
स्वस्वावासेष्वविज्ञातो निष्कास्यः पुरुषस्त्विति ।। ५६
आज्ञाप्तास्तेऽथ हरिणा तं प्रणम्य जना ययुः ।
स्वस्वावासान्निजं भाग्यं मन्यमाना महत्तरम् ।। ५७
स्वे स्वे वासे चैकमेकं मनुष्यं संस्थाप्यैते भूय एत्याग्रतोऽस्य ।
तस्थुः सर्वे द्रष्टुमुत्कास्तमीशं यावत्तस्येक्षाऽभवत्तावदेव ।। ५८
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे वृतालयदोलोत्सवे भक्तानां सपरिवारभगवद्दर्शनानन्दनिरूपण-नामाऽष्टचत्वारिंशोऽध्यायः।।४८।।