सुव्रत उवाच-
एतस्मिन्नन्तरे तत्र प्रभोस्तस्य तु सोदरौ । नराकृतिधरस्योभावाजग्मतुरकल्मषौ ।। १
यस्मिन्दिनेऽसौ भगवान्नीलकण्ठाभिधो गृहम् । हित्वा प्रवव्राज निजांस्तद्दिनात्तच्छुचाकुलौ ।। २
रामप्रतापेच्छारामसंज्ञाौ बुद्धिमतां वरौ । भगवद्विरहक्षामौ नित्यं तच्चिन्तने रतौ ।। ३
देशान्तरे विचरतामागतानां स्ववेश्मनि । मुखान्मुनीनां तद्वार्तां श्रुत्वा तद्दर्शनोत्सुकौ ।। ४
तत्स्नेहिभिश्च बहुभिर्बन्धुभिः सहितौ निजैः । सद्यो निर्ययतुर्ग्रामात्साश्चर्यौ कृतमङ्गलौ ।। ५
यदा तौ निर्गतौ ग्रामाद्भ्रातरौ कृतनिश्चयौ । तदा तत्परिवारोऽपि साकं ताभ्यां च निर्ययौ ।। ६
योषा रामप्रतापस्य भगवद्वीक्षणोत्सुका । नाम्ना सुवासिनी ख्याता पतिभक्तिपरायणा ।। ७
तथा रामप्रतापस्य त्रयः पुत्राः सुबुद्धयः । नन्दरामष्ठाकुरोऽयोध्याप्रसाद इति श्रुताः ।। ८
तथा तस्य सुता चैका नाम्ना सिद्धिरिति श्रुता । नन्दरामस्य योषाऽथ दिनमानाभिधा शुभा ।। ९
तत्सुतौ रामशरणनारायणसमाह्वयौ । मेधानाम्नी च तस्यैव तनया शुभलक्षणा ।। १०
ठाकुराख्यस्य भार्याऽथ नाम्ना शिवकुमारिका । गोविन्दाकुन्तिनाम्नयौ च तस्य पुत्र्यावुभे अपि ।। ११
भार्याऽयोध्याप्रसादस्य सुनन्दासंज्ञिाका तथा । तस्यैव तनया नाम्ना यमुनेत्यभिविश्रुता ।। १२
इच्छारामस्य भार्याऽथ ख्याता नाम्ना वरीयसी । पुत्राश्च तस्य प्रवराः पञ्च द्वे कन्यके अपि ।। १३
गोपालो रघुवीरश्च तथा वृन्दावनाभिधः । सीतारामश्च बदरीनाथ इत्यात्मजाः श्रुताः ।। १४
ख्याते फुल्लसरीफुल्लझरीसंज्ञो तु कन्यके । स्त्री गोपालस्य मण्डाख्या विरजाऽस्यानुजस्य च ।। १५
सुफलाख्यस्तथा चैक इच्छारास्य शालकः । मानसारामसंज्ञाोऽस्य मातुलेयश्च बुद्धिमान् ।। १६
एतैरन्यैश्च सहितौ बन्धुभिर्भ्रातरौ च तौ । भगवद्दर्शकैः पान्थैः साकं तत्रोपजग्मतुः ।। १७
प्रतिग्रामं पूज्यमानौ मार्गेऽपि भगवज्जनैः । स्वस्वामिसम्बन्धितया विनयेनादरेण च ।। १८
तत्र तत्र तदैश्वर्यं श्रुत्वा विस्मितमानसौ । तत्पुरस्योपकण्ठे तौ दूराद्धरिमपश्यताम् ।। १९
लक्षणैरात्मबन्धुं तं स्वानुभूतैरवेत्य तौ । दूराद्दुद्रुवतुः प्रेम्णा परिरब्धुं मुदान्वितौ ।। २०
आयातौ निजदर्शनार्थमथ तौ त्यक्त्वा गृहं दूरतः प्रेमाश्रुस्रुतिलोचनावतिमुदौ दृा स तद्बाववित् ।
भ्रातृस्नेहविहीनधीरपि तदा भक्तप्रियत्वात्प्रभुः पीठादुत्तरति स्म हासविकसद्वक्राम्बुजः सत्वरम् ।। २१
तावत्तौ द्रुतमेत्य तं स्वपरमप्रेष्ठं क्रमेणादराद्दोर्भ्यां सम्परिरभ्य हर्षविविशावास्तां चिरं भ्रातरौ ।
तौ सम्मान्य यथोचितं स भगवानन्यांश्च बन्धून्निजान्मित्रादीन्परिरभ्य साश्रुनयनानानन्दयामास तान् २२
रामप्रतापं ज्येष्ठं तं नारायणमुनिस्तदा । प्रणनाम कनिष्ठत्वादिच्छारामस्तमादरात् ।। २३
इतरानपि बन्धून् स्वानेवमेव यथोचितम् । ववन्दे भगवान् केऽपि तं नमश्चक्रुरुत्सुकाः ।। २४
चिरेण दृा ते सर्वें प्राणप्रेष्ठं तमीश्वरम् । जहुर्विरहजं तापं लेभिरे परमं सुखम् ।। २५
उपवेश्यासने तांश्च भगवान् पीठमास्थितः । पप्रच्छ स्वागतं तेषां वृत्तान्तं कुशलं तथा ।। २६
मुनयोऽथ जनास्ते च पार्षदा योषितस्तथा । भ्रातरौ तौ प्रभोर्ज्ञात्वा प्रणेमुस्तमिवादरात् ।। २७
ततस्तेषां निवासार्थं प्रासादं स त्वदीदपत् । शुश्रूषायां यौवनाश्वं मुकुन्दं चाप्ययूयुजत् ।। २८
ते सर्वेऽपि तदैश्वर्यं दृा श्रुत्वा च विस्मिताः । मेनिरे वासुदेवं तमात्मबन्धुं नराकृतिम् ।। २९
यथासुखं वसन्ति स्म प्रासादे तत्र तेऽखिलाः । खानपानोपहाराद्यैः सेव्यमाना हरिप्रियैः ।। ३०
रामप्रतापमुख्येषु प्रभोर्बन्धुषु तेष्वथ । गतेष्वावासमीशं तमानन्दानन्द ऊचिवान् ।। ३१
पृच्छामि भगवन्नेकं संशयं त्वाधुनोदितम् । ज्येष्ठं सहोदरं वीक्ष्य साकेतादागतं तव ।। ३२
प्रणेमे स त्वयैवादौ ददे प्रणमितुं न सः । तत्र किं त्वयि तद्बक्तेर्न्यूनतास्ति वृषात्मज ! ।। ३३
मर्यादारक्षणार्थं वा सदाचारस्य किं त्वया । तथाचरितमेतन्मे वक्तुमर्हसि सत्पते ! ।। ३४
तदा स भगवानूचे सर्वेषां शृण्वतां च तम् । अस्य भक्तिर्मयि मुने ! श्वाफल्केरिव वर्तते ।। ३५
आगच्छन् गोकुलं मार्गे मथुरायाः स यादृशम् । प्तो भावं तादृशं वै प्राप्तो भवति मय्यसौ ।। ३६
भक्तौ न्यूनत्वशङ्काऽतो मास्तु ते मुनिसत्तम ! । कृतं प्रणामादानं तु मर्यादास्थितये मया ।। ३७
इति वाक्यं प्रभोः श्रुत्वा स महर्षिस्तथाऽपरे । सदःस्थिताः प्रजहृषुर्जनाः प्रापुश्च विस्मयम् ।। ३८
देशान्तरेभ्यः समुपागातानां तस्मिन् दिने तत्र नरेश ! नृणाम् ।
हरीक्षणानन्दभरेण तेषां मार्गश्रमार्तिस्तु तिरोहिताऽभूत् ।। ३९
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे वृत्तालयदोलोत्सवे रामप्रतापादिभगवद्वन्धुजनागामननिरूपणनामैकोनपञ्चाशत्तमोऽध्यायः ।।४९।।